SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ [५] वस्त्वेकदेशस्यासत्त्वाभावः, नित्यत्वानियत्वयोरैकाधिकरण्यम् । [तत्त्वार्थत्रिसूत्री भेदाभेदलक्षणास्तेषु सत्त्वप्रज्ञापना न विरुध्यते, न ह्येकदेशोऽसन् वस्तुनो भवति पटादेस्तन्त्वादिः। अथ नित्यं चेति किमर्थमुच्यते, सद्हणादेव तद्गृहीतेः पुनर्न किश्चित् फलमस्ति, सद्हणेनैव ध्रौव्यांशस्य लक्षितत्वात् , सच्च त्रिविधमपीत्येतावदेवाभिधेयमिति, अत्रोच्यते-सत्यमेतदेवम् , तथाऽप्यर्थविशेषप्रतिपिपादयिषया पुनर्नित्यग्रहणम् , स विशेषो भाव्यते-यदि ध्रौव्यांश एव नित्यः स्यात् न समस्तं वस्तु, तत उत्पादव्ययावप्यनित्यौ न वस्तु सकलम् , एवं चान्याधारं नित्यत्वमन्याधारं चानित्यत्वं स्याद्, अनिष्टं चैतद् व्यधिकरणत्वात् , यथा प्रवचनबाह्यानां नित्यं व्योमाऽनित्यो घट इति, अत्राप्येवं स्यादन्यनित्यमन्यच्चानित्यम् , इध्यते तु यदेव नित्यं तदेवानित्यमिति, तत्राऽमुना पुनर्नित्यग्रहणेन निरंशं वस्त्वर्यत अदलक्षणा इति, आश्रयभिन्नाभिन्नस्वभावाः परस्परभिन्नाभिन्नस्वभावाश्चैत्यर्थः, एवं सत्याश्रयधर्मान्योन्यधर्मयोगित्वं तेषामविरुद्धमिति भावः । यदर्थमेतावान् प्रयासस्तमुद्घाटयति-तेष्विति, उत्पादादिपु त्रिष्वित्यर्थः । सत्त्वप्रज्ञापना उत्पादादित्रयात्मकत्वलक्षणसत्त्वकथनम् । न विरुद्ध्यत इत्युक्तम् , तत्र हेतु:-न ह्येकदेश इति, हि यतः, वस्तुन उत्पादादिनयसमुदायात्मनः, एकदेशः प्रत्येकमुत्पादादिः, असन्न भवति, तथा सति प्रत्येकस्यासत्त्वे तत्समुदायात्मनो वस्तुनोऽपि असत्त्वं स्यात्तस्य कथञ्चित्तदभिन्नत्वात् । एतदेव दृष्टान्तेन भावयति-पटादेस्तन्त्वादिरिति, तन्त्वाद्यवयवसमुदायात्मनः पटादेस्सद्रूपस्यैकदेशस्तन्त्वादिर्यथा नासद्रूपस्तथेत्यर्थः । उत्पादादीनां त्रयाणां सत्त्ववन्नित्यत्वमपि पार्थक्येन भाष्यकारेणोक्त तत्पुनरुक्तमेव सत्त्वविधाने तत्स्वरूपप्रविष्टतया नित्यत्वस्यापि प्राप्तेरना पुनरुक्तिरिति परश्शङ्कते-अथेति । तद्वहीतेः. नित्यग्रहणात् । पुनरियनन्तरं तद्वहीतेरित्यावर्त्तनीयम् , तथा च पृथक्तद्गृहीतेन किञ्चित्फलमस्तीत्यन्वयः । ननु सघटकतयोत्पादादीनामेव प्रवेशो न नित्यस्येति तद्गृहणे कथं नित्याप्तिरिति कस्यचिद्व्यामोहस्स्यात्तत्राह-सब्रहणेनैव ध्रौव्यांशस्य लब्धत्वादिति, तथा च ध्रौव्यमेव नित्यत्वमिति सदित्यनेन ध्रौव्यप्रतीतौ तद्रपं नित्यत्वमपि प्रतीतमेवेति भावः । नित्यं चेत्यस्यानुक्तौ कीदृशेन भाष्येण भवितव्यमित्यपेक्षायामाह-सच्चेत्यादि । सद्हणादुत्पादादीनां नित्यत्वं यत्प्राप्तं तद्भौव्यांशाभेदेनैव, अर्थाद्रौव्याभिन्नं यद्वस्तु तदभिन्नत्वादुत्पादव्ययावपि ध्रौव्यरूपाविति नित्यौ न तु ध्रौव्यांशस्येव मुख्यवृत्त्या तयोरपि नित्यत्वं त्रिकालयोगात्साक्षादनुगामितया, तत्प्रतिपत्तये