Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 94
________________ भाष्यटीकाविवृतियुता] सहानवस्थानलक्षणविरोधस्य तत्तत्प्रकारनिरसनैन स्याद्वादेऽनवकाशः । [५३] न्तयोः संयोगविनाशे विभाग उपजायते फलादिषु श्यामताऽपैति पीततोत्पद्यत इति विकल्प्य निरसमीयम् , एवमेते विकल्पाः पूर्वकेण विरोधलक्षणेन सङ्गता अपीह स्यात्कारोपलाञ्छनप्रक्रियायां न सम्भवन्ति । अपि चैकत्रावस्थानं न दृश्यत इति किमेकस्मिन् धर्मिणि नास्ति, यद्येवं ततोऽसिद्धता, दृष्ट एक एवाश्मा शीतश्चोष्णश्च । अथ यत्र देशे शीतो न तत्रैवोष्ण इति, एतदप्यसत्, नहि शिशिरस्पर्शमुदकं भिन्नदेशवय॑संयुक्तमेवाग्निं विध्यापयति, संयोगश्चैकदेशवर्तित्वे जलानलपरमाणूनां सिद्ध्यति, अन्यथा च त्रैलोक्येऽप्यन्यभावप्रसङ्गः, सति च संयोगे क्षणमात्रावस्थानमेकत्र दृष्टमेव तदा कुतो विरोधः ? । उत्तरकालमदर्शनाद् विरोध इति चेत् , अत एव कदाचिद् विरोधः कदाचिदविरोध इति स्याद्वादाश्रयणमपदोषम् ॥ अथैकस्मिन्नेवाग्निद्रव्ये उष्णतानुष्णते युगपन्न स्तः, इत्येतदप्यसारम् , यतः स्पर्शपर्यायेणाग्निरुष्णोऽभिधीयते रूपपर्यायेण त्वनुष्ण एव । अथोष्णस्य प्रतियोगी शीत एवानुष्ण इति गृह्यते, रिक्तमेतदपि, अनुष्णाशीतस्याप्युष्णग्रहणे प्रतिक्षिप्यमाणत्वात् , तस्मादुष्णपर्यायोऽनुष्णपर्यायेण प्रतिपक्षेण सहैकत्रैकदा च दृष्ट इति । न च वध्यघातकासहावस्थानविरोधयोर्विशेषः कश्चिदस्ति, अहिनकुलयोर्हि संयोगे योऽहेर्जीवनपर्यायः स मरणपर्यायेण सह नावतिष्ठते इत्यसहावस्थानलक्षण एव विरोधः, तथाऽग्निजलयोः सति संयोगे कदाचिदुष्णपर्यायस्य शीतपर्यायेण सहानवस्थानं बहुजलमध्यप्रक्षिप्तस्यैकस्याङ्गारशकलस्य, कदाचिच्छीतस्यानवस्थानं प्रवृद्धज्वलनज्वाला शीतत्वसंयोगविभागश्यामत्वरक्तत्वादीनामपेक्षाभेदेनैकत्रसमावेशतो विरोधस्यैवाभावात् । कथश्चिद्विरोधस्त्वविरोधाक्षेपक एवे. त्याह-एवमेत इति, एते अनन्तरमुपदर्शिताः । विकल्पा विरोधस्य शीतोष्णादिलक्ष्यभेदप्रकाराः। पूर्वकेण अनन्तराभिहितेन । विरोधलक्षणेन सहानवस्थानलक्षणेन । ययोरेकत्रावस्थानं न दृश्यते तो विरुद्धाविति परपरिकल्पनाऽपि न विचारसहेत्याह-अपि चेति । यद्येवम् एकस्मिन् धर्मिणि नास्ति इत्येव यदि विरोधार्थस्तदा। असिद्धता इति यदुक्तं तदेवोपपादयति-दृष्ट एक एवेति । अश्मन्यवयविनि यदवयवावच्छेदेन शीतत्वं तदवयवावच्छेदेन नोष्णत्वमित्येकावच्छेदेनैकाधिकरणावृत्तित्वं विरोध इत्यभिधानेनासिद्धतेत्याशङ्कते-अथेति । यद्देशावच्छेदेनेदानीं शीतत्वमश्मनि तद्देशावच्छेदेनैव कालान्तरे तत्रैवोष्णत्वमित्येवमप्यसिद्धता तदवस्थैवेति प्रतिक्षिपति-एतदप्यसदिति । यद्देशावच्छेदेन यत्कालावच्छेदेन यत्र शीतत्वं तद्देशावच्छेदेन तत्कालावच्छेदेन तत्र नोष्णत्वमिति एकदेशैककालावच्छेदेनैकाधिकरणावृत्तित्वरूपविरोधस्य नासिद्धतेति पराकूतमाशङ्कते-अथैवमिति । एवमपि जलानलयोर्विरोधस्यासिद्धतैवेति प्रतिक्षिपति-एतदप्यसदिति । ननु जलस्याग्निविध्यापकत्वान्यथानुपपत्त्या भवतु तयोः संयोगस्तथाप्येकदेशवृत्तित्वं कुतो येनोक्तविरोधलक्षणासिद्धता स्यादित्यत आह-संयोगश्चेति । नन्वसंयुक्तमेव जलमग्निं शमयतु को दोष इत्यत आह-अन्यथेति, असंयुक्तस्यापि जलस्याग्निविध्यापकत्व इत्यर्थः । ननु क्षणमात्रमेकत्रोभयोः समवधानेऽप्यन्यदाऽसमवधानमेवेति तद्विरोधनिमित्तकमेवेत्याशङ्कते-उत्तर कालेति । एवं सति कथंचिद्विरोध आयाति, स च स्याद्वादाभ्युपगत एवेत्युत्तरयति-अत एवेति । उष्णतानुष्णत्वयोः सर्वथा विरोधमाशङ्कते-अथैकस्मिन्नैवेति । उष्णत्वमप्यनुष्णत्वेन सहकदैव वर्तत इति तयोरपि न विरोध इति प्रतिक्षिपति-एतदप्यसारमिति । उष्णस्य विरोधी शीत एवानुष्णशब्दवाच्यो न रूपमिति तत्सत्त्वेऽपि नानुष्णस्य सत्त्वमिति शङ्कते-अथोष्णस्येति । प्रतियोगी विरोधी । अनुष्णाशीतोऽप्यतिरिक्तः स्पर्शो नैयायिकैरुपगत एव, सोऽपि उष्णस्पशेण प्रतिक्षिप्यमाणत्वादुष्णस्पर्शविरोधी भवत्येवेति रिक्तमिदमुच्यते शीत एवानुष्ण इति, तथा चोष्णपर्यायभिन्नत्वाद्यथाऽनुष्णाशीतोऽनुष्णस्तथा रूपमपीति स्पर्शपर्यायेणाग्निरुष्णो रूपपर्यायेण त्वनुष्ण इति युक्तमेवेत्याशयेनोत्तरयति-रिक्तमिति, उक्ताशङ्काप्रतिपाद्यमपि रिक्त तुच्छमित्यर्थः, यच्च ध्यघातकभावसहानवस्थानभेदेन विरोधद्वैविध्यं पराभिमतं तदपि नास्तीत्याह-न चेति । वध्यघातकभावस्य सहानवस्थानलक्षणविरोध एवान्तर्भावं प्रकटयति-अहिनकलयोहीति । अग्निजलयोरपि सहानवस्त्रानलक्षण एव विरोध इत्याह-तथाग्निजलयोरिति । विषयभेदाद्वध्यधातकसहानवस्थानयोर्भेद

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150