________________
[४०]
उत्पादादीनां भिन्नाभिन्नकालता, अर्थान्तरताऽनर्थान्तरता च । [ तत्त्वार्थत्रिसूत्री
सर्पस्वभावतैव । अत एवानर्थान्तरताऽपि ग्राह्या, अनर्थान्तरमुत्पादविनाशौ परस्परावधिकौ तत्प्रतिपत्तेरभिन्नकालत्वात्, तस्योत्पादस्यारम्भो विशिष्यते अभिन्नकालत्वेन केन सहाभिन्नकालः ? इति चेत्, सामर्थ्याद् विनाशेन, यस्माद् विनश्यतो हि योऽन्त्यक्षणो यश्चोत्पादस्याद्यक्षणस्तदेतावुत्पादविनाशावेककालावनर्थान्तरं च, यदि चान्यो विनाशकालः स्यात् पूर्वस्यान्यश्चोत्पादकालः स्यादुत्तरस्य, ततः प्रागेतनं विनष्टमुत्तरमनुत्पन्नम्, एवं च वस्तुशून्यः कालो भवेन्निर्बीजं चोत्तरमुत्पद्येत, तस्मादभिन्न कालावनर्थान्तरं च ताविति यथैकक्षणवर्तिनो रूपस्यैकत्वादेव तत्प्रतिपत्त्यभिन्नकालतेत्येतत् प्रतिपादयति-अन्यस्य ह्यन्येन भिन्नकालता सम्भाव्येत, न पुनस्तस्य तेनैवेति वाक्यार्थः । एवमितरत्रापि द्वयेऽनर्थान्तरता भावनीया, हेतुदृष्टान्तौ तु तावेव । नैगमनयाभिप्रायेण तूत्पादविनाशद्रव्याणां भिन्नकालता, उत्पादो हि प्रागभावः, स च द्रव्यधर्मत्वाद् द्रव्यवृत्तिः, प्रध्वंसाभावोऽपि विनाशः सोsपि द्रव्यधर्म एव द्रव्यमपि द्रव्यात्मरूपमजहत् स्वात्मनि वर्तते, ततश्चोत्पद्य कश्चित् कालं
सति तदभिन्नाभिन्नस्य तदभिन्नत्वमिति नियमेनोत्पतनाभिन्नसर्पाभिन्नस्य निपतनस्योत्पतनाभिन्नत्वं ततश्च स्वात्मत्वापृथग्भाव उभयावस्थस्य सर्पस्येत्याह-न चेद्भिद्यत इति । एककालत्वसिद्धौ ततोऽनर्थान्तरताऽप्युत्पादविनाशयोस्सिद्ध्यत्येवेत्याह- अत एवेति, एककालत्वादेवेत्यर्थः । अत्रानुमानप्रयोगमुपदर्शयति-अनर्थान्तरेति । तत्प्रतिपत्तेः, उत्पादारम्भस्य | अभिन्नकालत्वादिति हेतौ केन सहाभिन्नकालत्वमुत्पादारम्भस्येति पृच्छति केन सहेति । उत्पादस्य विनाशेन सममनर्थान्तरत्वं साध्यं नान्येन सममुत्पादारम्भस्याभिन्नकालत्वेन सेडुमर्हत्यति प्रसङ्गादतो विनाशेन सममभिन्नकालत्वमेव तन्नियतमिति तदेवाक्षिप्यत इत्याह- सामर्थ्याद्विनाशेनेति । कथमुत्पादविनाशयोरेककालत्वमनर्थान्तरत्वं च सङ्घटनामियतीत्यपेक्षायामाह - यस्मादिति । एवमनङ्गीकारेऽनिष्टमासञ्जयति-यदि चेति, पूर्वस्य विनाशकालोऽन्यः स्यादुत्तरस्य चोत्पादकालोऽन्यः स्यादिति सम्बन्धः । ततः, तदा । एवं च यस्मिन्क्षणे पूर्वपदार्थो नष्टः तस्मिन्नोत्तरपदार्थ उत्पन्न इत्यभ्युपगमे च । कालः पूर्वविनाशक्षणः । वस्तुशून्यः पूर्वस्य तस्मिन्क्षणे विनाशादेव न सत्त्वम् उत्तरस्य चानुत्पादादेव च न सत्त्वम्, ध्वंसानुत्पादयोसत्त्वेऽपि तस्याभावरूपत्वादेव न वस्तुत्वमिति वस्तुशून्यः स कालः स्यात् । एवमपि कदाचित्पर उपेयासदाप्याह-निर्बीजं चेति, ध्वंसस्य तुच्छत्वा देव न जनकत्वं वस्तु च किञ्चिदव्यवहितपूर्वे तस्मिन्क्षणे नास्त्येवेति । अतः पूर्वस्य यस्मिन्क्षणे नाशस्तस्मिन्नेव क्षणे उत्तरस्योत्पादारम्भ आस्थेय इति । उपसंहरति- तस्मादिति । तौ उत्पादविनाशौ । पूर्वोपदर्शितं दृष्टान्तं स्मारयति - यथैकक्षणवर्तिन इति । एतदुक्तिखारस्यमुद्भावयति- पतत्प्रतिपादयतीत्यादिना, एतदिति, अनन्तरं वक्ष्यमाणमन्यस्य ह्यन्येनेत्यादीत्यर्थः । उत्पादविनाशयोरभिन्न कालत्वानर्थान्तरत्वे प्रसाध्य ध्रौव्यस्याप्युत्पादेन सह विनाशेन च सहाभिन्न कालत्वानर्थान्तरत्वयोः प्रसाधनप्रकारमति दिशति - एवमितरत्रापि द्वये इति, धौव्योत्पादध्रौव्यविनाशात्मकद्वये इत्यर्थः । तावेव स्वात्मत्वा पृथग्भावैकक्षणवर्त्तिरूपात्मकावेव । एवमुत्पादविनाशध्रौव्याणामभिन्नकालतां व्यवस्थाप्य तेषां भिन्नकालतामपि व्यवस्थापयति- नैगमनयाभिप्रायेणेति । स च प्रागभावश्च । द्रव्यधर्मत्वादिति, प्रतिपादितञ्च नैगमनयप्रसूते कणभक्षाक्षपादनये ध्वंसप्रागभावयोः प्रतियोगिसमवायिकारणवत्तित्वम्, प्रतियोगिसमवायिकारणश्च द्रव्यमेवेति । ननु अनुत्पाद एव नैयायिकादिमते प्रागभाव इति व्यपदिश्यते, प्रागभावश्च प्रतियोगिकारणं प्रतियोग्युत्पत्तेः पूर्वं वर्त्तते, स हि उत्पादस्य कारणं तस्योत्पादरूपताभिधानमसङ्गतमेव नैगमनस्येति चेन्न, यतोऽभूत्वा भवनमुत्पादः, तत्र भवनं स्थित्यंश एव भवति, तस्य चोत्पादश्वमभवनाव्यवहितोत्तरत्वादेव, अन्यथा द्वितीयादिक्षणेऽपि भवनस्य सद्भावेन तदापि तस्योत्पादत्वं स्यादतो भवनाऽव्यवहितपूर्वकालवर्त्तिनोऽभवनस्यैव मुख्यमुत्पादत्वम्, तस्य च स्वाव्यवहितोत्तरक्षणवर्त्तिभवने प्रतियोगिखरूपे फलोपधानरूपकारणत्वमपि, स्थितेः प्रागभवनस्य प्रागभावरूपता युक्तैवेति नैगमाभिप्रायः । ननु प्रागभवनं घटस्य पर्यायस्य न त्वनुगामिनो मृद्दव्यस्य, तस्य कालत्रयेऽपि स्थितिलक्षणभवनाश्रयतयैव प्रतीतेरिति रिक्तमुच्यते द्रव्यधर्मत्वाद्रव्यवृत्तिरिति चेन्न, समानकालीनयोरेवाधाराधेयभावस्य वास्तविकत्वेन पूर्वमसतः पर्यायस्य प्रागभावरूपोत्पादाश्रयत्वासम्भवेन द्रव्यस्यैव तदानीं वर्त्तमानस्य तदाश्रयत्वौचित्यात्तदभेदमुपचर्यैव पर्याये तथाविधोत्पादाश्रयत्वव्यवहारादित्याशयात् । नन्वेवमुत्पादवि - नाशयोव्यरूपत्वेऽपि ध्रौव्यस्य द्रव्यखरूपस्य खात्मनि वृत्तिविरोधात्कथं द्रव्यधर्मत्वमित्यत आह- द्रव्यमपीति, स्थित्या.