________________
भाष्यटीकाविवृतियुता] अपराचार्याभिप्रायेण सूत्रावतरणिका, व्याख्यानाषयान। [४०] [सूत्रम्-] अर्पितानर्पितसिद्धेः॥५-३१॥
अपरेऽन्यथाकारं सूत्रसम्बन्धमभिदधते-ध्रौव्यस्य नित्यपर्यायत्वेन लक्षणमुक्तमुत्पादव्यययोरुच्यताम् , नोच्यते, तयोर्लोकप्रतीतत्वात् , सामर्थ्यगतेश्वासदनित्यत्वादीनाम् , अतस्तल्लक्षणं न साक्षाद् वाच्यम् , किं कारणम् ? [भाष्यम्-] अर्पितानर्पितसिद्धेः॥
अर्पितं निदर्शितमुपात्तं, तद्विपरीतमनर्पितम् , सिद्धिः-ज्ञानम् , अर्पितेनानर्पितपरिज्ञानमर्पितानर्पितसिद्धिस्तस्याः-ततो हेतोरर्पितानर्पितसिद्धेः, विशेष्यं हि वस्तु नीलोत्पलादिवदुपादीयमानं नियमकारिविशेषणधर्मप्रत्यनीकपर्यायाश्रयतामनुभवत्येवेति न्यायात्, एवमिहापि ध्रौव्यलक्षणेऽर्पितेऽनर्पितावपि साक्षात् तद्विपरीतावुत्पादव्ययौ सङ्गस्येते, पूर्वमुत्तरं च पर्यायं ध्रौव्यमासादयति, न तूत्पादलक्षणः पर्यायो विनाशलक्षणो वा पूर्वोत्तरपर्यायानुभावी, तस्माद् विलक्षणावुत्पादव्ययाविति सुज्ञानम् । एवं सम्बन्धद्वयमभिधाय सूत्रार्थोऽभिधीयते, पूर्वक सम्बन्धमाश्रित्येदं भाष्यम्[भाष्यम्-] सच्च त्रिविधमपि नित्यं चोभे अपि अर्पितानर्पितसिद्धेः॥
चशब्दः समुच्चये, अपि सम्भावने । सत् त्रिविधमुत्पादव्ययस्थितिलक्षणम् , नित्यं च तद्भावाव्ययत्वलक्षणनित्यत्वेऽपि, एवमसत्त्वे पर्यायास्तिकनयादुत्पादव्यययोः प्राधान्यं द्रव्यनयगौणभावाद् ध्रौव्यस्य तद्विषयस्य गुणभावः, एवमनित्यत्वेऽपीति सत्त्वासत्त्वयोर्नित्यत्वानित्यत्त्वाद्रेकत्र वृत्तिन विरुद्ध्यते इत्यभिसन्धानेनैव अर्पितानर्पितसिद्धेरिति सूत्रप्रवृत्तिरित्येकावतरणिका। आचार्यान्तराभिमतामन्यामवतरणिकामुपनिबध्नाति-अपरेऽन्यथाकारमिति । नित्यपर्यायत्वेनेति, एतेनानन्तरसूत्रेण नित्यस्यैव लक्षणमुक्तं न ध्रौव्यस्येति शङ्कायाव्युदासः । सल्लक्षणघटकस्य ध्रौव्यस्य लक्षणप्रतिपत्तयेऽनन्तरसूत्रमभिहितं तथा सद्घटकोत्पादव्यययोर्विविक्तलक्षणप्रतिपत्त्यर्थमपि सूत्रमभिधानीयमित्याह-उत्पादव्यययोरुच्यतामिति । उक्तप्रश्ने प्रतिविधानमाह-नोच्यत इति । तत्किमशक्यनिरूपणत्वात्तदनभिधानमेवं सति तदविज्ञाने तद्घटितसत्त्वलक्षणमप्यविज्ञातमेव स्यात्ततश्च सतोऽवधारणमप्यशक्यं जैनानामित्यतस्तल्लक्षणानभिधाने हेत्वन्तरं प्रकटयतितयोरिति, उत्पादव्यययोरित्यर्थः, दुरूहेऽतिसूक्ष्मेऽर्थे शास्त्रव्यापारस्साफल्यमञ्चति, पूर्वमसतस्सत्त्वं ह्युत्पादपूर्व सतश्चोत्तरकालमसत्त्वं विनाशस्तदुभावपि तन्त्रान्तरीयाणामपि लौकिकानां प्रतीताविति तत एव तयोरवगतिसम्भवात्तल्लक्षणप्रतिपादकसूत्रानारम्भेऽपि न न्यूनत्वमिति भावः । सत उत्पादव्ययध्रौव्यात्मकत्वे तद्विकलस्यासत्त्वं तद्भावाव्ययस्य नित्यत्वे तद्विधुरस्यानित्यत्वं प्राप्तमेवेति न तल्लक्षणप्ररूपणयापि सूत्रव्यापारसाफल्यमित्याह-सामर्थ्यगतेश्चेति । अतः, लोकप्रतीतत्वात्सामर्थ्य गतेश्च । तल्लक्षणम् , उत्पादव्ययासदनित्यत्वादिलक्षणम् । कुतो न साक्षाद्वाच्यमिति प्रश्नमुखेन सूत्रमवतारयति-किं कारणमिति । "अर्पितानर्पितसिद्धेः" इति सूत्रम्, अर्पितेन सूत्रोपात्तेन सत्त्वलक्षणेन नित्यत्वलक्षणेन च अनर्पितस्य सूत्रेण साक्षादनुपात्तस्योत्पादव्ययासदनित्यत्वादिलक्षणस्य सिद्धराज्ज्ञानाद्धेतोस्तल्लक्षणं साक्षान्न वाच्यमिति सूत्रस्य मुकुलि. तोऽर्थः । सूत्रार्थ व्याचष्टे-अर्पितमित्यादिना । तद्विपरीतम् उपात्तविरुद्धमनुपात्तमिति यावत् । सूत्रार्थ व्याख्याय प्रस्तुतसङ्गमनिकामाह-विशेष्यं हीत्यादिना । नीलोत्पलादिवदिति, अत्र उत्पलं विशेष्यं तत्रोपादीयमानं नीलं विशेषणं नियमकारि अनीलव्यवच्छेदकारि, यद्युत्पलं नीलमेव स्यान्न त्वनीलं तदा व्यावाभावान्नियमकारिता तस्य न स्यात् , एवच नीलविशेषणोपादानसामर्थ्यादुत्पलमनीलत्वाश्रयतामप्यनुभवतीति गम्यत इति । यथा योत्पले साक्षादुपात्तेन नीलविशेषेण नानुपात्तस्यानीलस्य प्रतीतिः, तथा प्रकृतेऽपीत्याह-एवमिहापीति । ध्रौव्यापेक्षयोत्पादव्यययोवैलक्षण्यम्भावयति-पूर्वमिति। अभिधीयत इति. भाष्यकारेणेति शेषः। पूर्वक सम्बन्धमिति. उत्पादव्यययोध्रौव्येण सह न वि इत्युपपादनायोक्तसूत्रारम्भ इति सम्बन्धमित्यर्थः । सञ्चेत्यादि भाष्यं विवृणोति-चशब्दः समवय इति। धर्मियोऽनन्त
mamimaramanane