________________
भाष्यटीकाविवृतियुता] अर्थान्तरगतिरूपनाशः, प्रायोगिकनाशलोपे बौद्धस्य युक्तिजालम् । [३३] स्तदुपयोगविनाशे पटोपयोगोऽर्थान्तरभावगमनम् , अण्वादेश्च शुक्लवर्णविनाशे कृष्णतयोत्पादो विनाशः, तथाऽऽकाशादीनां पूर्वावगाहगतिस्थितिविनाशेऽवगाहान्तराद्यर्थान्तरभावलक्षणो विनाशः, अत एव भावान्तरोत्पत्तितो न विगमो विगम एवैकान्तेन, नाप्युत्पाद एवोत्पादः। इत्थमुत्पादविगमौ तत्त्वेनानेकान्तात्मकेन निरूपितावन्वयांशापेक्षावेवात्मलाभं प्रतिपद्येते प्रायोगिकस्वाभाविको नान्यथा, इत्येवमुक्ते कश्चिन्मृषाभिमानी महामोह निबिडवृद्धबुद्धविप्रलब्धबुद्धिराचक्षीत-अस्तु स्वाभाविक एव विनाशो निर्हेतुकः, प्रायोगिकस्तु नोपपद्यते विनाशहेत्वयोगात् , विनश्यतां हि घटादीनां विनाशस्य हेतुर्न युज्यते, यस्मात् स्वरूपत एव भावा नश्वराः स्वहेतुभ्यो यथास्वमुपजायमाना भङ्गुरप्रकृतय उपजनक्षणानन्तरकालानवस्थानास्त एव जायन्ते, नैषां स्वकारणसामग्रीतः प्रतिलब्धात्मनां सतां प्रकृतिभङ्गुरभावमपहायान्यस्मान्मुद्गरादेः कारणविशेषान्नाशस्य वस्तुन इवोत्पत्तिः, न चेदं स्वप्रक्रियाप्रकाशमात्रम् , किं तर्हि ? उपपत्त्या निभाल्यते-विनाशहेतुत्वेनाभिमतस्य नाशकारणं प्रति मुद्गरादेरसामर्थ्यम् , कथं पुनरसामर्थ्यमिति ?, उच्यते, विनाशकरणे हि विनाशस्य त्रयी गतिः-विनश्यमानभावस्वभावं वा कुर्यादथवा स्वभावान्तरमभावं वा, तत्राव्यतिरेकपक्षस्तावदतिस्थूल एव, नहि विनाशहेतुर्मुद्गरादिः घटादिकं भावस्वभावमेव करोति, स्वकारणेभ्य एव कुलालादिभ्यस्तस्य प्रथममेव निवृत्तत्वात् , निष्पन्नस्य चाकिञ्चित्कार्यत्वात् , नापि स्वभावान्तरे कर्तव्ये तदवस्थस्य घटादेरविचलस्य विनशितुर्विकारोऽपि सम्भाव्यते, कुत एव तत्स्वभावप्रच्युतिः ?, तदवस्थश्च घटः पूर्ववदुपलभ्येत, अर्थक्रियां जलहरणादिकां कुर्वीत ॥ ननु चानित्याद् घटादेरर्थान्तरं कपालाद्येव विनाशस्तेन च विनाशहेतुनिष्पादितेन भावस्यात्मन इत्यादिना जीवस्यार्थान्तरभावगमनलक्षणं विनाशं स्पष्टीकृतवान् । तदुपयोगेति, घटोपयोगेत्यर्थः । अण्वादेश्वेत्यादिना पुद्गलस्य तथाभूतं विनाशमाह । व्योमादीनां तमुदाहरति-तथाऽऽकाशादीनामिति । पूर्वावगाहेति, पूर्वावगाहविनाशेऽवगाहान्तरतयोत्पाद आकाशस्य विनाशः, पूर्वगतिविनाशे गत्यन्तरतयोत्पादो धर्मस्य विनाशः। पूर्वस्थितिविनाशे स्थित्यन्तरतयोत्पादोऽधर्मस्य विनाशः, सोऽयमर्थान्तरभावगमनलक्षणो विनाशः। अत एवेति, अत एवोत्पादविनाशयोरन्योन्यस्वरूपत्वं तत एवेत्यर्थः।न विगमो विगम एवैकान्तेनेति, विगम एकान्तेन न विगमरूप एव किन्तूत्पादरूपोऽपीत्यर्थः । नाप्युत्पाद एवोत्पाद इति, उत्पाद एकान्तेनोत्पाद एव न किन्तु विनाशरूपोऽपीत्यर्थः । अत्र प्रायोगिकविनाशसमर्थनाय प्रायोगिकविनाशापलापिनं बौद्धं पराभवितुं तत्पूर्वपक्षावकाशदानाय भूमिकामाह-इत्थमुत्पादविगमाविति, अन्वयांशापेक्षौ ध्रौव्यसमन्वितौ । विनाशस्य खाभाविकत्वं निर्हेतुकत्वतस्सियतीत्यभिसंधानेन निर्हेतुक इत्युपात्तम् । प्रायोगिकस्त्विति, पुरुषव्यापारजन्यो विनाशः पुनरित्यर्थः । विनाशहेत्वयोगादिति यदुक्तं तस्यैवोपपादनायाहविनश्यतां हीति । भकुरप्रकृतयः, विनश्वरस्वभावाः । उपजनक्षणेति, उत्पत्तिक्षणेत्यर्थः, त एवेति, स्थाने तत एवेति पाठो युक्तः, तत एवेति, खहेतुभ्य एवेत्यर्थः। नैषामिति, नमोनाशस्योत्पत्तिरित्यनेन सम्बन्धः, एषां भावानाम्। कथम्भूतानामेषामित्यपेक्षायामाह-स्वकारणेत्यादि । प्रकृतिभङ्गुरभावमिति, प्रकृतिः स्वभावभूतो यो भकुरभावो विनश्वरत्वं तमित्यर्थः । वस्तुन इवेति, व्यतिरेकदृष्टान्तः, वस्तुन उत्पादे कारणस्य बौद्धैरप्यभ्युपगमात् । वाङ्मात्रत्वान्न परीक्षकाणां मानाहमित्थं बौद्धस्य विनाशकारणापलपनमिति न चेतसि. निधेयमित्याह-न चेदमिति । त्रयी गतिरिति, ध्वंसस्य विनश्यमानभावखभावत्वं स्वभावान्तरत्वमभावरूपत्वञ्चेति भेदात्प्रकारत्रयमित्यर्थः । एतदेवाह-विनश्यमानेति । तत्र तेषु प्रकारेषु । अव्यतिरेकपक्षः, विनाशस्य विनश्यमानस्वभावतापक्षः, तत्पक्षस्य विनाशतत्प्रा मवलम्ब्यैव प्रवृत्तेः । तस्य घटादेः, प्रथममेव मुद्रपातात्प्रागेव, निवृत्तत्वात् सम्पन्नत्वात् । विनाशस्य स्वभावान्तर
घटस्य पूर्ववदवस्थाने को दोष इत्यत आह-तदवस्थश्चेति । एवंवादिनं बौद्धं प्रति.प्रतिवादी. तद्दोषपरिहारमाशङ्कते-नन्विति । तेन च, कपालादिना च, भावस्य घटादेःतथोपलब्धीति, पूर्ववदु
त. त्रि. ५