________________
भाष्यदीकाविवृतियुता] प्रायोगिकविनाशसाधने सुगतविचारापाकरणम् । तदेदयुक्तं स्वगोष्ठरमणीयं प्रकाशनमात्रत्वात् , न ह्यनुपपत्तिकमभिधीयमानं विचित्रमपि प्रतिपत्तुमुत्सहन्ते विद्वांसः, प्रकृत्यैव भकुराः सर्वभावा विनाशहेत्वयोगादित्यसिद्धता हेतोः, यस्मादयं विनाशः कदाचिदेव भवत्युपजनक्षणोत्तरकालं नोपजनक्षण एव, उपजनक्षणश्चात्मलाभकालस्तत्र विनाशाभावात् कादाचित्कत्वं विनाशस्य निर्हेतुकविनाशवादिनोऽपि प्रसिद्धम् , न लब्धात्मलाभं वस्तु विनश्यति, व्योमकुसुमादीनामपि विनाशप्रसङ्गात्, ये च कादाचित्काः पटादयस्ते प्रतिविशिष्टहेतुजन्या एव दृष्टास्तथा विवादास्पदास्कन्दी विनाशोऽपि प्रागविद्यमानः पश्चादात्मलाभहेतुमपेक्षमाण एवात्मानमासादयति । ननु चैवमभ्युपेयमाने विनाशस्यापि हेतुमत्त्वात् पटादेरिव विनाशेन भवितव्यम् , असत्त्वाञ्च निष्कारणो विनाशः खकुसुमादिवदित्यनुमानविरोधिनी प्रतिज्ञेयं-कारणवान् विनाश इति । अत्रोंच्यते-पूर्वावस्थापच्युतिरुत्तरावस्थोत्पत्तिः, उत्तरावस्थापत्तिश्च पूर्वावस्थाप्रच्युतिः, अयमेव विनाशशब्दवाच्योऽर्थो नात्यन्ताभाव इति प्राक् प्रत्यपादि प्रपञ्चेन, ततश्च विनाशस्यापि विनाश इति प्रसिद्धमेव प्रसाध्यते, विनष्टे च विनाशे पुनरवस्थान्तरोत्पत्तिक्रमवृत्त्या न किञ्चिदनिष्टमस्ति स्याद्वादप्रक्रियायाम् , अत एव चासत्त्वान्निष्कारणो विनाश इत्येतदप्यपास्तमेव, असत्त्वस्यासिद्धतादिदोषाक्षणिकत्वेनैव व्याप्तेरित्यभिसन्धिः । एतावता बौद्धमतमुपपाद्य तत्प्रतिक्षिपति-तदेतदयुक्तमित्यादिना । विनाशहेत्वयोगादित्यसिद्धताहेतोरित्यत्र विनाशहेत्वयोगादिति हेतोरसिद्धतेत्येवं योगः। तत्र हेतुमाह-यस्मादिति । उपजनेति, उत्पत्तीत्यर्थः । कथं नोपजनक्षण एव विनाश इत्यपेक्षायामाह-उपजनक्षणश्चेति । आत्मलाभकाल इति, आत्मनो वस्तुस्वरूपस्य लाभः सत्त्वप्राप्तियस्मिन्स आत्मलाभः तादृशश्चासौ कालश्चेति आत्मलाभकालः, आद्यक्षणसम्बन्ध इति यावत् । तत्र उत्पत्तिक्षणे एवं सति तस्मिन्क्षणेऽसतो विनाशस्योत्तरकाले सत्त्वात्किञ्चित्कालासत्त्वे सति किञ्चित्कालसत्त्वरूपं कादाचित्कत्वं सिद्धं, ततश्च सहेतुकत्वमपि सियति उत्पत्तौ तस्य हेतुमत्त्वेन सहाविनाभावस्य गृहीतत्वात् । न च प्रागभावे व्यभिचारः, तस्य जैनमते पूर्वायरूपतयैव स्वीकारेण तत्र सहेतुकत्वस्य सद्भावात् पूर्वपूर्वपर्यायात्मकप्रवाहस्यानादिकालतयैव