SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ भाटी का विवृतियुता धर्मादिषु सत्त्वादिना नित्यत्वं गत्युपकारकत्वादिनाचानित्यत्वम् । [४३] स ह्यन्वयी द्रव्यास्तिकांशः सर्वदा सर्वत्र न विच्छिद्यते, सदाकारेणानुत्पत्तेरविनाशाच्च, भावशब्दोपादानात् परिणामनित्यता गृह्यते, कूटस्थनित्यता त्यज्यते, अन्यथा ' तदव्ययं नित्य' मिति सूत्रं स्यात्, यत् तु न केनचिदाकारेण विक्रियते तदनुपाख्यमेव भवेत्, सत्त्वं च सर्वेषामन्वयिनां धर्माणां सूचकम्, पञ्चास्तिकायव्यापित्वात् तु सत्त्वपरिग्रहः । साक्षाज्जीवस्तावत् सवं चैतन्यममूर्तत्वमसङ्ख्येयप्रदेशत्वं चाजहत् तथातथापरिणामान्न व्यगात् न व्येति न व्येष्यत्यविनाश्यव्ययो नित्य उच्यते, न पुनर्देवादिपर्यायेणाप्यनन्वयिना नित्यता ध्रौव्यमस्य विद्यते; तथा परमाणुव्यणुकादिपुद्गल - द्रव्यं सत्त्वमूर्तत्वाजीवत्वानुपयोगग्राह्यादिधर्मानपरित्यजद् विवर्तते, न घटादिपर्यायविवक्षया धौव्यम् ; धर्मद्रव्यमपि सत्त्वामूर्तत्वा सङ्ख्येयप्रदेशवत्त्व लोकव्यापित्वादिधर्मात्यागेनावतिष्ठते, न तु परमाणुदेवदत्तादीनां प्रत्येकं गन्तृत्वस्य विवक्षायां गत्युपकारित्वेन नित्यत्वम्, गन्तृभेदाद्धि गत्युपकारित्वं भिद्यते, अन्य शाकारेण पूर्वः परिणामोऽन्यादृशेनाकारेण पाश्चात्यः, नहि प्रथमतरमुत्पन्नो गत्युपकारित्वपरिणामः सर्वदाऽवतिष्ठते, स्वरूपव्यतिरिक्तवस्तुसम्बन्धितयोपजायमानत्वाद् घटादिवत् ; एवमधर्मद्रव्यमपि द्रष्टव्यम्, स्थित्युपकारितया चानित्यत्वभावना; आकाशं तु सत्त्वामूर्तत्वानन्तप्रदेशवत्त्वादिधर्मद्वारेण नित्यम्, अवगाहकापेक्षयाऽवगाहदातृत्वेनानित्यम्, यत्राप्यवगाहकं जीवपुद्गलं नास्ति तत्राप्यपञ्चमीतत्पुरुष इत्याह-तद्भावादव्ययमिति, यदापि पर्यायो नश्यति तदापि एतद्भावो विद्यत एवेत्याशयः । स हि धौव्यांशो हि, अन्वयी पूर्वोत्तरपर्यायानुस्यूतः, अत एव द्रव्यास्तिकांशः द्रव्यास्तिकन्याभिमतोंऽशः । तदव्ययं नित्यमित्येव वक्तुमुचितं भावपदोपादानमनर्थकमिति न वक्तव्यं, प्रतिक्षणं तत्तत्पर्यायरूपेण परिविवर्त्तत एव तत्, पर्यायस्य च कथञ्चित्सदात्मकत्वेन तदुत्पादे तद्रूपेणोत्पादोऽपि पर्यायस्य विनाशे तद्रूपेण विनाशोऽपि तथा परिणमनं च सत एवेति तदात्मनाऽवस्थानमपीति कथञ्चिन्नित्यत्वावगतये भावपदोपादानमित्याह- भावशब्दोपादानादिति । परिणामनित्यतेति, पूर्वोत्तराकारपरित्यागोपादाना जहद्वृत्तिध्रौव्यतेत्यर्थः । कूटस्थनित्यतेति, अप्रच्युतानुत्पन्नस्थिरैकस्वभावतेत्यर्थः । ननु कूटस्थनित्यतैव कुतो न सूत्रकृदभिमता, तदनुसारेणैव