SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ [४४] - परिणामनित्यतामाश्रित्य विविधरीत्या तद्भावाव्ययमितिसूत्रव्याख्या। [ तत्त्वार्थत्रिसूत्री मुरुलध्वादिपर्यायवत्तयाऽवश्यंतयैवानियताऽभ्युपेया; ते त्वन्ये चान्ये च भवन्ति, अन्यथा तत्र न खत उत्पादव्ययौ नाप्यापेक्षिकाविति न्यूनमेव सल्लक्षणं स्यात्, इमामेव परिणामनित्यतां भाष्येण दर्शयति [भाष्यम्-] यत् सतो भावान व्येति न व्येष्यति तन्नित्यमिति ॥३०॥ ___ यत् सत इत्यादि । सत्त्वादेरन्वयिनोंऽशान्न व्येति न विनश्यति नापि विनङ्कथति तन्नित्यम् । किं पुनः कारणमप्रवृत्तः कालो नोदाहृतः ?, एवं मन्यते भाष्यकार:-नातीतप्रत्याख्याने वर्तमानः सम्भवति, वर्तमानावधिकमेवातीतत्वम् , अतीतासत्त्वे निर्मूलस्य वस्तुनोऽनुत्थानप्रसङ्गात् , तस्मादनादि जीवादि सत्त्वादि; एवं तर्हि भविष्यतो ग्रहणं किमर्थम् ?, अत्राप्येवं मन्यते-केचिदविविक्तबुद्धयः प्रत्याख्यापयन्ति-न वर्तमानकालावच्छिन्नस्य वस्तुनः कदाचिद् भविष्यत्कालाभिसम्बन्ध इति, तन्निषेधार्थ भविष्यग्रहणम् । अथवा तद्भावेनाव्ययम् , तेन सदात्मना स्थित्यंशेनाविगतं परिणामापत्तौ सत्यामपि स्वभावाप्रच्युतेर्नित्यमुच्यते, तमेव च ध्रौव्यांशमाश्रित्य समस्तास्तिकायेषु नित्यताव्यवहारः प्रतीयते । अथवा भूतिर्भावः स्वात्मेत्यर्थः, स चासौ भावश्च तद्भावः; कश्चासौ ?, यः सर्वास्ववस्थासु निर्विकारः शुद्धा द्रव्यास्तिकनयप्रकृतिरविवक्षितसकलभेदग्रन्थिः, अयो-गमनं विरुद्धोऽयो व्ययस्तद्भावस्य च विरुद्धगमनमभावापत्तिा, न व्ययोऽव्ययः, न जातुचित् तद्भावोऽभावो भवतीति वाक्यार्थः; ध्रौव्यामिसम्बन्धाच्च नपुंसकनिर्देशः, तद्भावश्चासावव्ययं च तद्भावाव्ययम् , किं तत् ?, प्रकृतत्वादेवंविधपूर्वखभावतैवेति कथमनित्यत्वमत आह-ते विति, धर्मास्तिकायादयस्त्वित्यर्थः । इत्थमनभ्युपगमे दण्डमाह-अन्यथेति । तत्र धर्मास्तिकायादौ । न्यूनमेव उत्पादव्ययरहितं ध्रौव्यमेव । भाष्यमवतारयति-इमामेवेति । सतो भावादित्यस्य व्याख्यानम्-सत्वादेरन्वयिनोंऽशादिति, एतत्सत्त्वस्यान्वयिधर्मान्तरसूचकत्वं यत्पूर्वमुक्तन्तदभिसन्धायान व्यतीति मूलप्रतीकमुपादाय न विनश्यतीति विवरणम् । न व्येष्यतीत्यस्य विवरणम्-नापि विनयतीति। भाष्येऽतीतकालोत्पन्नध्वंसोपादानाभावे कारणं पृच्छति-किं पुनरिति । अप्रवृत्तः, अतीतः। उत्तरयति-एवं मन्यत इति । मन्तव्यमेवोपनिबध्नाति-नातीतेति, नं वर्तमानकालमविज्ञायातीतत्वं ज्ञातुं शक्यते यतो वर्तमानकालवृत्तिध्वंसप्रतियोगित्वमेवातीतत्वमतः प्रथमतो वर्तमानस्योपन्यास आवश्यकः । वर्तमानश्च पूर्वकारणक एव न तद्विना भवितुमर्हतीत्यर्थाक्षिप्त एवातीत इति तदनुपन्यासेऽपि न न्यूनतेत्याशयेनाह-वर्तमानावधिकेति । ननु भविष्यत्त्वमपि वर्तमानकालवृत्तिप्रागभावप्रतियोगित्वमिति वर्तमानावधिकमेवेति तदुपादानमपि न न्याय्यमित्याशयेन पृच्छति-एवं तहीति । उत्तरयति-अत्राप्येवमिति । मन्यते, भाष्यकारो मन्यते। मन्तव्यखरूपमुपनिबध्नाति-केचिदित्यादि भविष्यद्रहणमित्यन्तेन । यत्सतो भावादिति भाष्यानुसारेण तद्भावादव्ययं तद्भावाव्ययमिति व्याख्यातमिदानीं तद्भावेनाव्ययं तद्भावस्याव्ययं तद्भावाव्ययमिति तृतीयाषष्ठ्योराश्रयणेन क्रमेणोक्तसूत्रं व्याख्यानयति-अथवेति । तद्भावेनेत्यस्य व्याख्यानम्-तेन सदात्मना स्थित्यंशेनेति । अव्ययमपीत्यस्य व्याख्यानम्अविगतमिति । कथमविगतमित्यपेक्षायां तत्र हेतुरुक्तः-परिणामापत्तौ सत्यामपि स्वभावाप्रच्युतेरिति । तद्भावेनेति तृतीयापक्षाश्रितं व्याख्यानमुपदर्य तद्धावस्येति षष्ठीपक्षाश्रितं व्याख्यानमाह-अथवेति । तद्भाव इत्यत्र कर्मधारय इत्याह-स चासाविति । तद्भावपदेन क उच्यते इति पृच्छति-कश्वासाविति । उत्तरयति-य इति । शुद्धति यदुक्तं विशेषणं तस्यैव विशिष्य ख्यापनम्-अविवक्षितसकलमेदग्रन्थिरिति, असकलभेदग्रन्थिरियेव कुतो नोक्तमिति न शक्यम् , सकलविशेषरहितस्य सामान्यस्यानुगामिनो ध्रौव्यांशस्य वस्तुतोऽभावात्, सतामपि भेदानामविवक्षा च द्रव्यनयादेशात्सम्भवतीति। तद्भावाव्ययमित्यत्र नपुंसकनिर्देशे बीजमाह-ध्रौव्येति, तद्भावाव्ययमित्यनेन ध्रौव्यमेवाभिमतं तस्य नपुंसकत्वानपुंसकनिर्देशः । न व्ययोऽव्यय इति व्याख्याने तद्भावस्येति षष्ठी, न व्ययो यस्य तदव्ययमिति, व्याख्याने प्रथमैवादर्तव्येत्यभिसन्धानेनाह-तद्धावश्चासावव्ययं चेति । अवश्यञ्च षष्ठीपक्षोऽप्यादर्तव्योऽन्यथा तृतीया
SR No.022537
Book TitleTattvartha Trisutri Prakashika
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year1945
Total Pages150
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy