________________
[३८] प्रयोगजविनाशापलापिनः सुगतस्य युक्तिजालनिरसनम। [तस्वार्थत्रिसूत्री कल्पता । अपि च भावो वस्तु परिनिष्पन्नम् , तस्य कुतः करणेनाभिसम्बन्धः ? अपूर्वोत्पादार्थत्वात् करोतेः, अथ पृष्ठं कुर्वित्युपचारः, तथापि यत् किञ्चिद् भावस्य करणम् , अभावश्चापरिनिष्पन्नमवस्थान्तररूपं वस्तु, तन्निष्पादनाय यत्नः क्रियते, तश्च नात्यन्तमसन्न सर्वथा सदित्यभावविशिष्टस्यैव वस्तुनो वस्तुत्वात् । यदप्युक्तम्-वैयर्थ्याच्च न विनाशहेतुरिति तदप्यसमीक्षिताभिधानम् , अस्मत्प्रक्रियानवगमात् । वैस्रसिकः प्रायोगिकश्च द्विधा विनाशः, तत्र प्रायोगिकः कादाचित्कत्वात् पटादिवत् सहेतुकः, न च दृष्टमपह्नोतुं शक्यं प्रमाणतः पदार्थस्वरूपावबोधात्, आत्मलाभसमनन्तरमेव च सर्वथा विनश्यन्ति पदार्था इति न किञ्चिदस्मिन्नर्थे प्रमाणमस्ति, कालान्तरावस्थायिनि च विनाशे प्रत्यक्षबुद्धेर्व्यापारः । यच्चावाचि-प्रकाशादयो लब्धात्मलाभाः प्रकाशादिस्वभावतया स्वजन्मैवापेक्षन्ते, नापरं हेत्वन्तरम् , एतदप्यसङ्गतम् , यदि प्रकाशादय उत्पन्नाः पुनरुत्पत्तौ हेत्वन्तरं नापेक्षन्त इति वाक्यार्थः ततः किं केन सङ्गतम् ? न ह्युत्पन्नः पदार्थस्तेन रूपेण पुनर्हे तुमभिलषति, लब्धात्मलाभः कालान्तरे हेतुमपेक्ष्य विनश्यतीति जागद्यामहे । ननु च स स्वहेतोरेवोत्पद्यमानस्तादृशो भवति येनोत्पत्तिसमनन्तरमेव विनश्यतीति, अयुक्तमिदम्, प्रतिज्ञामात्रत्वात्, वयमपि ब्रूमः-स स्वहेतोरेव तादृश उपजायते येन कालान्तरमवस्थाय विनश्यतीति, अत्र च पक्षे प्रत्यक्षाद्यपि प्रमाणं सहायीभवति । ननु च निष्कारणविनाशवादिनामियं युक्तिः-'नष्टा चेन्नाशविघ्नः कः ? न चेन्नैव विनव्यतिरेकाव्यतिरेकविकल्पयोरिति सुष्टक्तम्-विकल्पाभासत्वाच्चायुक्ताविति । यत्तु अभावस्य तुच्छरूपत्वात् करणमयुक्तमिति कृत्वा भावं न करोतीति व्याख्यानं तन्न समीचीनमभावस्यासद्रूपत्वाभावेन तत्करणसम्भवात् प्रत्युत भावस्यैव करणं न सम्भवतीति प्रपञ्चत उपदर्शयति-अपि चेति, परिनिष्पन्नं वस्तु भाव इत्यभिसम्बन्धः । तस्य परिनिष्पन्नस्य । परिनिष्पन्नस्य कुतो न करणेनाभिसम्बन्ध इत्यतस्तत्र हेतुमाह-अपूर्वोत्पादार्थत्वात्करोतेरिति । ननु परिनिष्पन्नेऽपि करोतेः प्रयोगो दृश्यते, यथा-पृष्ठं कुरु इत्यत्र तथा भावेऽपि परिनिष्पन्ने करोतेः प्रयोगस्सुघट इत्याह-अथेति । एवमपि भावे औपचारिकोऽयं प्रयोगो न वस्तुनियतः, अभावत्वपरिनिष्पन्नस्वरूपे यथार्थ इति अभावं करोतीति युक्त एवेत्याह-तथापीति । यत किञ्चित, औपचारिकम् । तन्निष्पादनाय अभावनिष्पादनाय । तच्च अवस्थान्तररूपमभावात्मकं वस्तु च। नात्यन्तमसदिति, तथात्वे शशशृङ्गादिवन्न प्रामाणिकव्यवहारवीथीमवतरेदिति । न सर्वथा सदिति, तथात्वे अभावरूपेणेव विधिरूपेणाप्यभाव एव स्यादिति निषेधात्मनैव सर्वस्याध्यवसितिः स्याद् , एवं पूर्वकालादिवृत्तितयाऽपि सत्त्वप्रसत्तौ निष्पन्नस्य न करणमित्यभावं करोतीत्यपि दुर्घटं प्रसज्यतेत्यादि बोध्यम् । यदि नात्यन्तमसन्न सर्वथा सदवस्थान्तररूपमभाषात्मकं वस्तु तर्हि किमात्मकं तद्वस्त्वभ्युपेयमित्यपेक्षायामाह-अभावविशिष्टस्यैवेति, अत्राभावपदमसत्त्वपरम् । वस्तुन इत्यत्र प्रकृतिभूतं वस्तुपदं सत्ताविशिष्टपरम् , तथा च सदसदात्मकस्यैव वस्तुत्वादित्यर्थः । यच्चोक्तं “वैयर्थ्याच्च न विनाशहेतुरस्ति, यस्य मावस्य विनाशाय विनाशहेतुः कल्प्यते स भावः खभावतो नश्वरः स्यान्नवा" इत्यादि तदपहस्तयति-यदप्युक्तमित्यादि। अस्मत्प्रक्रियेति, जैनप्रक्रियेत्यर्थः । जनप्रक्रियामेव दर्शयति-वैनसिक इत्यादि । प्रामाणिकी चेयं प्रक्रिया न कुयुक्तिशतैरप्यपनेया, नैतनिषेधे प्रमाणमात्मलाभमासादयति, परप्रक्रिया त्वप्रामाणिकत्वानोपादानाहेत्याशयेनाह-आत्मलाभसमनन्तरमेवेति । न तु किञ्चित्कालं स्थित्वा भावो विनश्यतीत्यत्रापि प्रमाणं नास्तीत्यत आह,-कालान्तरावस्थायिनीति, षष्ठ्यर्थे चात्र सप्तमी, षष्ठीसप्तम्योरेकार्थे बहुलं प्रयोगदर्शनात् , तथा च कालान्तरावस्थायिनश्च विनाशे इत्यर्थः, विनाशे सामानाधिकरण्येनैव कालान्तरावस्थायिनीत्यस्यान्वये वा कालान्तरेत्यस्य उत्पत्तिस्थितिकालादन्यकालः कालान्तरमित्यर्थः, तदवस्थायिनि तद्वतिनि विनाश इति व्याख्येयम् । प्रत्यक्षबद्धेापार इति. किञ्चित्कालस्थायिनो घटस्य कालान्तरे मुद्गरपाताद्विनाशे सति मुद्गरपाताद्विनष्टो घट इति प्रत्यक्षेणैव विनाशस्यानुभवात्किमतोऽपि प्रमाणान्तरमन्वेषणीयमिति भावः। खभाववादमाश्रित्य बौद्धः शङ्कते-ननु चेति । प्रतिज्ञामात्रेणापि वस्तुसिद्धौ दण्डमाह-वयमपीति, स्थिरवादिनोऽपीत्यर्थः । अत्र च पक्षे स्थिरवादिजैनाद्युपगतोक्तखभावपक्षे, दुर्दुटो बौद्धः पुनराशङ्कते-ननु च निष्कारणेति । नष्टा