पृथकित्यग्रहणमित्याशयेनोत्तरयति-अत्रोच्यत इति । ध्रौव्यांश एवेति । यद्यपि सञ्च त्रिविधमपीत्युक्त्योत्पादव्यययोरपि सत्त्वं कण्ठत एवोक्तमित्युत्पादस्याप्युत्पादव्ययध्रौव्यरूपता, एवं ध्ययध्रौव्ययोरपि त्रिरूपता, तामन्तरेण सत्त्वाघटनात्तथा च ध्रौव्यांश एवेत्युक्तिरसङ्गतेव प्रतिभाति, तथापि तदभिन्नाभिन्नस्य तदभिन्नत्वमिति न्यायेन ध्रौव्यरूपतादिसम्पत्त्याऽप्युत्पादादीनां सत्त्वोपपत्तौ नोत्पादत्वादिनाऽसाधारणरूपेणाऽपि सत्त्वाभ्युपगमेन कृत्यमिति ध्रौव्यांशस्यैव वासाधारणरूपेण नित्यत्वमायातीत्याशयः। न समस्तं नोत्पादव्ययसमन्वितध्रौव्यस्वरूपम् । खासाधारणरूपेण ध्रौव्यस्यापि नानित्यत्वं किन्त्वनित्योत्पादव्ययाभिन्नवस्त्वभिन्नत्वादुत्पादादिरूपतयैवानित्यत्वमिति सकलं वस्तु यथा न नित्यं तथाऽनित्यमपि नेत्येतत्स्यादित्याह-तत इति, समस्तवस्तुनो नित्यत्वाभावादित्यर्थः । सकलं ध्रौव्यकरम्बितोत्पादव्ययस्वरूपम् । ननु भवत्वेकांशापेक्षया नित्यत्वमेकांशापेक्षया चानित्यत्वमखण्डस्य वस्तुनो नित्यत्वानित्यत्वाभावेऽपि स्याद्वादिनः किं छिन्नमित्यत आह-एवं चेति, नित्यत्वानित्यत्वयोर्भिन्नांशगततयाऽवस्थित्यभ्युपगमे चेत्यर्थः। भवत्वेवमपि ततः किमत आह-अनिष्टश्चेति, स्याद्वादिनामिति शेषः। एकाधिकरणगततयैव नित्यत्वानित्यत्वाभ्युपगमः स्याद्वादिनाम् , स च ध्रौव्यांशे नित्यत्वस्य उत्पादव्यययोरनित्यत्वस्य चाभ्युपगतो नात्मानमासादयतीत्याशयेनाह-व्यधिकरणत्वादिति । यच्चैकान्तवादिनामिष्टं तदेव स्याद्वादिनामिष्टं न भवति, प्रकृते तु भिन्नाधिकरणतया नित्यत्वानित्यत्वयोरुपगमे तन्नियमो व्याहन्यत इत्यतस्तस्यानिष्टत्वमित्याह-यथेति । प्रवचनबाह्यानां जैनराद्धान्तानभ्युपगन्तृतया जैनप्रवचनबहिर्भूतानां नैयायिकादीनाम् । अत्रापि जैनराद्धान्तेऽपि। एवं स्यादित्यत्र स्यादित्युक्त्याऽनिष्टापादनताऽस्य ख्याप्यते, तत्तदा स्याद्यद्येतदन्यप्रकारस्येष्टत्वं स्यादतस्तत्ख्यापनायाह-इष्यते विति, स्याद्वादिभिरिति शेषः। अथवा तत्रेति पूर्वान्वयि, तस्य प्रवचन इत्यर्थः, प्रवचनञ्च जिनोक्तागम एव, तथा चोक्तशेषस्य न प्रयोजनम् । अमना उक्तभाष्यगतेन । निरंशं वस्त्वय॑ते, उत्पादव्ययस्थित्यविष्वग्भूतमखण्डं वस्तु नित्यतया विवक्ष्यते । अनन्तधर्मात्मके वस्तुनि प्रतिनियतस्यैकस्य धर्मस्य विवक्षणे तद्विपक्षभूतस्यापरधर्मस्याप्यविवक्षितस्य तत्रैव वस्तुनि प्रतीतिरुपजायत एव, अन्यथा विपक्षभूतधर्माभावे तदेकखभावस्य वस्तुनस्तदविवक्षयाऽपि तत्त्वप्राप्तौ विवक्षाकृत्यं न किञ्चित्स्यादतोऽखण्डस्य वस्तुनो नित्यत्वस्य विवक्षया
SR No.022537
Book TitleTattvartha Trisutri Prakashika
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year1945
Total Pages150
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy