________________
तो नित्यत्वानित्यत्वगोचरप्रश्नः, नित्यलक्षणश्च ।
[ तत्त्वार्थत्रिसूत्री नित्यमाहोस्विदनित्यमिति ? तुशब्दस्तस्मादित्यस्यार्थमभिधत्ते, तदिति सतः परामर्शः, तत् सत् किं नित्यमनित्यमिति । सप्तसु विकल्पेषु सति सम्भवत्सु प्रश्रद्वयोपन्यासः किमर्थ इति चेत्, उच्यते-द्रव्यास्तिकपर्यायास्तिकसम्परिग्रहार्थः, तत्सम्परिग्रहाच्च शेषविकल्पसूचनमवसेयम् । कुतः पुनरियमारेका प्रष्टुः ? उच्यते-- सतां नित्यानित्यत्वदर्शनात्, सद् व्योमादि नित्यं दृष्टं सच्च घटादि अनित्यमतः सन्देहः । अथवा आदाविदमुक्तम् - " नित्यावस्थितान्यरूपाणि " ( अ० ५, सू० ३ ) इति, तत्रैवं मन्यते-न सर्वं सन्नित्यमरूपग्रहणात्, रूपवतस्त्वनित्यत्वमर्थादतो न सत् नित्यं नाप्यनित्यमिती - ष्यतेऽवस्थित्यंशाङ्गीकरणेन रूपवदपि नित्यम् । यथाऽऽह भगवान् - " से जहा णामए पंचत्थिकाया सिया” इत्यादि सूत्रम् । अन्यथा तूत्पादव्ययधौव्ययुक्तं सदित्यव्यापि सल्लक्षणं स्यात्, अत इदं तु वाच्यम्-तत् किं सर्वथा नित्यमाहोस्वित् स्थित्यंशसमाश्रयणेनैव नित्यमिति ? । आचार्यस्तु स्थित्यंशमभिप्रेत्याह- अत्रोच्यते ॥
[ सूत्रम् - ] तद्भावाव्ययं नित्यम् ॥ ५-३० ॥
[४२]
तदित्यनेनाभिसम्बध्यते सत्, तस्य -सतो भवनं - भावस्तद्भावः कर्तरि षष्ठी, तदेव हि सत् तथा तथा भवति जीवादि देवादिरूपेण, न जातुचित् सत्त्वत्यागेनान्यथा भवति, तद्भावादव्ययं तद्भावाव्ययम् अविनाशि नित्यम्, नित्यग्रहणात् ध्रौव्यांशपरिग्रहः, “नेर्भुवे त्यप्” इति वचनात् यस्मादिति । इदन्तु वाच्यमिति वाक्यमध्यपतितस्तुशब्दस्त स्मादित्यर्थे इत्याह- तुशब्द इति । तत्किमित्यत्र तच्छब्देन कस्य ग्रहणमित्यपेक्षायामाह - तदितीति । प्रश्नवशाद्विधिनिषेधकल्पनया सप्तभङ्गीत्यादिग्रन्थव्याख्याने धर्माणां सप्तविधत्वं ततस्तद्विषयक संशयानामपि सप्तविधत्वं ततस्तज्जन्यानां जिज्ञासानामपि सप्तविधत्वं ततस्तज्ज्ञापकप्रश्नानामपि सप्तविधत्वन्तत उत्तरवाक्यस्यापि सप्तविधत्वमिति उत्तरवाक्यसमुदायस्य सप्तभङ्गीरूपतयैव पूर्णत्वमन्यत्र निष्टङ्कितमस्तीति सप्तविधप्रश्नोपन्यास एव न्यायप्राप्त इति तमुपेक्ष्य प्रश्नद्वयोपन्यासे किं बीजमिति परः पृच्छति - सप्तसु विकल्पेष्विति, किं नित्यं सत् १, किमनित्यं सत् २, किं नित्यमनित्यं च सत् ३, किमवक्तव्यं सत् ४, किं नित्यमवक्तव्यं च सत् ५, किमनित्यमवक्तव्यं च सत् ६, किं नित्यमनित्यमवक्तव्यं च सद् ७ इत्येवं सप्तसु विकल्पेष्वित्यर्थः । द्रव्यास्तिकनयोत्थः प्रथमो विकल्पः पर्यायास्तिकन योत्यो द्वितीयः, तृतीयादिधर्माणां विधिनिषेधद्वय क्रमयुगपद्भावकल्पनालब्धात्मत्वेन तद्विषयकप्रश्नानामप्याक्षेपतो लाभसंभवादित्याशयेन समा - धत्ते - उच्यत इति । ननु विधिनिषेधकोटिसहचरितधर्मवद्धर्मिज्ञानादित एव संशयः प्रादुरस्ति ततो जिज्ञासाद्वारा प्रश्नाविर्भावः प्रकृते किन्तच्छङ्का निबन्धनमिति प्रश्नयति- कुत इति । साधारणधर्मवद्धर्मिज्ञानादेवात्र संशयः, साधारणधर्मश्च सत्त्वमेव, तस्य नित्ये व्योम्नि अनित्ये घटादौ च सत्त्वेन नित्यत्वानित्यत्वोभयसहचरितत्वेन साधारणधर्मत्वसंभवादित्याशयेनोत्तरयति-उच्यत इति । उक्तप्रश्नोत्थापन प्रकारान्तरमादर्शयति-अथवेति । आदौ पञ्चमाध्यायस्यादौ । इदं नित्यावस्थितेत्याद्यनन्तरमेव प्रत्यक्षगोचरीक्रियमाणं तृतीयसूत्रम् । तत्र तस्मिन् सूत्रे, एवं न सर्वमित्यादि वक्ष्यमाणप्रकारम् । मन्यते प्रष्टाऽभिजानाति । अर्थादिति, अरूपग्रहणान्यथाऽनुपपत्त्येत्यर्थः । नन्वेवमरूपिद्रव्याणां नित्यत्वं रूपिद्रव्याणाञ्चानित्यत्वं तेन सूत्रेण प्रतिपन्नमेवेति प्रतिनियतधर्मिनिश्चितयोस्तयोर्धर्म्यन्तराभावादेव न भवति संशयावकाश इत्यत आह-अवस्थित्यंशाङ्गीकरणेन चेति । तदनङ्गीकारे उत्पादव्ययध्रौव्ययुक्तं सदिति सलक्षणमेव न तत्र समन्वियादित्यव्यापिता लक्षणस्य प्रसज्येतेत्याह-अन्यथेति । एवं सल्लक्षणानुगमानुरोधान्नित्यत्वं धौव्यांशमादाय अनित्यत्वञ्चोत्पादव्ययांशमुपादायेति कोटिद्वयनिश्चये पुनरपि संशयोऽनुपपन्न इत्यत आह-अत इदन्तु वाच्यमिति । तत् सद्रूपम् । अभिसम्बध्यते वाच्यतया सम्बध्यते परामृष्यत इति यावत् । तस्य भाव इत्यत्र षष्ठी कर्त्रभिधायिकेत्याह- कर्त्तरि षष्ठीति । तच्छब्दार्थस्य सतो भवनं प्रति कर्तृत्वे स्यादियं षष्ठी कर्त्रर्थतयोपपन्नेत्यतः सतो भवनम्प्रति कर्तृत्वमुपपादयति तदेव हीत्यादिना । जीवादिद्रव्यादिपरिणमनदशायामपि सद्रूपता नापैतीत्याह-न जातुचिदिति । अन्यथा पर्यायात्मना । तद्भावाव्ययमित्यत्र