सूक्ष्मार्थकस्य सूत्रस्य व्याख्यातुं शक्यत्वादित्यत आह- अन्यथेति, कूटस्थनित्यतात्यागाभाव इत्यर्थः । ननु कूटस्थनित्यतामुररीकृत्य तदव्ययं नित्यमित्येव सूत्रं कथन्न कृतमित्यत आह-यत्त्विति, कूटस्थनित्यस्य केनचिदप्याकारेण परिणामविक्रियाभावेऽर्थक्रियाकारित्वलक्षणसत्त्वाभावाच्छश शृङ्गकल्पत्वमेव स्यादिति भावः । ननु तद्भावाव्ययमित्यत्र तद्भावपदेन सत्त्वस्य ग्रहणं भवता कृतमेतावता सत्त्वेन रूपेण सर्वेषां पदार्थानामव्ययत्वान्नित्यत्वं प्राप्तं जीवत्वेन जीवस्य पुद्गलत्वेन पुद्गलस्य धर्मास्तिकायत्वादिना धर्मास्तिकायादेर्नित्यत्वन्तु न प्राप्तं तत्किं जीवोऽप्यजीवतामुपगच्छति पुद्गलादिरप्यपुद्गलादिरूपताम् ?, न चैवमिष्टम्भवतामित्यत आह-सत्त्वं चेति । ननु यदि सत्त्वं सर्वेषामन्वयिनामुपलक्षणं तत्किमन्वयिधर्मान्तरमेव कुतो न साक्षादुपन्यस्तं तदप्युपन्यस्तं सदन्वयिधर्मान्तरमुपलक्षयेदेवेत्यत आह- पञ्चास्तिकायेति । साक्षादिति पूर्वान्वयि, तथा चाणुरपि विशेषोऽध्यवसायकर इति न्यायादन्यधर्मापेक्षया सत्त्वस्य सर्वव्यापित्वं विशेष इति कृत्वा तस्यैव साक्षादुपनिबन्धनमित्यर्थः । तद्भावाव्ययत्वलक्षणं नित्यत्वं जीवे सङ्गमयति- जीवस्तावदिति । सत्त्वचैतन्यादि - रूपेणैव जीवस्य नित्यत्वं न तु देवत्वादिनेत्याह-न पुनर्देवादिपर्यायेणेति । पुद्गलास्तिकाये उक्त नित्यत्वलक्षणं सङ्गमयतितथा परमाणुयणुकादीति । अनुपयोग प्राह्यादीति, अनुपयोगत्वे सति ग्राह्यत्वेत्यर्थः । तेन प्राह्यत्वस्य जीवसाधारण्येऽपि न क्षतिः, घटत्वादिना तु न पुद्गलस्य नित्यखमित्याह-न घटादीति । धर्मास्तिकाये उक्तलक्षणं सङ्गमयति-धर्मद्रव्यमपीति । परमाण्वादिगत्युपकारित्वादिना तु न धर्मास्तिकायस्य नित्यत्वमित्याह-न तु परमाणुदेवदत्तादीनामिति । कुतो न तथानित्यत्वमित्यपेक्षायामाह - गन्तृभेदाद्धीति । एतदेव प्रपश्चत उपदर्शयति-अन्यादृशाकारेणेति । सर्वदाऽवस्थानाभावे हेतुमाह-स्वरूपव्यतिरिक्तेति । धर्मास्तिकाये येन रूपेण नित्यत्वं तेनैवाधर्मास्तिकायेऽपीत्यतिदिशति - एवमधर्मद्रव्यमपीति, धर्मास्तिकायतोऽनित्यत्वभावनायामत्र यो विशेषस्तमाह-स्थित्युपकारितया चेति । आकाश उक्तलक्षण सङ्गमयति- आकाशन्त्विति । अनित्यत्वं तत्रोपपादयति- अवगाहकापेक्षयेति, ननु धर्मास्तिकायादीनां गन्नादिभेदेऽपि
SR No.022537
Book TitleTattvartha Trisutri Prakashika
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year1945
Total Pages150
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy