________________
[३४] प्रायोगिकविनाशापलापिनो बौद्धस्य युक्तिजालम् । [तत्त्वार्थत्रिसूत्री वृत्तत्वान्न तथोपलब्ध्यादिप्रसङ्ग इति, उच्यते-न स्वभावान्तरं कपालादिकं विनाशहेतुना क्रियमाणमस्यानित्यस्य घटादेरावरणं युज्यते, कृतेऽपि तस्मिन् कपालादिके विनाशहेतुना घटे च तदवस्थ एव दृश्यात्मनि कुतस्त्य आवरणसम्भवः ?, न चैकत्रैकदा युज्यते दर्शनादर्शने विरुद्धत्वात् । नापि विनाशहेतुना तृतीयपक्षापतितो भावाभावः क्रियते, तत्र यद्येवं विकल्प्यते-न विवक्षितो भावः अभाव इति, ततोऽन्यः स्याद् भाव एव, एवं चाभावस्य विधिना पर्युदासरूपेण कार्यत्वाभ्युपगमे व्यतिरेकाव्यतिरेकविकल्पानतिक्रमः सम्भाव्यते-यदि व्यतिरिक्तमन्यं भावं करोति ततस्तथोपलब्ध्यादिप्रसङ्गस्तदवस्थः, अथाव्यतिरिक्तं तमेव भावं करोतीति, तदप्ययुक्तम् , तस्य प्रथमतरमेव स्वकारणैर्निर्वर्तितत्वात् ॥ अथ क्रियाप्रतिषेधमात्रमालम्ब्यते, एवं सति अभावस्य भावप्रतिषेधरूपत्वेऽभ्युपेयमाने अभावं करोतीत्यसमर्थसमासेनोक्तं भावं न करोतीत्ययमर्थः सम्पयेत, तथा च सति अकर्तु शहेत्वभिमतस्याहेतुत्वमकारकत्वमिति न विनाशहेतुर्नाम कश्चन सम्भवत्यन्यत्र विनष्टुस्तद्धर्मताया इत्युपसंहारः, वैयर्थ्याच्च न विनाशहेतुरस्ति, यस्य भावस्य विनाशाय विनाशहेतुः कल्प्यते स भावः स्वभावतो नश्वरः स्यान्नवा ?, यदि नश्वरः स्वभावत एव भावस्तन्न किञ्चिद्विनाशहेतुनाऽस्य प्रयोजनम् , स्वयं तत्स्वभावतयैव नाशात् , यस्य हि घटादेर्यः स्वभावः स स्वहेतोरेव मृदादिसामग्र्यादिकादुपजायमानस्तादृशो विनाशस्वभावो भवति, न जातुचिद् विनाशे हेत्वन्तरमपेक्षते मुद्गरादिकम् , तत्स्वभावो ह्यात्मलाभानन्तरं स्वयमेव भवत्यन्यथा तत्स्वभाव एव न स्यात् , यश्च यत्स्वभावः स स्वनिष्पत्तिहेतुमपहाय हेत्वन्तरं नापेक्षते प्रकाशादिवत् , प्रकाशादयो हि प्रकाशादिस्वभावाः स्वहेतोरुत्पन्नाः सन्तः पुनरुत्पत्तेः पश्चात् प्रकाशादिस्वभावतायां स्वजन्मव्यतिरिक्तं न हेत्वन्तरमपेक्षन्ते ॥ अथ नैव स्वभावतो नश्यति भाव उत्पन्नः, ततः पश्चादपि न नश्येदनश्वरस्वभावत्वात् , न च तादृशोऽर्थक्रियासु सामर्थ्य सम्भाव्यते । पलब्धीत्यर्थः । बौद्ध उक्ताशङ्कां प्रतिक्षिपति-उच्यत इत्यादिना । विनाशस्याभावरूपतारूपतृतीयपक्षमपाकरोति-नापि विनाशहेतुनेति, भावो विधिरूपो न कारणसहस्रेणाभावीभवितुमर्हतीति खण्डनाभिप्रायः, विनाशोऽभाव इत्यस्य न भावोऽभाव इति व्युत्पत्तौ भावपदं विवक्षितभावपरं नञश्च न प्रसज्यरूपत्वं किन्तु पर्युदासरूपत्वमित्यभिप्रायेणाह-तत्रेति, अभावपदे इत्यर्थः । ततो विवक्षितभावात् । व्यतिरेकाव्यतिरेकेति, विवक्षितप्रतियोगिस्वरूपभावव्यतिरिक्तः स भावः, तदव्यतिरिक्तो वा स भाव इति विकल्पानतिक्रम इत्यर्थः । भवतूक्तविकल्पानतिक्रमस्तत्र को दोष इत्यत आह-यदीति । तमेव प्रतियोगितयाऽभिमतं घटमेव । तस्य घटस्य प्रथमतरमेव मुद्गरपातात्पूर्वमेव । तृतीयपक्षेऽभावपदे नञः प्रसज्यरूपत्वमेवेत्यभिप्रेत्याह-अथेति,
“पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ् । प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र नञ् ॥१॥" इति वचनान्ननः प्रसज्यरूपत्वे अभाव इत्यस्य भावो न भवतीत्येवंखरूपता स्यात् , प्रसज्यार्थकस्य नमोऽसमर्थत्वेन 'समर्थः पदविधिः' इत्यनुमोदितसमासस्वरूपघटकता न स्यादेवेत्यभ्युपगममात्रेणासमर्थस्यापि तस्य समास इत्यभिसन्धायोक्तम्-असमर्थसमासेनेति । यद्यपि “अमानोनाः प्रतिषेधवचना" इति वचनादभावं करोतीत्यत्राकारः समासानिविष्टोऽपि सम्भवति, तथापि तस्य प्रयोगो न प्राय उपलभ्यत इति बोध्यम् । तथा च सति, भावं न करोतीत्यर्थे च सति । न विनाशहेतुरिति, विनस्तद्धर्मताया अन्यत्र कश्चन विनाशहेतुर्न सम्भवतीति योगः, विनष्टविनशनशीलस्य, तद्धर्मताया अन्यत्र विनश्वरखभावतां विहाय । वैयर्थ्याच्चेत्युक्तं तदेवोपपादयति-यस्येत्यादिना । अस्य विनश्वरखभावस्य भावस्य, तत्स्वभावतयैव विनश्वरस्वभावतयैव । पूर्वोक्तमेव प्रपञ्चयति-यस्य हीत्यादिना । प्रकाशादिवदिति, एतदृष्टान्तोपपादनायाह-प्रकाशादयो हीति । ननु भाषस्य विनश्वरस्वभावतैव नास्माभिरङ्गीक्रियते तत्राह-अथेति । तादृशोऽनश्वरखभावस्य, अक्षणिकस्येति यावत्, अर्थक्रियाकारित्वलक्षणस्य सत्त्वस्य निये प्रसङ्गविपर्ययाभ्यां क्रमयोगपद्यरूपव्यापकनिवृत्त्या