SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ [३६] सौगतं प्रति पृच्छा, सदीय विकल्पन्त्रयोपमर्दनाय (सश्च । [ तत्त्वार्थत्रिसूत्री प्रातत्वात् । न चावश्यं सर्वेणैव हेतुमता विनष्टव्यम्, अस्मत्पक्षे स्वात्मावस्थानलक्षणस्य मोक्षस्य सम्यग्ज्ञानादिहेतुकस्याप्यविनाशाभ्युपगमात् । यद्यपि सम्यग्ज्ञानादिहेतुः कर्मक्षपणाभ्युपायस्तथापि स्वात्मावस्थानस्य कर्मक्षयरूपत्वाददोषः । विनाशवान् विनाश इति चाभ्युपयतः सौगतस्याभ्युपगमविरोधः । निष्कारण विनाशवादी चेदं प्रष्टव्यः - किं निष्कारणत्वान्नित्यो विनाशः उतासन्निति ? । तत्र यदि नित्यः, कार्योत्पादाभावप्रसङ्गः, द्वितीयविकल्पे विनाशाभावात् सर्वपदार्थानां नित्यत्वप्रसङ्गः । न चासन् सर्व एव निष्कारणः, स्तम्भकुम्भादीनामसत्त्वेऽपीतरेतरात्मना हेतुमत्त्वमस्तीत्यनेकान्तात्, यथा चानादित्वात् प्रागभावो निर्हेतुकोऽपि विनश्यत्येवं विनाशोऽसन्नपि हेतुमान् किमिति नेष्यते ? । एवं द्रव्यपर्यायात्मकप्रक्रियाप्रपञ्चे विश्वमुखे सर्वमेवैकान्तवाद्युत्प्रेक्षितमसाधनमेव जायते स्याद्वादिनं प्रति । विनाशे च सहेतुके प्रतिपादिते यदुक्तं - मुद्गरादेरसामर्थ्यं विनाशकरणं प्रति तदयुक्तम्, अस्त्येव हि सामर्थ्यं तद्भावभावितया कपालाद्युत्पत्तेः । विकल्पत्रयं च सुकुमारप्रज्ञेन प्रमाणविचारपरिक्केशासहिष्णुना यथाकथञ्चिदुपन्यस्य प्रथमविकल्पोऽतिस्थूल इत्येवोपेक्षितो मनागागतत्रपेण, तथा द्वितीयांवेअस्मत्पक्ष इति, जैनसिद्धान्त इत्यर्थः । परकल्पितात्यन्तिकदुःखनिवृत्तिरूपमोक्षस्याभावरूपत्वादेव न नाश इत्यत उक्तम्स्वात्मावस्थानलक्षणस्येति । अनेन मोक्षस्य भावरूपत्वमाविष्कृतम्, तस्य निर्हेतुकत्वादेव न नाश इति न भ्रमितव्य - मित्याह- सम्यग्ज्ञानादिहेतुकस्येति, आदिपदात्सम्यग्दर्शन चारित्रयोरुपग्रहः । ननु सम्यग्ज्ञानाद्यनन्तरं निखिलकर्मणामेव क्षयः, तस्य निखिलकर्मविगमस्य मोक्षत्वपक्षे मोक्षरूपताऽपि तत्कारणत्वात्सम्यग्ज्ञानादीनां मोक्षमार्गत्वमप्युपपद्यते, तस्य चाभावरूपत्वादेव न हेतुमता सर्वेण भावेन विनष्टव्यमिति नियमविघातकत्वमित्यत आह- यद्यपीति । सम्यग्ज्ञानादितुरिति, सम्यग्ज्ञानादिश्चासौ हेतुश्चेति कर्मधारयः, यद्यपि स्वावरणीय कर्मक्षयात्सम्यग्ज्ञानादीनामाविर्भाव इति सम्यग्ज्ञानादिकम्प्रत्येव कर्मक्षयस्य हेतुता न तु कर्मक्षयम्प्रति सम्यग्ज्ञानादेरिति कार्यकारणभाववैपरीत्यमेव, तथापि कृत्स्नकर्मक्षयलक्षण एव स न तु कतिपयज्ञानाद्यावरणक्षयः, स च सम्यग्ज्ञानाद्यनन्तरमेव सम्पद्यत इति कर्मक्षपणाभ्युपाय इत्यत्र तत्पुरुषः, न तु सम्यग्ज्ञानादिहेतुरित्यत्र तत्पुरुषः, तथा सति कर्मक्षपणहेतुना सम्यग्ज्ञानादेर्जन्यत्वमेव लभ्येत, तेन स्वात्मावस्थानलक्षणस्य मोक्षस्य सम्यग्ज्ञानहेतुकत्वं न प्रत्यादिष्टं स्यादिति यद्यपीत्युक्तेः साफल्यं न भवेदिति विभावनीयं सुधीभिः । निखिलकर्मक्षयस्य सम्यग्ज्ञानादिहेतुकस्य मोक्षत्वेऽपि खात्मावस्थानस्य मोक्षत्वमागतमेव तस्य तद्रूपत्वात्तत एव च सम्यग्ज्ञानादिहेतुक त्वमपीत्याह - तथाऽपीति । न चैवं सत्यभावरूपत्वमेवापतितमिति शख्यम्, कर्मक्षयस्य न तुच्छरूपता किन्तु खात्मावस्थानलक्षणभावरूपतैवेत्यत्रोक्तग्रन्थस्वारस्यादिति । सर्वस्य क्षणिकत्वमभ्युपगच्छता सौगतेन विनाशस्यापि विनाशोऽभ्युपेय एवेति विनाशो न विनश्यतीत्युपगमस्वाभ्युपगम विरुद्ध इत्याह - विनाशवान्विनाश इति चेति । सौगतं पुनरा स्कन्दन्नाह - निष्कारण विनाशवादीति, बौद्ध इत्यर्थः । इदं, किं निष्कारणत्वादित्यादिवक्ष्यमाणं बुद्धौ विपरिवर्त्तमानत्वात्प्रत्यक्षम् । नित्यत्वपक्षे ध्वंसस्यैव सर्वदा सत्त्वेन तत्प्रतियोगिनः कार्यस्य कदापि सत्त्वं न स्यादित्याह - कार्योत्पादाभावप्रसङ्ग इति । द्वितीय विकल्पे ध्वंसोऽसन्निति पक्षे, ध्वंसाभावे ध्वंसप्रतियोगित्वरूपानित्यत्वस्याप्यभाव इति ध्वंसप्रतियोगित्वाभावरूपनित्यत्वमेव स्यादित्यर्थः । यदसत्तन्निष्कारणकमिति व्याप्तिरपि व्यभिचारान्न सम्भवतीत्याह - न चासन्निति । इतरात्मनेति, परद्रव्यक्षेत्र कालभावात्मनेत्यर्थः । अनादित्वा दिति, न्यायादिमते खरूपत एव प्रागभावस्यानादित्वं बौद्धमते पूर्वक्षणे सन्तानत्वमेव प्रागभावत्वमिति तद्रूपेणानादित्वमिति बोध्यम् । यद्यपि सन्ततिपतितस्य पूर्वपूर्वक्षणस्य बौद्धमते सहेतुकत्वमेव, तथापि उक्तलक्षणप्रागभावत्वेन न सहेतुकत्वमिति निर्हेतुकत्वस्य तत्र नासिद्धिः । असन्नपि विध्यात्मनाऽसन्नपि । विश्वमुखे, सर्ववस्तुनि । विनाशकरणम्प्रति मुद्गरादेस्सामर्थ्यं व्यवस्थापयति- विनाशे चेति । तद्भावभावितयेति, मुद्गरादीनां निपतनादिव्यापारसद्भावे कपालादिलक्षणघटध्वंसोत्पत्तेर्भवितत्वेनेत्यर्थः, कपालाद्युत्पत्तेस्तद्भावभावितया मुद्गरादेः विनाशकरण - म्प्रति सामर्थ्यमस्त्येवेत्येवमन्वयार्थोऽत्र बोध्यः । विकल्पत्रयमिति, विनाशकरणे हि विनाशस्य त्रयी गतिः - विनश्यमानभावस्वभावं वा कुर्यादथवा स्वभावान्तरमभावं वेति ग्रन्थोक्त विकल्पत्रयमित्यर्थः, यत एव बौद्धः सुकुमारप्रज्ञोऽत एव प्रमाणविचारपरिक्लेशासहिष्णुरिति हेतुहेतुमद्भावेन व्याख्येयम् । अस्यैवोपोद्वलनाय यथाकथञ्चिदुपन्यस्येत्युपात्तम्, यद्ययं
SR No.022537
Book TitleTattvartha Trisutri Prakashika
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year1945
Total Pages150
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy