SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ भाष्यटीकाविधुतियुता ] उत्पादादीनां भिन्नकालताऽर्थान्तरता च, तथोत्तरसूत्रभूमिकाभाष्यम् । [११] स्थित्वा प्रध्वंसद् विनश्यति, एवं भिन्नकालाः प्रत्येकात्मकालवृत्तित्वात् परस्परविभिन्नात्मानोऽर्थान्तरभूता इति यावत् , पटव्योमादीनां चात्यन्तपृथग्भूतरूपाणामत्यन्तभिन्नकालानां च नैकत्वं दृष्टम् , यो वाऽद्य जनित्वा म्रियते यश्च वर्षशतं जीवित्वा मरणमनुभवति न तयोस्तुल्यकालता युक्ता । तथा न घटोत्पादकाल एव विनाशकालः क्रियाफलानाश्वासप्रसङ्गात् , यदि घटरूपनिवृत्त्यनन्तरमेव घटस्य विनास्तशतः क्रियाफले घटे स्यादनाश्वासो विनष्टेन तेन घटकार्याकरणात् , तस्माद् भिन्नकालावुसादविनाशौ । तथाऽर्थान्तरमुत्पादस्थितिभङ्गाः परस्परतः स्खलक्षणभेदात्, आत्मलाभात्मावस्थानात्महानिस्वभावाः खल्वेते, यत्र च स्खलक्षणभेदस्तत्रार्थान्तरता दृष्टा घटपटादिषु, यत्र चानान्तरता न तत्र स्खलक्षणभेदः, यथैकक्षणवर्तिनि रूप इति । एवं भिन्नाभिन्नकालतोत्पादादीनामर्थान्तरत्वमनर्थान्तरता च स्याद्वादप्रक्रियायां सकलप्रमाणाविरोधिनी सिध्यति, नैकान्तवादेषूत्पादादयः सम्भवन्ति, भेदाभेदादिलक्षणानभ्युपगमात् । तस्मादवस्थितमिदम्-उत्पादव्ययध्रौव्ययुक्तं सदिति ॥२९॥ एवं प्रपञ्चतः सल्लक्षणमुपपाद्योत्तरसूत्रसम्बन्धाय ग्रन्थमुपचिक्षेप भाष्यकार:[भाष्यम्-] अत्राह-गृहीमस्तावदेवंलक्षणं सदिति, इदं तु वाच्यम्न्त त् किं नित्यमाहोखिदनित्यमिति ? । अन्रोच्यते अत्राहेत्यादि । अत्रावसरे परः प्रश्नयति प्रतिपादितसल्लक्षणानुमोदनाद्वारेण-गृहीमस्तावदेवलक्षणं सदिति, एवंविधस्य सत्त्वमनुमन्यामहे युक्त्यागमभाजः। तावच्छब्दः प्रक्रमावद्योतनार्थः, पूर्वमेव सत्त्वं निश्चेयम् , निश्चिते सत्त्वे पश्चान्नित्यताऽनित्यता च चिन्त्या । एवं लक्षणमास्येत्युत्पादावित्रययोगमुल्लिङ्गयति । इतिशब्दो हेत्वर्थः । यस्माद् सत् तस्मात् इदं तु वाच्यम्-तत् किं स्मकध्रौव्यमपीत्यर्थः । द्रव्यात्मरूपमजहदिति, पर्यायात्मनोत्पादविनाशेऽपि द्रव्यात्मना स्थितिखरूपमत्यजदित्यर्थः । स्वात्मनि वर्तते खवरूपेऽवतिष्ठते, तथा च द्रव्यस्य खखरूपे संयोगाद्यतिरिक्तसम्बन्धस्याभावेऽपि तादात्म्यमेव सम्बन्धः, सेन सम्बन्धेन तस्य खस्मिन्वृत्तिन विरुध्यतेऽतो द्रव्यस्यापि द्रव्यधर्मत्वमविरुद्धमिति भावः । एवं सति यन्निष्पनं तदाहततश्चेति । एवम् उक्तप्रकारेण । प्रत्येकेति, उत्पादधर्मकस्य द्रव्यस्योत्पादकालवृत्तित्वमेवं स्थित्यात्मनस्तत्कालवृत्तित्वं विनाशात्मनो विनाशकालवृत्तित्वमित्येवं विभिन्नकालवृत्तित्वादुत्पादादयो विभिन्ना इत्यर्थः, अनुमानप्रयोगश्चेत्यम्-उत्पादादयो नान्योन्यमेकतां बिभर्ति अत्यन्तपृथग्भूतरूपत्वादत्यन्तभिन्नकालत्वाच्च घटव्योमादिवदिति । उक्तसाध्यहेत्वोरविनाभावं दृष्टान्ते प्रकटयति-पटब्योमादीनामिति । उत्पादविनाशयोस्तुल्यकालत्वाभावे दृष्टान्तान्तरमाह-यो वेत्यादिना । तयोः, वर्षमात्रजीविशतवर्षजीविनोः । क्रियाफलानाश्वासप्रसङ्गादिति यदुक्तं तदेवोपपादयति-यदीति । उत्पादादीनामर्थान्तरत्वं साधयत्यनुमानेन-तथार्थान्तरेति । उत्पादादीनां लक्षणभेदमुपदर्शयति-आत्मलाभेत्यादि, आत्मलाभ उत्पादस्य लक्षणम् , आत्मावस्थानं स्थितेर्लक्षणम् , आत्महानिर्भङ्गस्य लक्षणमिति । एते उत्पादस्थितिभङ्गाः। अन्वयव्याप्तिमुपदर्शअति-यत्र च खलक्षणभेद इति । व्यतिरेकव्याप्तिमादर्शयति-यत्र चानान्तरतेति । सिद्धे चोत्पादादीनामर्थान्तरत्वेऽनर्थान्तरत्वे स्याद्वादप्रक्रियायां न कस्यचिद्विरोध इत्युपसंहरति-एवमिति । एकान्तवादेषु नोत्पादादीनां सम्भव इत्युपदर्शयति-नैकान्तवादेष्विति । एकोनत्रिंशत्तमसूत्रप्रतिपाद्यं सल्लक्षणमनवद्यमित्युपसंहरति-तस्मादवस्थितेति, ॥ २९॥ ... उत्तरसूत्रभूमिकामवतारयति एवं प्रपञ्चत इति । सतो नित्यत्वानित्यत्वे एव कुतो न लक्षणात् पूर्व विचारिते इत्यपेक्षायामाह-पूर्वमेवेति, सच्च धर्मिखरूपं तस्य नित्यत्वमनित्यत्वं वा धर्मः, धर्मिणोऽनिर्णीतखरूपत्वे कस्य धर्मतया तझ्यवतिष्ठतेति धर्मिखरूपप्रतिपत्त्यर्थ युक्तमेव खरूपलक्षणस्य प्रथममभिधानमिति, एवंलक्षणमिति शब्दः समासरूप इत्यावेदनायाह-एवं लक्षणमस्येति, तदेवंलक्षणमिति दृश्यम् । अनेन किमुक्तं भवतीत्यपेक्षायामाह-इत्युत्पादादित्रयेति । उल्लिायलि, ज्ञापयति । सदितीत्यत्रेतिपदस्यार्थ व्याचष्टे-इतिशब्दो हेत्वर्थ इति । हेत्वर्थत्वे यदुक्कं भवति तदाह त.त्रि.६
SR No.022537
Book TitleTattvartha Trisutri Prakashika
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year1945
Total Pages150
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy