________________
[५२] नित्यत्वेन सहोत्पादव्ययविरोधपरिहारे सहानवस्थानलक्षणविरोधनिरासः । [ तत्त्वार्थत्रिसूत्री
सतीतरस्य दुर्बलत्वाद् वध्यत्वे स्याद् विरोधः, न चैवं सदसतोर्नित्यानित्ययोर्वा क्षणमात्रमप्येकत्रवृत्ति - स्त्वयाऽभ्युपेयते, गुणविषये संयोगाभावान्नापि समवायवृत्तिर्विरोधाभावप्रसङ्गात्, तस्मान्न नित्यानित्यसदसदादीनामेकवस्त्वाश्रयतायां वध्यघातकभावलक्षणो विरोधः समस्ति । नाप्यसहावस्थानलक्षणो विरोधः, स हि शीतोष्णवत् फलवृन्तसंयोगविभागवदाम्रफलादिषु श्यामतापीततावद् वा, तथाहि - शीतपर्यायोऽश्मादीनां प्राग् विद्यमानः पश्चादुपजायमानेनोष्णपर्यायेण सह नावतिष्ठते, तथोष्णः शीतेनोपजायमानेन सह विरुध्यते, न चैवं प्रागवस्थितं नित्यत्वमनित्यत्वेन पश्चात्कालभाविना विनाश्यते, तद्धि नित्यत्वमेव न स्यादध्रुवत्वात् नापि नित्यत्वेनोत्पत्तिभाजा पूर्वावस्थितमनित्यत्वं विनाश्यते, तत् तु नित्यत्वमेव न स्यादुत्पद्यमानत्वात् अपि च क्षणनश्वरेषु भावेषु न कदाचिदयं विरोधः समस्ति, नहि तत्रानित्यत्वस्य पूर्वमवस्थानम्, तेन ह्यनित्यत्वेन नाशिते वस्तुनि निराधारस्य नित्यत्वस्याभाव एव, अवश्यंतयाऽसहावस्थानलक्षणविरोधवादिना तत्रान्यतरस्योत्पद्यमानता अन्यतरस्य च पूर्वावस्थितिरभ्युपेया, अन्यथाऽसहावस्थानलक्षणविरोधवाद्येव न स्यात्; येषामपि किञ्चित् कालं स्थित्वा घटो विनश्यति तैरपीदं वक्तव्यम् - यावदसौ न विनश्यति तावत् किं नित्य उतानित्य इति ?, नित्यश्चेद् व्योमादिवदनुच्छेदप्रसङ्गः, इतरत्र त्वभावप्रसङ्गः, अवश्यमेव सता नित्येनानित्येन वा भवितव्यमेकान्तवादिनाम्, अनेकान्तवादिनां तूभयस्वभावत्वाद् वस्तुनो न किञ्चिद्घटमानकम् ; एवमेव फलवृ
उक्तविरोधस्य प्रकृतेऽसम्भवमुपदर्शयति- न चैवमित्यादिना । त्वया एकान्तविरोधवादिना । वृत्तिः संयोगसम्बन्धेन वर्त्तनम् । गुणविषय इति, गुणपदञ्चात्र द्रव्यभिन्नपरम् तेनोत्पादादीनां गुणरूपत्वाभावेऽपि न क्षतिः । समवायवृत्तिरिति, समवायपदं संयोगातिरिक्तवृत्तिनियामकसम्बन्धमात्रपरम् तेनोत्पादादीनां गुणजात्यादिव्यतिरिक्ततयोपाधिरूपत्वेन समवायप्रतियोगित्वाभावेऽपि वृत्तिनियामकसम्बन्धेन विरुद्धयोरपि कालिकादिसम्बन्धेनैकाधिकरण्येऽपि च न क्षतिः । विरोधाभावेति, एकाधिकरणावृत्तित्वरूप विरोधाभावेत्यर्थः । वध्यघातकभावखण्डनमुपसंहरति-तस्मादिति । यद्यप्यम्यत्रैकाधिकरणवृत्तित्वे सत्येव वध्यघातकभावः, तथापि प्रकृते एकान्तवादिन एकाधिकरणावृत्तित्वात्मतैव वध्यघातकमावस्या - मिमता नित्यानित्यत्वादीनां नाश्यनाशकभावरूपस्य तस्यासम्भवादित्यभिसन्धिः । यदि सहानवस्थानलक्षणविरोध एव प्रकृते परोऽभ्युपेयात्तत्राह - नाप्यसहानवस्थानलक्षण इति । स सहानवस्थानलक्षणविरोधः । हि यतः । शीतोष्णवन्नित्यत्वानित्यत्वयोर्न विरोध इत्युपपादयति - तथा हीत्यादिना, शीतोष्णयोरेकस्योत्पादे तदन्यस्य विनाशो दृष्टो न चैवं नित्यत्वानित्यत्वयोरिति सन्दर्भाभिप्रायः । किञ्चायं विरोधो नित्यत्वानित्यत्वयोः क्षणभङ्गुर पदार्थवादिनोच्येत, कञ्चित्कालस्थायिपदार्थवादिना वा, तत्र नाद्य इत्याह-अपि चेति । तत्र क्षणभङ्गुरेषु । तेन क्षणभङ्गुरतालक्षणेन । नाशित इति, अनित्यत्वस्वाभाव्यादेव नश्यति घटः, नाशो निर्हेतुक एवेत्युत्पत्त्यनन्तरमेव विनश्यतीत्यभिसन्धानेनेत्थमुक्तिः, तथा च तन्मते निराधारस्याभाघादेव न तस्यानित्यत्वेन सह विरोधः, नहि वन्ध्यापुत्रादेः केनापि सह विरोध इति भावः । 'अवश्यंतया' इत्यस्य 'अभ्युपेया' इत्यनेन सम्बन्धः । किञ्चित्कालस्थायिपदार्थवादिनमधिकृत्याह - येषामपीति । इतरत्र अनित्यत्वे । ननु यावदसौ घटो न नश्यति तावन्न नित्यो नाप्यनित्यः किन्तु तदन्यप्रकार एवैत्यत आह- अवश्यमेवेति । परस्परविरोधे हि न प्रकारान्तरस्थितिरिति नित्यत्वाभावेऽनित्यत्वं तदभावे नित्यत्वं न तु प्रकारान्तरं सम्भवतीति । शशशृङ्गादिर्न नित्यो नाप्यनित्यः किन्तु तुच्छ रूपप्रकारान्तरापन्न एवेत्यत आह- सतेति, सतः खलु भावस्यायं नियमः । एकान्तवादिभिर्नित्यत्वानित्यत्वयोरसहावस्थानमभ्युपगम्यते तान् प्रत्युक्तदोषासञ्जनं न तु स्याद्वादीन् प्रति, ते चैकदैवापेक्षाभेदेन नित्यत्वानित्यत्वयोरेकत्र वृत्तिमभ्युपगच्छन्तीत्याह- अनेकान्तवादिनामिति । फलवृन्तसंयोगविभागवदाम्रफलादिषु श्यामतापीतता - वदिति दृष्टान्तयोरप्येकस्य विरोधिनोऽपायेऽन्यस्योत्पत्तिर्न तु प्रकृते तथेत्याशयेनाह - एवमेवेति । ये च विरोधस्य लक्ष्यतयोपदर्शिताः, तत्र विरोधलक्षणे ये च प्रकारा दर्शितास्ते सर्वे एकान्तवाद एवं सङ्गता न तु स्याद्वादे तत्र सर्वेषामप्युष्णत्व -