SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ कविता ] नित्यत्वेन सहोत्पादव्ययविरोधपरिहारे बध्यघातकलक्षणविरोधनिरासः । [५१] " एतद्विपक्षेण चानित्यं समस्तमेव वस्तूच्यते निर्विभागत्वात् एवं हि तत् प्रज्ञाप्यते, केवलं श्रोतृबुद्धिव्युत्पत्तये स्थित्यंशोऽयमिमावुत्पादव्ययांशाविति बुद्ध्या विभज्यते, न तु परमार्थतोऽस्ति विभाग इत्येव - मैकाधिकरण्यम् । यथाऽऽह — "अभिन्नांशं मतं वस्तु तथोभयनयात्मकम् । प्रतिपत्तेरुपायेन, नयभेदेन कथ्यते ॥ १ ॥ " । यत् तूक्तं नित्यता ह्युत्पादव्ययौ विरुणद्ध्युत्पादव्ययौ च नित्यतां विरुन्धाते, तत् प्रपञ्चयापो- कः पुनर्विरोधशब्दार्थः ? । किं ययोरेकत्रावस्थानं न दृश्यते तौ विरुद्धावथ यावेकत्र कालान्तरं स्थितौ पश्चादन्यतरविनाश उभयविनाशो वा तौ विरुद्धाविति ?, किञ्चातः, यदि प्राच्यः पक्षः - कदाचिदपि यावेकत्र न दृष्टौ, एवं सति वध्यघातकभावलक्षणस्तावद हिनकुलयोर म्युदकयोर्वा न विरोधः, यतः संयोगे सत्येककालयोरहि नकुलयोरभिजलयोर्वा स्थितयोर्विरोधः, संयोगस्यानेकाश्रयत्वात् द्वित्वादिवत्, न चासंयुक्तो नकुलः सर्पविनाशे प्रभुः, यदि स्यात् ततः समस्तत्रैलोक्योदर वर्तिसर्पाभावप्रसङ्गः, अग्निजलयोरप्येवमेव भावना; वाडवाग्नेर्वारिधिवारिणश्चैकत्रावस्थानं दृष्टमिति चेत्, हन्त हतस्तर्हि विरोधः; प्रकृतमुच्यते - संयोगे पुनः क्षणमात्रावस्थायिनोरुत्तरकालमेकस्य बलवत्त्वाद् घातकत्वे प्राप्ताव नित्यत्वमपि प्रतीयत एवेत्याह- एतद्विपक्षेणेति, नित्यविवक्षाप्राप्त नित्यविपक्षानित्यानर्पणेनेत्यर्थः । निर्विभागत्वादिति, अखण्डत्वादित्यर्थः । एवं हीति, उत्पादव्ययस्थित्यविभक्तभूततया समस्तस्य नित्यत्वानित्यत्वप्रतिपादने हीत्यर्थः । तत्प्रज्ञाप्यत इति, अखण्डं वस्तु प्रज्ञापनागोचरः प्रतिपादितो भवतीति यावत् । नन्वेवं वस्त्वेवाखण्डं स्थितित्वोत्पादव्ययत्वकलितमिति वस्त्वेव तथाभिधातव्यं किमिति मृदंशो ध्रौव्यं पृथुवुनोदराद्याकारपरिणमनांश उत्पादो मृत्पिण्डरूपतान्यथाभावांशो विनाश इत्येवं विभजनमित्यत आह- केवलमिति । तथा च यथा नरसिंहस्वरूपेऽखण्डेऽपि बुद्ध्या परिकल्पितो नरसिंहरूपभागभेदो नरसिंहै कव्यक्त्यखण्डतां पारमार्थिकीं न व्यवच्छिनत्ति तथा प्रकृते बौद्धपरिकल्पितोत्पादादि • विभागो न पारमार्थिकीं वस्त्वखण्डतां खण्डितुं प्रगल्भते, यत इयं प्रमाणबलप्रभाविता, विभागस्तु नयबलौ पढौकित इति । इत्येवम्, उक्तप्रकारेण । एकाधिकरण्यम्, नित्यत्वानित्यत्वयोरखण्डैकवस्तुवृत्तित्वेन सामानाधिकरण्यम्, एतावाँश्च प्रवचनबाह्योपकल्पितप्रकारादस्य विशेष इति रहस्यम् । उक्तार्थे प्राचां सम्मतिमाह-यथाहेति । अभिन्नांशम्, उत्पादव्ययस्थित्यपृथग्भूतमखण्डम् । मतं स्याद्वादिन इष्टम् । तथा अखण्डखरूपेण । उभयनयात्मकमिति, विषयविषयिणोरभेदोपचारेणेयमुक्तिः तथा च द्रव्यनयविषयधौव्य पर्यायनयविषयोत्पादव्ययात्मकमित्यर्थः, अन्योन्यसापेक्षनयद्वयस्य प्रमारूपतया प्रमाणविषयीभूतद्रव्यपर्यायोभयात्मकमिति यावत्, द्रव्यनयविषयनित्याभेदादीनां पर्यायनयविषयानित्यभेदादीनामयनयोक्त्याऽखण्डवस्तुन्यवगमनं कार्यम् । एकस्मिन् वस्तुनि परस्परविरुद्धतया परपरिकल्पितानां धर्माणां समावेशः कथं स्यादित्याशङ्काशङ्कद्धरणाय च नयभेदोपनिपातिभागपरिकल्पनाप्रज्ञापनायामित्याह - प्रतिपत्तेरिति, नित्यत्वादितत्तद्धर्मप्रतिपत्तेरित्यर्थः । उपायेन तत्तदपेक्षाभेदरूपाविरोध निमित्तोपदर्शकतयो पायभूतेन । उत्पादव्यययोर्धौव्येण सह विरोधान्नैकत्रावस्थानमिति तेषामैकाधिकरण्यप्रतिपत्तिफलकस्य स्याद्वादस्याप्रामाण्यमेव तज्जनितप्रतिपत्तैर्वैकत्र विरुद्धधर्मावगाहित्वेन संशयत्वमित्येकान्तवाद्याकूतं विरोधस्वरूपापरिज्ञानविजृम्भितमिति प्रपश्चत उपदर्शयति-यत्तूक्तमित्यादिना । किञ्चात इति, एवं विरोधस्वरूपविकल्पनतः किमभिमतं भवत इति परस्य पृच्छा । विकल्पोद्भावनप्रयोजनमुपदर्शयति-यदीति । प्राच्य इति, ययोरेकत्रावस्थानं न दृश्यते तौ विरुद्धाविति कल्प इत्यर्थः । अत्र करुपे वध्यघातकभावलक्षणविरोधो नात्मानमासादयतीत्याह- कदाचिदपीति, अहिनकुलयोरग्न्युदकयोर्वा यो वध्यधातकभावलक्षणविरोधः स उत्पादव्यययोध्रौव्येण सह न सम्भवतीत्यर्थः । अत्र हेतुमाह-यत इति, यदि स्यात् यद्यसंयुक्त एंव नकुलः सर्पविनाशे समर्थो भवेत् । एवमेवेति, यदि वह्निनाऽसंयुक्तमेव जलं वह्नयुपशमने समर्थं स्यात्तदा त्रिलोकीकवलितवह्नयभावप्रसङ्ग इत्येवं प्रकारेणेत्यर्थः । एकत्र समुद्रैकदेशे अवस्थानं नाश्यनाशक भावाभावेनावस्थितिः, संयोगे षध्यघातकभावमुपपादयति-संयोगे पुनरित्यादिना ।
SR No.022537
Book TitleTattvartha Trisutri Prakashika
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year1945
Total Pages150
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy