SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ भाष्यटीकाविवृतियुता] सौगतविकल्पोपमर्दने पर्युदासप्रसज्यप्रतिषेधविचारः। [३७] कल्पः-स्वभावान्तरं किल क्रियते विनाशहेतुना, घटतादवस्थ्ये तु सकलघटनिष्पाद्यजलधारणादिक्रियाप्रसङ्ग इति शापदानमुदघोषि । एतच्च विकल्पद्वयं न जाने किं प्रथमतरमेव मायासूनुनोत्खातमुत्पन्नसर्वार्थज्ञानेनाहोस्विद् भिक्षुवरधर्मकीर्तिनैव स्वयमुत्प्रेक्षितमिति ?, यत् सत्यं विस्मिताः स्मोऽनया वाचोयुक्त्या-किं विनाशहेतुर्घटमेव करोति उत स्वभावान्तरमिति ?, यद् विनाशहेतुना क्रियते तदेवैकं न व्यपादेशि गलितधिषणेन; घटविनाशहेतुर्घटविनाशमेव करोति, स चोक्तोऽवस्थान्तरापत्तिलक्षणः प्रथममेव । अभावविकल्पेऽपि पर्युदासाभ्युपगमे किल विवक्षिताद् भावादन्यं भावमेव करोति, ततश्च पूर्ववद् व्यतिरेकाव्यतिरेकविकल्पानतिक्रमः, व्यतिरेकाव्यतिरेकविकल्पौ च विहितप्रतिक्रियौ प्राग विकल्पाभासत्वाच्चायुक्तौ, प्रसज्यप्रतिषेधपक्षे त्वभावं करोति-भावं न करोतीति वाक्यार्थः । तदेतदयुक्तम् , अस्मत्प्रक्रियानवबोधात् , जैनी प्रक्रिया द्रव्यपर्यायावुभौ वस्तु भावाभावस्वभावम् , न चाभावः कश्चिद् भावान्निटुंठितः सम्भवति यं विनाशहेतुः करिष्यति, न चास्ति काचित् क्रिया द्रव्यादत्यन्तव्यतिरिच्यमानस्वभावा यस्याः प्रसज्यप्रतिषेधेन निवारणा क्रियेत, द्रव्यमेव हि तथोद्भूतपरिणामं क्रियाव्यपदेशमश्नुते द्रव्यनयस्य, पर्युदासो हि विधिरूपत्वाद् द्रव्यास्तिकः, इतरः पर्यायनयः प्रतिषेधमात्रत्वात्, एतौ च परस्परापेक्षावेव च वस्तु नैककौ, ततश्च विभागाभावादसद्विप्रौढप्रज्ञः स्यान्नैवं यथाकथञ्चिदुपन्यस्येदिति । प्रथमविकल्पः, विनश्यमानभावस्वभावं कुर्यादिति पक्षः। द्वितीयविकल्प इति । एतत्स्वरूपाख्यानम्-स्वभावान्तरं किल क्रियते विनाशहेतुनेति । तत्पक्षोद्भावितदोषस्य संक्षेपेणोत्कीर्तनम्घटतादवस्थ्ये त्वित्यादि । तद्दोषस्य शापदानत्वेनोपन्यसनं निस्सारत्वख्यापनाय। उत्खातं खण्डितम् , मायासूनुना बुद्धेन । उत्पन्नसर्वार्थज्ञानेनेति । विशेषणं मायासूनोरुपहासाय-इदानीं पर्यन्तं कोऽपि बुद्धेतरो विद्वान्नेदृशं विकल्पमकार्षीदयं च कृतवानतो नूनमस्य विज्ञानं सर्वार्थविज्ञानमिति । स्वयमिति, न तु बुद्धतच्छिष्यपरम्परागतमिति । अनया उक्तविकल्पद्वयोद्भावनरूपया । का च सा वाचोयुक्तिरित्यपेक्षायां किं विनाशहेतुर्घटमेव करोति उत स्वभावान्तरमितीति । तत्स्वरूपानुवादः-गलितधिषणेनेति, गलिता पतिता धिषणा बुद्धिर्यस्य स गलितधिषणस्तेन बुद्धिशून्येन धर्मकीर्तिनेत्यर्थः । विनाशहेतुना किं क्रियते तद्भवतैव वाच्यं यदनवबोधाद्धर्मकीर्तेर्गलितधिषणत्वं जानीम इत्याक्षिप्त एवाह-घटविनाशहेतु सच घटविनाशश्च । प्रथममेवेति, उक्त इति पूर्वतनेन सम्बन्धः। तत्र यद्येवं विकल्प्यते-न विवक्षितो भावोऽभाव इत्यादिग्रन्थ एवोक्तः । अत्र बौद्धः पूर्वग्रन्थस्थदोषमेव स्मारयति-अभावविकल्पेऽपीति, अस्तु व्यतिरेकविकल्पानतिक्रमः किन्नश्छिन्नमिति । ग्रन्थकृत्समाधत्ते-व्यतिरेकाव्यतिरेकविकल्पो चेति । विहितप्रतिक्रिया दत्तोत्तरी, तथा च न पिष्टपेषणमस्माभिः करणीयं प्रेक्षाविदग्धैरिति । प्रामाणिको हि विकल्प उत्तरार्हो भवति, भवदुक्तौ च विकल्पी विकल्पाभासत्वान्नोत्तराहावित्याह-विकल्पाभासत्वाच्चायुक्ताविति । ननु पर्युदासपक्षाश्रितो विकल्पोऽस्तु विकल्पाभासः, प्रसज्यप्रतिषेधपक्षीयस्तु दोषः स्यादेव भवत इत्यत आह-प्रसज्यप्रतिषेधपक्ष इति । अत्र पक्षे नाशहेतुत्वेनाभिमतस्याहेतुत्वमकारकत्वमापादितं तत्तदा स्याद्यद्यभावोऽभाव एव स्यात्तुच्छरूपः, तस्य करणासम्भवात् भावं न करोतीत्यर्थपर्यवसानमस्माकमनुमतं स्यान्न चैवमित्याह-तदेतदयुक्तमिति, न द्रव्यं पर्यायवियुतं न पर्याया द्रव्यवर्जिता न तो भावरूपावेव नाप्यभावरूपावेव किन्तु भावाभावस्वभावं द्रव्यपर्यायात्मकमेकं वस्तु, तत्राभावांशस्यापि भावात्मकत्वेन तत्करणं नानुपपन्नं ततस्तत्कर्हेतुत्वं कारकत्वश्च घटत एवेत्यभिप्रायवान् जेनी प्रक्रियामुपदर्शयति-जैनी प्रक्रियेति ।भावं न करोतीति क्रियाप्रतिषेधोऽप्यैकान्तिको जैनप्रक्रियायां न घटत इत्याह-न चास्ति काचित्क्रियेति । द्रव्यस्वरूपता क्रियायाः के नयमाश्रित्येत्यपेक्षायामाह-द्रव्यनयस्येति । नअर्थप्ररूपणे द्रव्यनयस्य कोऽवकाश इत्यत आह-पर्यदासो हीति । द्रव्यास्तिक इति, विषयविषयिणोरभेदं विवक्षित्वेत्थमुक्तिः, शब्दार्थज्ञानानां त्रयाणामपि नयत्वमिति पक्षं वाश्रित्येत्थमभिधानम् । इतर: प्रसज्यप्रतिषेधः । एतौ द्रव्यपर्ययनयविषयौ भावाभावौ। विभागाभावात् , अभावस्य भावात्पृथक्करणासम्भवात् । असद्विकल्पतेति, विषयसद्भावे हि विकल्पः प्रवर्तते, विषयाभावे हि निर्निबन्धना विकल्पप्रवृत्तिरपि न सम्भवतीत्यसद्रिकल्पता
SR No.022537
Book TitleTattvartha Trisutri Prakashika
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year1945
Total Pages150
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy