________________
भाष्यटीकाविवृतियुता] सहानवस्थानलक्षणविरोधस्य तत्तत्प्रकारनिरसनैन स्याद्वादेऽनवकाशः । [५३] न्तयोः संयोगविनाशे विभाग उपजायते फलादिषु श्यामताऽपैति पीततोत्पद्यत इति विकल्प्य निरसमीयम् , एवमेते विकल्पाः पूर्वकेण विरोधलक्षणेन सङ्गता अपीह स्यात्कारोपलाञ्छनप्रक्रियायां न सम्भवन्ति । अपि चैकत्रावस्थानं न दृश्यत इति किमेकस्मिन् धर्मिणि नास्ति, यद्येवं ततोऽसिद्धता, दृष्ट एक एवाश्मा शीतश्चोष्णश्च । अथ यत्र देशे शीतो न तत्रैवोष्ण इति, एतदप्यसत्, नहि शिशिरस्पर्शमुदकं भिन्नदेशवय॑संयुक्तमेवाग्निं विध्यापयति, संयोगश्चैकदेशवर्तित्वे जलानलपरमाणूनां सिद्ध्यति, अन्यथा च त्रैलोक्येऽप्यन्यभावप्रसङ्गः, सति च संयोगे क्षणमात्रावस्थानमेकत्र दृष्टमेव तदा कुतो विरोधः ? । उत्तरकालमदर्शनाद् विरोध इति चेत् , अत एव कदाचिद् विरोधः कदाचिदविरोध इति स्याद्वादाश्रयणमपदोषम् ॥ अथैकस्मिन्नेवाग्निद्रव्ये उष्णतानुष्णते युगपन्न स्तः, इत्येतदप्यसारम् , यतः स्पर्शपर्यायेणाग्निरुष्णोऽभिधीयते रूपपर्यायेण त्वनुष्ण एव । अथोष्णस्य प्रतियोगी शीत एवानुष्ण इति गृह्यते, रिक्तमेतदपि, अनुष्णाशीतस्याप्युष्णग्रहणे प्रतिक्षिप्यमाणत्वात् , तस्मादुष्णपर्यायोऽनुष्णपर्यायेण प्रतिपक्षेण सहैकत्रैकदा च दृष्ट इति । न च वध्यघातकासहावस्थानविरोधयोर्विशेषः कश्चिदस्ति, अहिनकुलयोर्हि संयोगे योऽहेर्जीवनपर्यायः स मरणपर्यायेण सह नावतिष्ठते इत्यसहावस्थानलक्षण एव विरोधः, तथाऽग्निजलयोः सति संयोगे कदाचिदुष्णपर्यायस्य शीतपर्यायेण सहानवस्थानं बहुजलमध्यप्रक्षिप्तस्यैकस्याङ्गारशकलस्य, कदाचिच्छीतस्यानवस्थानं प्रवृद्धज्वलनज्वाला
शीतत्वसंयोगविभागश्यामत्वरक्तत्वादीनामपेक्षाभेदेनैकत्रसमावेशतो विरोधस्यैवाभावात् । कथश्चिद्विरोधस्त्वविरोधाक्षेपक एवे. त्याह-एवमेत इति, एते अनन्तरमुपदर्शिताः । विकल्पा विरोधस्य शीतोष्णादिलक्ष्यभेदप्रकाराः। पूर्वकेण अनन्तराभिहितेन । विरोधलक्षणेन सहानवस्थानलक्षणेन । ययोरेकत्रावस्थानं न दृश्यते तो विरुद्धाविति परपरिकल्पनाऽपि न विचारसहेत्याह-अपि चेति । यद्येवम् एकस्मिन् धर्मिणि नास्ति इत्येव यदि विरोधार्थस्तदा। असिद्धता इति यदुक्तं तदेवोपपादयति-दृष्ट एक एवेति । अश्मन्यवयविनि यदवयवावच्छेदेन शीतत्वं तदवयवावच्छेदेन नोष्णत्वमित्येकावच्छेदेनैकाधिकरणावृत्तित्वं विरोध इत्यभिधानेनासिद्धतेत्याशङ्कते-अथेति । यद्देशावच्छेदेनेदानीं शीतत्वमश्मनि तद्देशावच्छेदेनैव कालान्तरे तत्रैवोष्णत्वमित्येवमप्यसिद्धता तदवस्थैवेति प्रतिक्षिपति-एतदप्यसदिति । यद्देशावच्छेदेन यत्कालावच्छेदेन यत्र शीतत्वं तद्देशावच्छेदेन तत्कालावच्छेदेन तत्र नोष्णत्वमिति एकदेशैककालावच्छेदेनैकाधिकरणावृत्तित्वरूपविरोधस्य नासिद्धतेति पराकूतमाशङ्कते-अथैवमिति । एवमपि जलानलयोर्विरोधस्यासिद्धतैवेति प्रतिक्षिपति-एतदप्यसदिति । ननु जलस्याग्निविध्यापकत्वान्यथानुपपत्त्या भवतु तयोः संयोगस्तथाप्येकदेशवृत्तित्वं कुतो येनोक्तविरोधलक्षणासिद्धता स्यादित्यत आह-संयोगश्चेति । नन्वसंयुक्तमेव जलमग्निं शमयतु को दोष इत्यत आह-अन्यथेति, असंयुक्तस्यापि जलस्याग्निविध्यापकत्व इत्यर्थः । ननु क्षणमात्रमेकत्रोभयोः समवधानेऽप्यन्यदाऽसमवधानमेवेति तद्विरोधनिमित्तकमेवेत्याशङ्कते-उत्तर कालेति । एवं सति कथंचिद्विरोध आयाति, स च स्याद्वादाभ्युपगत एवेत्युत्तरयति-अत एवेति । उष्णतानुष्णत्वयोः सर्वथा विरोधमाशङ्कते-अथैकस्मिन्नैवेति । उष्णत्वमप्यनुष्णत्वेन सहकदैव वर्तत इति तयोरपि न विरोध इति प्रतिक्षिपति-एतदप्यसारमिति । उष्णस्य विरोधी शीत एवानुष्णशब्दवाच्यो न रूपमिति तत्सत्त्वेऽपि नानुष्णस्य सत्त्वमिति शङ्कते-अथोष्णस्येति । प्रतियोगी विरोधी । अनुष्णाशीतोऽप्यतिरिक्तः स्पर्शो नैयायिकैरुपगत एव, सोऽपि उष्णस्पशेण प्रतिक्षिप्यमाणत्वादुष्णस्पर्शविरोधी भवत्येवेति रिक्तमिदमुच्यते शीत एवानुष्ण इति, तथा चोष्णपर्यायभिन्नत्वाद्यथाऽनुष्णाशीतोऽनुष्णस्तथा रूपमपीति स्पर्शपर्यायेणाग्निरुष्णो रूपपर्यायेण त्वनुष्ण इति युक्तमेवेत्याशयेनोत्तरयति-रिक्तमिति, उक्ताशङ्काप्रतिपाद्यमपि रिक्त तुच्छमित्यर्थः, यच्च ध्यघातकभावसहानवस्थानभेदेन विरोधद्वैविध्यं पराभिमतं तदपि नास्तीत्याह-न चेति । वध्यघातकभावस्य सहानवस्थानलक्षणविरोध एवान्तर्भावं प्रकटयति-अहिनकलयोहीति । अग्निजलयोरपि सहानवस्त्रानलक्षण एव विरोध इत्याह-तथाग्निजलयोरिति । विषयभेदाद्वध्यधातकसहानवस्थानयोर्भेद