तदात्मत्वमाश्रित्य तत्रानादित्वव्यवहारात् , क्षणिकवादिनस्तवापि पूर्वपूर्वक्षणस्यैवोत्तरोत्तरक्षणप्रागभावतयाऽभ्युपगम इति तस्य खकारणजन्यत्वमस्त्येव, येषां चानादिस्सान्तः प्रागभावस्तन्मताश्रयणेन तत्र व्यभिचारस्तु पूर्वकालावृत्तित्वे सति उत्तरकालवृत्तित्वरूपता कादाचित्कत्वस्य खीकृत्य परिहरणीय इत्याशयेनाह-कादाचित्कत्वं विनाशस्येति । अनुत्पन्नस्यैव विनाशाभ्युपगमोऽनुभवबाधित इति तस्य पूर्वकालेऽसत्त्वमावश्यकमित्याह-नालब्धात्मलाभमिति । कादाचित्कत्वस्य सहेतुकत्वेन सहाविनाभावग्राहकमुदाहरणमुपदर्शयति-यञ्चेति । उपनयमुपदर्शयति-तथेति, यद्धि हेतुमत्तद्विनाशप्रतियोगीतिव्याप्तेविनाशस्य हेतुमत्त्वे विनाशित्वप्रसङ्गः, न चैवमभ्युपगन्तुं शक्यः, तथा सति विनाशस्य विनाशे प्रतियोग्युन्मजनप्रसङ्गः। एवं ध्वंसः सहेतुकः कादाचित्कत्वादित्यनुमानं ध्वंसो निष्कारणकोऽसत्त्वात् खपुष्पवदित्यनुमानबाधितमिति परः शङ्कते-नन्वित्यादिना । अनुमानविरोधिनी, अनुमानं विरोधि बाधकं यस्या इति व्युत्पत्त्याऽनुमानबाधितेत्यर्थः। कारणवान् विनाश इति प्रतिज्ञाखरूपकथनम् । विनाशस्यापि विनाशोऽभ्युपगम्यत एवं प्रतियोग्युन्मजनदोष उत्तरोत्तरपर्यायाणामशेषाणामेव पूर्वपूर्वपर्यायविनाशरूपत्वेनैकपर्यायरूपविनाशविनाशेऽप्युत्तरपर्यायरूपविनाशसद्भावात् , उत्तरपर्यायस्य भावरूपतया सत्त्वेन नासत्त्वं विनाशस्येति नानुमानबाधापीत्याशयेन समाधत्ते-अत्रोच्यत इति । नात्यन्ताभावः, न तुच्छरूपो ध्वंसः। प्रतियोग्युन्मजनप्रसङ्गस्यापि नावतार इत्याशयेनाह-विनष्टे चेति । क्रमवृत्त्या प्रवाहानुवृत्त्या । किश्चित् प्रतियोग्युन्मजनादि । न चैवं ध्वंसस्यानन्तत्वमिति लोकप्रसिद्धिर्भज्येतेत्यत आह-स्याद्वादप्रक्रियायामिति, नहि सर्वथा कस्यचित्सान्तत्वमनन्तत्वम्वा सम्भवति किन्तु कथञ्चिदेव, कथञ्चिदनन्तत्वं च व्यक्त्यपेक्षया सान्तत्वेऽपि उत्तरोत्तरप्रवाहात्मनाऽस्त्वेवेति न किञ्चिदनुपपन्नम् । असत्त्वहेतोरसिद्धत्वादेव निष्कारणत्वानुमानं परस्य न प्रवर्तत इत्याह-अत एवेति, ध्वंसस्योत्तरपर्यायात्मकभावरूपत्वादेव । न चोत्पत्तिमतो भावस्य विनाश इति नियमो नैयायिकादिपरिकल्पितोऽस्माभिरभ्युपगम्यते येन तस्यानन्तत्वान्यथानुपपत्त्याऽभावरूपताऽऽश्रीयेतापीत्याह-न चावश्यमिति । सर्वेणैवेत्यनन्तरं भावेनेति द्रष्टव्यम् । निषेधे हेतुमाह