SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ [४८] उत्पादव्ययलक्षणाभिधायकसूत्रस्य नापेक्षेतिज्ञापकसूत्रभाष्यव्याख्या । [तत्त्वार्थत्रिसूत्री द्वितीयसूत्रोक्तमुभयमप्येतदर्पणानर्पणाभ्यां सिद्धमव्याहतम् । अनेकधर्मा धर्मी, तत्र प्रयोजनवशात् कदाचित् कश्चित् धर्मो वचनेनार्यते-विवक्ष्यते, सन्नपि च कश्चिन्न विवक्ष्यते प्रयोजनाभावात् , न पुनः स धर्मी विवक्षितधर्ममात्र एव; इत्यतः सत्पर्यायविवक्षायां सदुत्पादादि स्थित्यंशविवक्षायां नित्यम् , असदप्युत्पादाद्यनित्यं च, सत्त्वासत्त्वविशिष्टग्रहणात् सर्वदा वस्तुनः, येन प्रमाणेन यद् वस्तु सद्धिशिष्टं गृह्यते, तेनैव प्रमाणेन तदेव तदैवाऽसद्विशिष्टमपि गृह्यते, अन्यथा त्वविविक्तग्रहणमेव स्यात् , विविक्ताश्च चक्षुरादिबुद्धयोऽनुभूयन्ते; यथैव हि स्वास्तित्वात् सद्विशेषणोल्लेखेन सद्बुद्धिरभिधावति, एवमसद्विशेषणावष्टम्भजनिताऽपीति; न चोपहतेन्द्रियस्याव्यापृतेन्द्रियस्य वा वस्त्वन्तराभावविशिष्टं ग्रहणमुपजायते तत इन्द्रियव्यापारे सति भावादसद्विशिष्टस्य ग्रहणस्य नापह्नवो युज्यते, यथा प्रकाशकाः कृशानुभास्करादयः प्राकाश्यं वस्त्वन्तराभावविशिष्टमेव प्रकाशयन्ति; एवं प्रमाणमपि वस्तुपरिच्छेदहेतुत्वेन व्याप्रियमाणं वस्त्वन्तराभावविशिष्टमेव प्रकाशयति । प्रमाणं च यथावस्थितवस्तुस्वभावग्राहि, ततः प्रमाणपरिच्छिन्नेनार्थेन यथाप्रयोजनमर्पणादिव्यवहारः । तस्मात् सञ्चासञ्चैकधर्मात्मकत्वेऽपि एकैकधर्मवत्तया तव्यवहृतौ हेतुमाह-तत्रेति । यो धर्मो न विवक्षितस्स धर्मस्तत्र नास्तीति मैवं मंस्था इत्याह-न पुनरिति । सदुत्पादादीत्यत्र छेदः, नित्यमित्यत्रापि । सत्पर्यायविवक्षायामुत्पादादेस्सत्त्वेऽप्यसत्त्वमस्त्येवेत्याहअसदप्युत्पादादीति । स्थित्यंशविवक्षायां नित्यमप्युत्पादाद्यनित्यमपीत्याह-अनित्यं चेति । अत्र हेतुः-सत्त्वासस्नेति. वस्तुनः सर्वदा सत्त्वासत्त्वविशिष्टग्रहणादित्यन्वयः, यदा सत्त्वप्रकारेण वस्तु गृह्यते तदाऽप्यसत्त्वविशिष्टन्तद्गृह्यत एव, वस्तुनोऽनन्तधर्मात्मकत्वेनैकधर्मविशिष्टतयैव ग्रहणे तद्रहणस्य वस्तुविषयकत्वाभावेन प्रमाणत्वमेव न स्यादित्यभिसन्धिः । यदि च सद्विशिष्टतथैव प्रमाणेन ग्रहणं तदा खद्रव्यादिनेव परद्रव्यादिनाऽपि सद्विशिष्टतयैव ग्रहणमिति घटस्य घटत्वादिवत्पटवादिकमप्यापन्न मिति सर्व वस्तु सर्वसङ्कीर्णमेवावभासेत न तु विविक्तमिति महदसमञ्जसमापद्यतेत्याह-येन प्रमाणेनेति, अभिमतेन प्रत्यक्षादिप्रमाणेनेत्यर्थः । यद्वस्तु विवक्षितघटादिकम् । सद्विशिष्टं गृह्यते स्वद्रव्यादिना सद्विशिष्टतया गृह्यते । तेनैव प्रमाणेन सद्विशिष्टतया ग्राहकेण प्रत्यक्षादिप्रमाणेन । तदेव विवक्षितघटादिकमेव । तदैव सद्विशिष्टतया ग्रहणकाल एव । असद्विशिष्टमपि, परद्रव्यादिनाऽसत्त्वविशिष्टमपि । अन्यथा एवमनङ्गीकारे। अविविक्तग्रहणं, परस्परसङ्कीर्णग्रहणम् । एवमभ्युपगमे अनुभवबाधमाह-विविक्ताश्चेति । विविक्ततया चक्षुरादिबुद्धीनामनुभवनमेव द्रढयति-यथैव हीति । स्वास्तित्वात् स्वद्रव्यादिनाऽस्तित्वात् । सद्विशेषणोल्लेखेन, स्वद्रव्यादिनाऽस्त्येव घट इत्येवमाकारेण । सद्ध. द्धिरभिधावति, सन् घट इति बुद्धिः प्रवर्त्तते । एवं तथैव परद्रव्यादिना नास्तित्वात् परद्रव्यादिना नास्त्येव घट इत्युल्लेखेन असन् घट इति बुद्धिरपि प्रवर्तत इत्यर्थः । ननु भवदुपकल्पितस्याद्वादभावनाभावितान्तःकरणप्रभावितमेवैतद्हणन्न तु चक्षुरादीन्द्रियप्रमाणावष्टम्भजनितमतो न लौकिकपरीक्षकाणामादराधानहेतुरयमनुभव इत्यत आह-न चोपहतेन्द्रियस्येति. इन्द्रियान्वयव्यतिरेकानुविधानाद्वस्त्वन्तराभावपर्यवसितपररूपाद्यवच्छिन्नासत्त्वविशिष्टग्रहणमिन्द्रियजन्यमप्युपेयमेवेति, स्याद्वादसंस्कारस्तु तत्र व्यञ्जको भवन निरोद्धं पार्यते, नैतावता तगृहणन्न पारमार्थिकम् , स्याद्वादसंस्कारस्य निमित्तभेदस्य सतोऽभिव्यञ्जन एव व्यापारादित्याशयः । प्रकाशकमात्रस्यैवायं खभावो यदेकं वस्तु प्रकाशयत् वस्त्वन्तराभावविशिष्टमेव प्रकाशयतीति नादृष्टचरकल्पनयाऽप्ययमनुभवोऽभिभूयत इत्याह-यथेति । दीपो हि घटत्वेन प्रकाशनायैवाभिव्यञ्जकतयोपनीतस्तथापि घटं घटत्वेन प्रकाशयति पटत्वाभावविशिष्टतयापि प्रकाशयति, अत्र घटत्वस्य प्रकाश्यतया विवक्षणमर्पणन्तेन सिद्धिः, पटत्वाद्यभावविशिष्टत्वन्तु न तथा विवक्षितमतस्तदनर्पितन्तथापि स्वभावादापतितमेवेत्यनर्पितेन सिद्धिः, एवं ज्ञानमात्रप्रकाश्येऽपि यस्य सप्रयोजनतया विवक्षणं तदेव तस्यार्पणं तेन तत्सिद्धिः, यस्य च न तथा विवक्षणं तदेव तस्यानर्पणमथापि खभावादेव तस्य प्रकाशनमित्यनर्पितसिद्धिरिति विवक्षाविवक्षाभ्यामर्पितानर्पितसिद्धिराकलनीया सर्वत्रेत्याशयेन दान्तिके तत्संघटनामावेदयतिएवमिति, यथावस्थितवस्तुखभावग्राहीत्युक्त्याऽविवक्षितमपि वस्त्वन्तराभावविशिष्टत्वन्तेन गृहीतव्यमेव, अन्यथा वस्त्ववभासकत्वाभावे प्रमाणत्वमेव तस्य न स्यादिति । यथाप्रयोजनमिति, प्रयोजनानुसारेणेत्यर्थः । अर्पणादीति, आदिपदादनर्पणपरिप्रहः । घटस्य जलाहरणं कार्य यदाभिलषितं तदाच्छिद्रत्वमुपकत्वादिगुणविशिष्टघटत्वेनैव तद्बोधोऽभिप्रेत इनि
SR No.022537
Book TitleTattvartha Trisutri Prakashika
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year1945
Total Pages150
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy