________________
[४६] पर्यायनिवृत्तौ द्रव्यनिवृत्तिशङ्काया उत्पादव्यययोर्नित्यत्वविरोधाशङ्कायाश्च निरासः । [तत्त्वार्थत्रिसूत्री
भूतो द्रव्यस्येत्यतः पर्यायनिवृत्तिवद् द्रव्यनिवृत्तिप्रसङ्ग इति । अत्रोच्यते - स्यादेतदेवं, यदि घटादिनिवृत्तौ मृन्निवृत्तिर्दृश्येत, मृन्निवृत्तौ वा पुद्गलनिवृत्तिः, न च दृश्यते मृदोऽन्वयिन्याः पुद्गलजातेर्वा कस्यांचि - दवस्थायां निवृत्तिस्तदभिधानप्रत्ययव्यवहार्यत्वात्, घटादिनिवृत्तौ वा यदि न किञ्चित् पश्चादुपलभ्येत श्रधीत विद्वज्जनः पर्यायनिवृत्तौ द्रव्यांशनिवृत्तिः, न च प्रत्यक्षविरोधे तर्कः क्रमत इत्यपकर्ण्यमेतत् । एवमुपपस्यागमाभ्यामवस्थितं तद्भावाव्ययं नित्यमिति ॥ ३० ॥
एवं सूत्रद्वयेन निरूपिते समस्ते वस्तुन्यर्थाभिधानप्रत्ययरूपे स्थित्युत्पत्तिव्ययस्वभावे पुनर्विस्तरबिशेषार्थी पर अरेकाते - यद् व्येत्युत्पद्यते च तत् सन्नित्यं चेत्यतिसाहसम्, अथवा न किञ्चिदसद - नित्यं वा, सन्नित्यत्वाभ्यां निराकृतत्वात्, ततो लोकव्यवहारोच्छेदः, तदेतद् दुरुपपादत्वाद् दुःश्रद्धानत्वाश्वासङ्गतम्, नित्यता त्पादव्ययौ विरुणद्धि, उत्पादव्ययौ च नित्यतां विरुन्धाते, सोऽयं छायातपवदसहावस्थानलक्षणविरोधात्रातपक्षो न विद्वज्जनमनांसि प्रीणयतीति; अत्रोच्यते श्रद्धत्तां भवानुपपाद्यमानं यथा न कश्चिद् विरोधः समस्ति, यथा चात्रैव लोकव्यवहारसङ्गतिर्द्रव्यास्तिक पर्यायास्तिकनयसम्भवेऽन्यतरप्रधानगुणभावविवक्षाप्रापिते उभे अपि सन्नित्यत्वे तत्प्रतिपक्षभूते वाऽसदनित्यत्वे ॥
गात्, मृदादिखरूपाप्रच्युतेः । आत्मभूतः खरूपम् । द्रव्यस्य मृदादेः । पर्याय निवृत्तिवत् घटशरावोदञ्चनादिनिवृत्तिवत् । द्रव्यनिवृत्तिप्रसङ्ग इति, यस्मिन्क्षणे घटादिपर्यायनिवृत्तिस्तस्मिन्क्षणे मृदादिखरूपस्यापि निवृत्तिः स्याद्वस्तुनस्त्रयात्मकत्वेन त्रितयनिवृत्तावेव वस्तुनिवृत्तिरुचिता स्यादन्यथा घटोऽपि न निवर्त्तेत, तदाऽऽत्मभूताया मृदो ऽनिवृत्तेरित्यर्थः । कल्पना हि दृष्टानुसारिणी भवति, यथादृष्टं नातिक्रामति, दृश्यते च घटादिपर्यायस्यैव निवृत्तिर्न तु मृदादेरनुगामिन इति पर्यायनिवृत्त्यैव निवृत्तिव्यवहारो न तु मृदादिनिवृत्येति समाधत्ते - अत्रोच्यत इति । एतत् पर्यायनिवृत्तिवद्द्रव्यनिवृत्तिप्रसञ्जनम् । एवम् उक्तप्रकारेण । स्यात् तदा भवेत् । यदीत्यस्य दृश्येतेत्यनेन सम्बन्धः घटाद्यपेक्षया मृदोऽनुगामित्वं तदपेक्षया पुद्गलस्यानुगामित्वमिति पार्थक्येनोभयोपादानम् । न च दृश्यत इत्यस्य निवृत्तिरित्युत्तरेण सम्बन्धः । मृदोSन्वायिन्या इत्यस्य पुद्गलजातेरित्यस्य च निवृत्तिरित्यनेन सम्बन्धः । निषेधे हेतु :- तदभिधानप्रत्ययव्यवहार्य - त्वादिति, घटशरावोदञ्चनादिनिवृत्तावपि तदानीमबस्थिते चूर्णादौ मृत्युद्गलाद्यभिधानतदाकारप्रत्यय व्यवहार्यत्वादित्यर्थः । अस्यैवोपपादनायाह - घटादिनिवृत्ताविति । पर्यायनिवृत्तिवद्रव्यनिवृत्तिप्रसङ्गस्य तर्करूपतया कस्यचित्प्रमाणस्य तद्वाहकस्य भावे तत्र सहकारित्वं स्यात्तदभावे च दुर्बलस्य तस्य प्रबलप्रत्यक्षप्रमाणाबिरोधेन तर्काभासत्वमेवेत्याह-न चेति । उपसंहरति - एवमुपपत्त्येति ॥ ३० ॥
अर्पितानर्पित सिद्धेरिति सूत्रमवतारयितुं भूमिकामारचयति - एवं सूत्रद्वयेनेति । तत्सन्नित्यं चेत्यतिसाहसमिति । उत्पादव्ययाभ्यां ध्रौव्यलक्षणस्य नित्यत्वस्य विरोधस्तावत्स्फुट एवेति उत्पादव्यययोगिनि धौव्याभिधानस्या सम्बद्धप्रलापत्वादति साहसत्वेऽपि सत्त्वस्य न ताभ्यां सह विरोध इति तदभिधानस्य कथमति साहसत्वम् ?, यदि च सत्त्वं न किञ्चित्कालवृत्तित्वं नवा सत्त्वादिजातिरूपं वेहभिधित्सितं किन्तूत्पादव्ययध्रौव्यात्मकत्वमेव तस्य ध्रौव्यांशमुपादायोत्पादव्ययाभ्यां सह विरोध एवैति विभाव्यते तदा नित्यत्वविरोधेन गतार्थमेतदिति न पृथगुक्त्या प्रयोजनमतः प्रकारान्तरमाश्रयति - अथवेति । अत्र सर्वस्य सत्त्वेऽसत्किमपि न स्यात् सर्वस्य नित्यत्वेऽनित्यमपि किञ्चिन्न भवेत्, न च नास्त्येवासत् अनित्यं वा किश्चिदत आहतत इति । लोकेति घटो हि उत्पादात्पूर्वं विनाशाच पश्चादसन्निति व्यवहियते लौकिकपरीक्षकैरनित्यश्चेति, न च लोकमर्यादाऽतिक्रमो न्याय्य इत्यभिसन्धिः । तदेतत्, अन्तरसूत्रद्वयप्रतिपाद्यम्, असङ्गतमित्यनेन सम्बन्धः । अत्र हेतु :दुरुपपादत्वात् दुःश्रद्धानत्वाश्चेति । उक्तहेतुद्वयोपपादनायाह - नित्यतेति । अपेक्षाभेदेनोत्पादव्ययवत्यपि धौव्यस्य ध्रुवे उत्पादव्यययोस्सति असत्त्वस्यासति च सत्त्वस्य नित्येऽनित्यत्वस्यानित्ये नित्यत्वस्य च सम्भवेन न दुरुपपादत्वं नवा दुश्र द्धानत्वं ततो न लोकव्यवहारोच्छेद इत्याशयेन समाधत्ते - अत्रोच्यत इति, अत्रैव स्याद्वादावलोकितवस्तुन्येव । सत्त्वे उत्पादव्ययध्रौव्यात्मकत्वलक्षणै द्रव्यास्तिकनयाद धौन्यस्य प्राधान्यं पर्यायास्तिकनयगौणभावात्तद्विषययोरुत्पादव्यययोर्गुणभावः, एवं