________________
भाष्यटीकाविवृतियुता] प्रयोगजविनाशोपसंहारः, उत्पादादीनां भिन्नाभिन्नकालत्वादिकम् । [३९]
यति" इति, प्रतिकृतविधानैषा युक्ति:-"प्रागभूतात्मलाभत्वान्नाशः कारणवान् भवेत्" इति । स्वभावश्च वस्तुनो धर्मः परिणतिविशेषः, स च कश्चित् सादिवर्णादिपरिणामा, कश्चिदनादिः सत्तामूर्तत्वामूर्तत्वादिपरिणाम इति, अतोऽनेकान्तेनैव यो यत्स्वभावः स सर्वदा तत्स्वभाव एव कदाचिन्नश्यति कदाचिदवतिष्ठते कदाचिदुत्पद्यत इत्यलमतिप्रसङ्गेन । स्थितमिदम्-प्रायोगिकोऽप्यस्ति विनाश इति ॥ एतेऽवस्थित्युत्पादविनाशास्त्रयोऽप्येककाला विभिन्नकालाश्च परस्परतोऽनन्तरमर्थान्तरं च, तत्रोत्पादविनाशयोरेककालतायां सिषाधयिषितायां स्वात्मत्वापृथग्भावः कारणम् , नहि उत्पादविनाशयोः स्वात्मा भिद्यते, यथैकस्मिन्नेकक्षणवर्तिनि रूपे विभागाभावात् स्वात्मलाभकाल एवैकः कालो नान्यः समस्ति, यच्चैककालं न भवति तदेकमपि नियमेन न भवति, यथा-गवाश्वयोर्जन्मविनाशाविति । एवमुत्पादविनाशयोरेककालता, एवमुत्पादविनाशाभ्यां द्रव्यमभिन्नकालं साध्यम् , तथोत्पादविनाशौ द्रव्यादभिन्नकालौ ताभ्यामेव हेतुदृष्टान्ताभ्यां वाच्यौ ॥ ननु चैकान्तवादी स्वात्मत्वापृथग्भूतत्वमुत्पादविनाशयोन प्रतिजानीते, तत्प्रसाधनाय परिकरः-सर्पद्रव्यस्यात्मन्युत्पतनाकारेणोत्पादः, तस्यैवात्मनि पतनाकारेण विगमः, सर्पद्रव्यात्मैवोभयाकारः, नहि सत्मा भिद्यते, न चेद् भिद्यते ततः चेत विनशनशीलश्चेत् । नाशविघ्नः क इति, नाशप्रतिबन्धकः कः ? येनोत्पत्त्यनन्तरमेव न नश्यति, तादृशस्य प्रतिबन्धकस्योपदर्शयितुमशक्यत्वादुत्पत्त्यनन्तरमेव विनशनशीलो भावो नश्येदेवेति भावः । न चेदिति, भावो विनश्वरखभावो नाभ्युपगम्यते चेदित्यर्थः । नैव विनयतीति, विनश्वरस्वभावस्यैव विनाशो भवति नाविनश्वरस्वभावस्य, अन्यथा नित्यत्वेम भवदभिमतानामपि कदाचिन्नाशः स्यात् , तथाचोत्तरकालेऽपि न नश्येदित्यर्थः । एतां युक्तिं प्रतिकृत्या प्रतिक्षिपति-प्रतिकृ. तेति । उक्तयुक्तः प्रतिपक्षभूतां युक्तिमेवोपदर्शयति-प्रागभूतेति, प्रागभूतस्य कारणव्यापारात्पूर्वमसतो विनाशस्य यो मुद्गरपाताद्यनन्तरमात्मलाभ उत्पत्तिस्तत्त्वात् प्रागसत्त्वे सति सत्त्वलक्षणकादाचित्कत्वादित्यर्थः । स्वभावत्वादेव खभाववता सह समानकालतानियमः स्वभावस्येत्यपि नास्ति, तस्य वैचित्र्यादित्याह-स्वभावश्चेति । स च परिणतिविशेषश्च । परिणामद्वैचिध्योपदर्शनेन यदभिमतं तदाह-अत इति । वाच्यस्तर्हि कीदृग्भाव इत्यपेक्षायामाह-कदाचिन्नश्यतीत्यादि । उपसंहरतिस्थितमिदमिति। स्थित्यादीनां त्रयाणामेककालत्वादिकं व्यवस्थापयति-पत इत्यादिना । तत्रोत्पादविनाशयोरेककालतां व्यवस्थापयति-तत्रोत्पादेति । खात्मत्वापृथग्भाव एव तयोः कथमित्यपेक्षायामाह-नहीति । खात्माभेदे । एककालत्वं स्यादेवेति दृष्टान्तेन भावयति-यथैकस्मिन्निति, एतच्च क्षणवादाभ्युपगमेन, स्याद्वादे तस्यापि कथञ्चिदभ्युपगमात्, परमनिरुद्धसमयस्यैव क्षणत्वेन तन्मात्रस्थायिनो रूपस्यापि विभागो न सम्भवतीति । अन्वयदृष्टान्तमुपदर्य व्यतिरेकदृष्टान्तमुपदर्शयति-यच्चैककालं न भवतीति । उत्पादविनाशयोरेककालतां प्रसाध्य ताभ्यां ध्रौव्यात्मकस्य द्रव्यस्य तयोश्च ध्रौव्यात्मकेन द्रव्येण सहाभिन्नकालत्वं साधयति-एवमुत्पादविनाशाभ्यामिति। ताभ्यामेवेति, स्वात्मत्वापृथग्भावरूपहेत्वेकक्षणवत्यैकरूपदृष्टान्ताभ्यामित्यर्थः, पूर्वमुत्पादविनाशौ परस्परमेककालौ स्वात्मत्वापृथग्भूतत्वादेकक्षणवर्येकरूपवत् , ततो ध्रौव्यात्मकं द्रव्यमुत्पादविनाशैककालं खात्मत्वापृथग्भूतत्वात् , उत्पादविनाशी द्रव्यैककालौ खात्मत्वापृथग्भावात् , एकक्षणवर्येकरूपवदिति प्रयोगोऽनुसन्धेयः। न च सिद्धसाधनादिदमनुमानं नावतरतीति शङ्कयम् , एकान्तबादिभिस्तेषां भिन्नकालतया विभिन्नतयैव चैकान्तेनाभ्युपगमेन तान्प्रत्येवोतसाधनस्यावतारात्सिद्धसाधनाभावादित्याशयः । नन्वेवं सति खरूपासिद्धत्व हेतोः, एकान्तवादिभिरुत्पादादीनां खात्मत्वापृथग्भावस्यानङ्गीकारादित्याह-ननु चेति, उत्पादविनाशयोरित्युपलक्षणं द्रव्यस्यापि ताभ्यां सह तयोश्च द्रव्येण सह खात्मत्वापृथक्त्वन्न प्रतिजानीत इत्यपि बोध्यम् , न प्रतिजानीते इत्यस्य नाभ्युपेतीत्यर्थः । ग्रन्थकार आह-तत्प्रसाधनायेति, अत इति दृश्यम् , यतस्तदनभ्युपगमात्स्वरूपासिद्धिर्मा प्रापदित्येतस्मात्कारणादिति तदर्थः, तत्प्रसाधनाय खात्मत्वापृथक्त्वसिद्धये । परिकर उपायः। परिकरमेव दर्शयति-सर्पद्रव्यस्येत्यादिना । आत्मनि खरूपे। तस्यैव सर्पद्रव्यस्यैव । उभयाकार उत्पतनाकारः पतनाकारश्च । सर्पद्रव्यात्मेत्यत्र द्रव्यपदोपादानात्पूर्वोपरपोयानुस्यूतता सर्पस्यावेदिता, नहि उत्पन्नाकारकाले यः सर्पः स न निपतनताकारकाले अनुभवविरोधादित्याह-नहीति । एवं