________________
भाष्यटीकाविवृतियुता] उत्पादादीनां सत्त्वासत्त्वे, संसर्गलक्षणं वस्तु एक नित्यमनित्यञ्च । [४९] मेव वस्तु, स्वरूपार्पणयोत्पादः सन् स्थितिविनाशाभावविशिष्टग्रहणादसन् , एवं स्थितिविनाशावपि वाच्यौ । एवं हि त्रिविधग्रहणं समर्थितं भवति ॥ तथा स्वात्मापरित्यागार्पणान्नित्यम् , उत्पादव्ययार्पणात् तदेवानित्यम् , स्थित्यादयश्च सङ्ग्रहादेकीभावाद् वस्तु, न स्थितिरहितावुत्पादविनाशौ, नाप्युत्पादध्ययशून्या स्थितिः, अतः संसर्गलक्षणं वस्त्वेकमेव नित्यं चानित्यं च ॥ ननु चोत्पादव्ययध्रौव्ययुक्तं सदिति त्रिस्वभावमेव सत्त्वेनावधृतम् , भाष्यकारस्तु सञ्च त्रिविधमपीयेव विवृण्वन्नेकैकस्य सत्त्वं प्रतिपादयति, नैष दोषः, अविभक्तेऽपि वस्तुनि स्वभावत्रयाख्यानमन्योन्यापरित्यागद्वारेणैव क्रियते, अन्यथा कथं कथ्येत प्रज्ञापनागोचरः ? । स्थित्यादयो हि परस्परावियोगिनः सर्वदा सदसदात्मका
घटत्वस्यार्पणमन्येषां च धर्माणां तत्र सतामप्यनर्पणम् , एवं पटादिकार्यावरणाद्यभावप्रतिपत्तिप्रयोजनं यदाभिप्रेतं तदाऽत्र घटोऽस्तीत्यत्र घटपदेन पटत्वावच्छिन्नासत्त्वरूपवस्त्वन्तराभावविशिष्टत्वेन घटबोधोऽभिप्रेत इति पटत्वेनासत्त्वस्यैव वस्त्वन्तराभाववैशिष्ट्यस्यार्पणमन्येषां च घटत्वादीनामनर्पणम्, प्रमाणेनावगाहनन्त्वशेषधर्मकलापोपेतस्य घटाख्यवस्तुन इति । उपसंहरतितस्मादिति, प्रयोजनानुसारिविवक्षाविवक्षानिबन्धनार्पणानर्पणगोचरधर्मसमष्टिसमन्वयादित्यर्थः । सञ्चेति, एकमेव वस्तु सच्चासच्चाभ्युपगन्तव्यमित्यर्थः । वस्तुखरूपान्तःसन्निविष्टानामुत्पादव्ययस्थितीनामपि प्रत्येकं वस्तुत्वमेवोत्पादादित्रययोगस्य वस्तुत्वोपपत्तये प्रत्येकमपि तेष्ववश्यमभ्युपगमनीयत्वाद्, एवञ्च तेष्वपि सत्त्वासत्त्वे उपपादनीये तत्कथमित्यपेक्षायामाह-स्वरूपार्पणयेति, उत्पादत्वविवक्षयेत्यर्थः । यदोत्पादे उत्पादत्वं पूर्वकालासत्त्वे सति सत्त्वप्रतिपत्तिप्रयोजनवशाद्विवक्ष्यते तदा तदेवार्पितम् , तदा तद्रूपेणोत्पादः सन् , स्थितिविनाशत्वादिना तदसत्त्वलक्षणवस्त्वन्तराभाववैशिष्ट्यच्चानर्पितम् , ग्रहणन्तु तस्याप्यन्यथोत्पादज्ञानस्य प्रामाण्यमेव न स्यादतः स्थितिविनाशाभावविशिष्टतया ग्रहणविषयत्वादसन् उत्पाद इति । उक्तदिशा स्थितिविनाशयोरपि सत्त्वासत्त्वे वाच्ये इस्यतिदिशति-एवमिति । उत्पादादीनां प्रत्येकं सत्त्वासत्त्वयोरुपपादनस्य प्रयोजनमाह-एवं हीति । त्रिविधग्रहणमिति, सच्च त्रिविधमपीति भाष्ये त्रिविधग्रहणमित्यर्थः । एकस्य नित्यत्वानित्यत्वधर्मयोगं समर्थयति-तथा स्वात्मापरित्यागेति। स्थित्यादीनां परस्पराविष्वग्भावाद्वस्तुत्वमुपपादयति-स्थित्यादयश्चेति । सङ्ग्रहात् संग्रहनयार्पणात् । एकीभावादन्योन्याविष्वग्भावात् । कथं तेषामन्योन्याविष्वग्भाव इत्यपेक्षायामाह-न स्थितिरहितेति । संसर्गलक्षणं परस्पराविष्वग्भावापन्नोत्पादव्ययस्थित्यात्मकम् । अत्र स्थित्यंशाजहद्वृत्तित्वान्नित्यत्वमुत्पादव्ययभावापन्नत्वादनित्यत्वमित्याह-नित्यं चानित्यं चेति । भाष्ये सूत्रविरोधमाशङ्कते-नन्वित्यादिना। उक्ताशङ्काम्प्रतिक्षिपति-नैव दोष इति । अविभक्तपीति । यथा
“भागे सिंहो नरो भागे योऽशो भागद्वयात्मकः । तमभाग विभागेन नरसिंह प्रचक्षते ॥१॥" इति न्यायेनोत्पादादित्रयात्मकस्य वस्तुनोऽखण्डात्मकतैव न तु भागत्रयरूपतेत्यविभक्तेऽखण्डेऽपीत्यर्थः । स्वभावत्रयाख्यानमुत्पादादित्रयस्वरूपप्रतिपादनम् । अन्योन्यापरित्यागद्वारेणेति, उत्पादव्ययावियुतस्थितिरूपेण स्थितेः स्थितिव्ययावियुतोत्पादरूपेणोत्पादस्योत्पादस्थित्यवियुतव्ययरूपेण व्ययस्य च प्रतिपादनं क्रियतेऽतो न वस्त्वन्तरत्वप्रसङ्ग इति भावः । एकस्यवस्तुन उत्पादादित्रितयखभावत्वं शब्देन प्रतिपादयितुमभिलषितं तदन्यथा सम्भवत्येवेत्याह-अन्यथेति, उक्तप्रकाराश्रयणमन्तरेणेत्यर्थः । कथ्येत प्रतिपाद्येत। प्रज्ञापनागोचरः प्रतिपादयितुमभीष्टः । परस्परावियोगिनः स्थितिरुत्पादव्ययावियुता उत्पादः स्थितिव्ययावियुतः व्यय उत्पादस्थित्यवियुत इत्येवं परस्परावियोगिनः। सर्वदा सर्वात्मकाः, त्रैकाल्येऽपि उत्पादस्योत्पादव्ययध्रौव्यात्मकत्वं व्ययस्योत्पादव्ययध्रौव्यात्मकत्वं ध्रौव्यस्य चोत्पादव्ययध्रौव्यात्मकत्वम् , उत्पत्तेस्त्रैकाल्यं च उत्पन्नमुत्पद्यते उत्पत्स्यते च, स्थितेस्त्रैकाल्यं च स्थितं तिष्ठति स्थास्यति च, व्ययस्य त्रैकाल्यं च व्यतीतं व्यपगच्छति व्यपगमिष्यतीति । अत्रोत्पन्नोत्पद्यमानोत्पत्स्यमानानां वर्तमानोत्पादस्थितिव्ययात्मकत्वे नव भेदाः, एवमतीतोत्पादस्थितिव्ययात्मकत्वे नव भेदाः, एवं भविष्यदुत्पादस्थितिव्ययात्मकत्वे नव भेदास्ते च संगृहीता उत्पादस्य सप्तविंशतिर्भेदाः, एवं स्थितस्थीयमानस्थास्यमानानां वर्तमानातीतभविष्यदुत्पादादित्रयाभेदात्सप्तविंशतिभेदाः स्थितेः, एवं व्यतीतव्यपगच्छध्यपगमिष्यतां वर्तमानातीतभविष्यदुत्पादादित्रयाभेदाद्ययस्य सप्तविंशतिर्भेदाः, ते चैकत्र मिलिता एकाशीतिरितिबोध्यम् । ननु वस्तुन उत्पत्त्याद्याश्रयस्य उत्पादादित्रिकालघटितमूर्तियोगेऽपि कथमुत्पादादीनां त्रिकालभेदभिन्नमूर्तिकोत्पादादित्रिलक्षणयोगित्वमित्यत आह-भेदा
तत्रि०७