________________
५४1. द्वितीयविरोधस्य तत्तत्प्रकारनिरसनेन स्याद्वादेऽनवकाशः। [तत्त्वार्थत्रिसूत्री प्रतप्तवारिणीति । वध्यघातकलक्षणः प्राणिविषय इति चेत् , न, असहावस्थानलक्षणस्यापि कस्यचित् प्राणिविषयत्वेन दर्शनात् ॥ अथैककालविषययोर्वध्यघातकविरोध इति चेत्, न, असहावस्थानलक्षणेऽपि विरोधे यदा श्यामताऽपैति पीतता चोत्पद्यते तदा विगमप्रतिपत्त्योरेकः कालोऽतः शब्दार्थोऽपि न सङ्गच्छते सहानवस्थानमिति, तस्मान्नास्ति विरोधः ।। .. अथ द्वितीयपक्षमाश्रयते-कालान्तरावस्थायित्वे सति दृष्टयोरेकवान्यतरस्यानवस्थानमुभयानवस्थानं वा विरोध इति, सोऽप्यसङ्गतः, कालान्तरावस्थायितायामेकत्र तावन्न विरोधः । उत्तरकालमनवस्थानोपलब्धेविरोध इति चेत्, एवं सति न कस्यचित् स्त्रीमनुष्यबलीवर्दादेविरोधः स्यात् , तस्मादुपेक्ष्यः । नापि प्रतिबन्ध्यप्रतिबन्धकमावलक्षणो विरोधः सदसतोर्नित्यानित्ययोर्वा, अभिन्नकालमेकत्रात्मद्रव्ये किल धर्माधर्मावुभावपि स्तः, तयोश्चैकस्य प्रधानभावोऽन्यस्य गुणभावः, प्रधानगुणभावे चैकत्र द्वयमप्यस्तीति को विरोधः ? । अथैवं मन्येथाः-धर्मस्य फलमधर्मफलेन प्रतिबद्धमधर्मफलं च धर्मफलेन प्रतिबद्धमेष विरोध इति, यदैकस्य प्रधानभावस्तदैव न तस्य गुणभावः, प्रधानता चोद्भूतविपाकावस्थया गुणभावोऽप्यनुद्भूतविपाकावस्थयेति, एतदप्ययुक्तम्, यस्मादेकत्रात्मन्येकदा धर्माधर्मफलोपभोगोऽभ्युपगम्यत एव जैनेन्द्रैः, धर्माधर्मी पुण्यापुण्यलक्षणौ, पुण्यापुण्ये च पुद्गलात्मके, पुद्गलाश्च ज्ञानावरणादिभेदेन परिणताः, कर्म चतुर्विंशत्युत्तरप्रकृतिशतभेदम् , तत्र कर्मप्रकृतीनामशीतिळधिका पापमपुण्यमधर्म इति संज्ञाता, चत्वारिंशत् व्यधिका तु पुण्यं धर्म इति, तत्र कासाश्चित् प्रकृतीनां पुण्याख्यानां पापप्रकृतीनां च युगपद् विपाकाभ्युपगमे कुतः प्रतिबन्ध्यप्रतिबन्धकमावलक्षणो विरोधः । अथापि स्यात् कासाञ्चित् प्रकृतीनां प्रतिबन्ध्यप्रतिबन्धकभावो यथा नरायुषः सुरायुषश्चैकदैकत्र विपाइत्याशय प्रतिक्षिपति-वध्यघातकेति । पुनस्तयोर्विशेषमाशय प्रतिक्षिपति-अथैककालेति । विगमप्रतिपस्योः विनाशोत्पादयोः । विगमोत्पादयोरेककालावस्थितत्वात्सहावस्थानमेवेति तत्र सहानवस्थानशब्दार्थघटना नेत्याह-अत इति ।
अथ यावेकत्र कालान्तरं स्थितौ पश्चादन्यतरविनाश उभयविनाशौ वा तो विरुद्धाविति द्वितीयपक्षखण्डनायोपक्रमते-अथ द्वितीयपक्षमाश्रयत इति, वादीति शेषः । तत्पक्षाभिप्रेतं विरोधखरूपमुपन्यस्य प्रतिक्षिपति-कालान्तरावस्थायित्वे सतीति । एकत्र देशे विरुद्धतयाऽभिमतयोरुभयोः कालान्तरावस्थायितायां सत्त्यां साहचर्यस्यैव विरोधप्रतिपक्षस्य भावात्कुतो विरोध इत्याह-कालान्तरेति । कञ्चित्कालमवस्थानेऽपि उत्तरकालमनवस्थानाद्विरोध इति परः शङ्कते-उत्तरकालेति । विरुद्धयोरप्युत्तरकालमवस्थितिर्येषां दृश्यते तेषामविरोध एव एवं सति स्यादित्याह-एवं सतीति । प्रकारान्तर विरोधस्याशक्य प्रतिक्षिपति-नापीति, सदसतोर्नित्यानित्ययोर्वा प्रतिबद्ध्यप्रतिबन्धकभावलक्षणविरोधो नेत्यन्वयः । यथा धर्माधर्मावन्योन्यं विरुद्धाविति लोके प्रसिद्धौ परं तयोर्न प्रतिबद्ध्यप्रतिबन्धकभाव एककालावच्छेदेनैकत्रात्मनि तयोर्भावादिति प्रसिद्धलक्ष्यातिक्रमस्तथा, प्रकृतेऽपि भविष्यतीत्याह-अभिन्नकालेति । तयोः, धर्माधर्मयोः। प्रधानगुणभावश्च फलप्रदानोन्मुखत्वानुन्मुखत्वाभ्याम् । एकदा तदुभयं न फलं प्रसूत इति फलविरोधेन तयोर्विरोध इति पराभिप्रायमाशङ्कते-अथैवं मन्येथा इति । फलविरोधकृतोऽपि न तयोर्विरोध इति स्याद्वादमतोपदर्शनेनोक्ताशङ्कां प्रतिक्षिपति-एतदप्ययुक्तमित्यादिना । कथमभ्युपगम्यत इत्यपेक्षायां जैनी प्रक्रियामपूर्वामुद्घाटयति-धर्माधर्मावित्यादिना। कर्मेत्येकवचनं जात्येकत्वविवक्षया। चतुर्विशत्युत्तरप्रकृतिशतभेदमिति, प्रकृतिशब्दोऽत्र भेदपर्यायः, तथा च मूलभेदापेक्षया अष्टविधस्यापि कर्मण उत्तरभेदाश्चतुर्विंशत्यधिकं शतमित्यर्थः । ननु कर्मग्रन्थादौ विंशत्यधिकं शतमिति कथं न विरोध इति चेन्न, धर्णचतुष्कस्य शुभाशुभमेदेन द्विधाविवक्षणाच्चतुस्संख्याधिक्येऽपि क्षत्यभावात् ।
अत्र कति कर्मप्रकृतयः पापसंज्ञिताः कति च पुण्यसंज्ञिता इत्यपेक्षायामाह-तत्रेति । तयोः फलतोऽपि न विरोध इत्युपपादनायाह-तत्र कासांचित्प्रकृतीनामिति । यासामपि कर्मप्रकृतीनां प्रतिबद्ध्यप्रतिबन्धकभावो विद्यते तत्रापि कर्मणो न सहानवस्थानलक्षणविरोध इत्यावेदयितुताह-अथापि स्यादिति । उक्तविरोधाभ्युपगमेऽपि प्रकृते न किञ्चिद