________________
भाष्यटीकाविकृतियुता] अपराचार्याभिप्रायेण द्विविधनित्यतामाश्रित्य व्याख्यानन्तत्खण्डनश्च । [१५] विशेषणसामर्थ्याद् ध्रौव्यं नित्यशब्देनाभिधीयते; भाष्ये च यद्यपि भाष्यकृता पञ्चमी प्रदर्शिता विवभावशात् तथापि विवक्षितस्यार्थस्याभिन्नत्वात् तृतीयाषष्ठ्योर्न दोषः। ननु च प्रागपि नित्यावस्थितान्यरूपाणीत्यत्र (तृतीये ) सूत्रे नित्यग्रहणं ध्रौव्यार्थमेव व्याख्यायि भवता, तत् किमर्थमिदमुच्यते 'तावाव्ययं नित्यम्' इति ?, अत्रोच्यते-इह नित्यस्य लक्षणमभिधित्सितम् , लक्षितेन चेह नित्यत्वेन तत्र व्यवहारः प्रदर्शितः ॥ अपरे त्वेवं वर्णयन्ति-द्वे नित्यते, तत्रैका स्वभावाप्रच्युत्या कालत्रयाव्यभिचारिणी नित्यता, अपरा पारम्पर्यप्रवृत्तिनित्यता, तत्र च प्राच्यां नित्यतामाश्रित्य नित्यावस्थितान्यरूपाणीति पठितम् , परम्परावृत्त्यवच्छेदमधिकृत्योत्पादव्ययध्रौव्यसूत्रमध्यगायीति; एतदपि यत्किश्चित् , यतस्तद्भावाव्ययं नित्यमित्येकमेव नित्यलक्षणं लक्षणान्तरानभिधानाच्च कथं द्वे नित्यते ?, नित्यप्रहसितादिषु दृष्टेति चेत्, तदयुक्तम् , अभीक्ष्णार्थाभिधायित्वादर्थान्तरवृत्तिस्तत्र नित्यशब्दः, तत्त्वविचारप्रस्तावे च न किश्चिदुपचारेण प्रयोजनम् , अतो व्यवस्थितमेव लक्षणं तद्भावाव्ययं नित्यमिति ॥ एवमन्वय्यंशो नित्यत्वेन लक्षितो द्रव्यनयस्वभावः । पर्यायनयस्वभावौ तूत्पादविनाशावभूतभावभूताभावलक्षणावुक्तन्यायेन स्थित्यंशप्रतिबद्धौ । स्थितिरपि पर्यायप्रतिबद्धा, सर्वदा संसर्गरूपत्वाद् वस्तुनः, एवमेकाधिकरणावुत्पादविनाशौ जैन एव शासने साङ्गत्यमनुभवतोऽन्यत्र तु व्यधिकरणावेवोत्पादविनाशौ नियतौ वेति ॥ नन्वेवमपि यथा तद् द्रव्यमात्मापरित्यागात् तथोत्पादविनाशलक्षणः पर्यायोऽपि आत्मषष्ठ्योरित्युत्तरग्रन्थासङ्गतिः स्यात्, तद्भावश्चासावव्ययं चेतिस्थाने तद्भावस्याव्ययमिति पाठे भवति सर्वथा प्रन्थपरिशुद्धिः । नन्वेवं व्याख्याने तद्भावाव्ययमित्यनेन कस्याभिलपनमिति पृच्छति-किन्तदिति । उत्तरयति-प्रकृतत्वादिति । सूत्रस्थनित्यमित्यस्य नित्यशब्देनाभिधीयत इत्यर्थ इत्याह-नित्यशब्देनाभिधीयते इति । ननु नित्यावस्थितान्यरूपीणीति तृतीयसूत्रे नित्यपदेन ध्रौव्यमेवोक्तमिति गतार्थत्वान्नेदं सूत्रमारब्धव्यमित्याशङ्कते-ननु चेति । इह तद्भावाव्ययं नित्यमिति सूत्रे । लक्षितेनेति, इह लक्षितेन नित्यत्वेनेति सम्बन्धः। तत्र नित्यावस्थितान्यरूपाणीतिसूत्रे, अत एवोक्तं तत्र भाष्ये तद्भावाव्ययं नित्यमिति च वक्ष्यते इति । तत्र तयोर्मध्ये । प्राच्यां खभावाप्रच्युत्या कालत्रयाव्यभिचारिणीम् । परम्परा वृत्त्यच्छेदमधिकृत्य पारम्पर्यप्रवृत्तिलक्षणनित्यतां द्वितीयामाश्रित्य । जैनराधान्ते तद्भावाव्ययं नित्यमित्येकलक्षणलक्षितमेकमेव नित्यत्वं द्वितीया नित्यतैव नास्तीति नित्यताद्वयमुपादाय सूत्रद्वयसङ्गमना न युक्त्याह-एतदपि यत्किश्चिदिति । नित्यताद्वयाभिमानी शङ्कते-नित्यप्रहसितादिष्विति। औपचारिकोऽयं तत्र नित्यशब्दो न वास्तविकी द्वितीयां नित्यता गमयितुमीष्टे इत्युत्तरयति-तदयुक्तमिति । प्रकृतमनुसरन्नाह-एवमिति, उक्तसूत्रोपदर्शितप्रकारेणेत्यर्थः । अन्वय्यंशः, ध्रौव्यांशः। स च द्रव्यनयविषयत्वाइव्यनयखभाव इति विषयविषयिणोरभेदमाश्रित्य ध्रौव्यस्य द्रव्यनयस्वभावत्वे उत्पादठयययोः पर्यायनयखभाक्त्वं प्राप्तमेव कण्ठतोऽसन्दिग्धप्रतिपत्तये उपदर्शयति-पर्यायनयस्वभावाविति. इयमपि विषयविषयिणोरभेदमवलम्ब्योक्तिः । उत्पादविनाशावभूतभावभूताभावलक्षणाविति, अभूतस्य प्रागसतो भाव आत्मलाभस्तल्लक्षण उत्पादः, भूतस्य प्राक् सतोऽभावोऽसत्त्वन्तल्लक्षणो विनाश इत्यर्थः । उक्तन्यायेनेति, एकान्तोत्पादादीनामसम्भवावेदकयुक्तिकदम्बेनेत्यर्थः । पर्यायेति, उत्पादव्ययेत्यर्थः । अत्र हेतुः-वस्तुनः परिणामिखभावत्वं नापरिणम्य कविकालमवतिष्ठत इति प्रतिक्षणमपूर्वापूर्वपर्यायसम्बन्धो वस्तुनि भवत्येव, स च नोत्पादव्ययावन्तरेणेत्यभिसन्धिः। जैनराद्धान्तस्थान्यदर्शनापेक्षयाऽत्राथे उत्कर्षमाविभोवयति-एवमेकेति। अन्यत्र जैनातिरिक्तदर्शने । व्यधिकरणाविति, भिन्नकालिकत्वाद्विभिन्न व्यक्तिगतत्वाच्च, आद्यक्षणसम्बन्धलक्षण उत्पादो घटे विनाशश्च तस्य कपाल इति । नियती वेतीति, यस्य भावस्योत्पादस्तस्य नोत्पत्तेः पूर्वं सत्त्वं यस्य विनाशस्तस्य न विनाशानन्तरं सत्त्वं ध्रौव्यांशानभ्युपगमादित्येवं नियतावैकान्तिकावित्यर्थः । ननु मृदादिरूपेण ध्रौव्यमेव वस्तुनोऽभिमतं तन्न सङ्गच्छते मृदादीनां मृदादिर्यथाऽऽस्मा तथा पर्यायोऽप्यात्मैव, तथा च पर्यायनाशादात्मनिवृत्त्या मृदादिरूपेणापि निवर्तितव्यमिति मृदादिरूपेण ध्रौव्यं कुत इति परः प्रश्नयति-नन्वेषमपीति, एवमपि उत्पादव्ययस्थितीनां परस्परप्रतिबद्धत्वेऽपि । तत् मृदादि । द्रव्यं ध्रौव्यात्मकम् । भात्माऽपरित्या