SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ [३२] उत्पादविनाशयोरविनाभावः, अर्थान्तरगमनरूपविनाशश्च । [तत्त्वार्थत्रिसूत्री क्वचिद् देशेऽवगाहस्य तद्देशावगाहविनाशे देशान्तरावगाहोत्पादः; तथाऽऽत्मनः केनचिदुपयोगेनोपयुक्तस्य तदुपयोगविनाशादुपयोगान्तरेणोत्पादः; पुद्गलद्रव्यस्यापि वर्णान्तरेण प्राक् परिणतस्यापि सविनाशे वर्णान्तरेणोत्पादः; स चैषां पूर्वावस्थाविनाशः समवस्थानान्तरस्योत्पादसंज्ञकस्याभिव्यक्तिकारणम् , समवस्थानान्तरमेव हि तिरोभूतं विनाश उच्यते, नहि तत्र किश्चिद् विद्यमानमभावीभूतमतो द्रव्यात्मस्थिततायामेवोत्पतनव्यक्त्यर्थं सर्पनिपतनविनाशवद्, उत्पतनव्यक्तये सर्पस्य निपतनमेव विनाशः, तस्माद् द्रव्यस्वतत्त्वोत्पादाविनाभूत एव विगमः, नार्थान्तरम् , यथा पटे तन्तूनां विभागेन पटकार्योत्पत्तावविनष्टं तन्तुद्रव्यं, तदेव प्रत्यक्षीक्रियते यत् तेन पृथक् तन्तुभावेन प्राग् नासीत् , एवं समुदायविभागमात्रं विनाशः। तथाऽर्थान्तरभावगमनमन्यो विनाशः, यदा मनुष्यजन्मन्यात्मपुद्गलसमुदायो विनश्यति तदाऽर्थान्तरभूतेन देवत्वादिना वर्तते नात्यन्ताभावतया, यथाऽर्हद्दत्तस्य स्थात. क्रियाविशिष्टस्य तक्रियाविनाशे गन्तृतयोत्पादोऽर्थान्तरगमनं विनाशः, यथा वा घटोपयुक्तस्यात्मनपीति । आत्मनस्तमावेदयति-तथात्मन इति । पुद्गले तं सङ्घटयति-पुदलद्रव्यस्यापीति । उत्पादविनाशयोरभेदेऽप्युपादाभिव्यक्त्योत्पादस्याभेदमुपचर्य तत्लारणस्य विनाशस्योत्पादकारणत्वमुपचर्य पञ्चमीप्रयोग उपपद्यते इत्यभिप्रायेण पञ्चमीप्रयोगसमर्थनायाह-स चैषामिति, स च स्वाभाविकः समुदायविभागलक्षणो विनाशश्च । एषां धर्मादिद्रव्याणाम् । पूर्वावस्थाविनाशः, अधोगतिपरिणाम विशेषादिनाशः । समवस्थानान्तरस्य ऊर्ध्वगतिपरिणामादेः । अभिव्यक्तिकारणं प्राकट्यप्रयोजकम् । तत्किमुत्तरावस्थाविर्भावसमये पूर्वपरिणामावस्था नास्त्येव ? नेत्याह-समवस्थानान्तरमेव हीति, पूर्वपरिणामाख्यावस्थान्तरमेव यत उत्तरपरिणामाविर्भावसमये तिरोभूतं विनाश इति गीयते । एवञ्च स्वमेव विभूतावस्थं स्वस्योत्पादः खमेव तिरोभूतावस्थं स्वस्य विनाश इति कृत्वैकस्यैवाविर्भावतिरोभावरूपापेक्षानिमित्तभेदेनोत्पादविनाशरूपत्वं सुदृढनिरूढम् । तत्र च यदैवोत्तरस्योत्पादाभिव्यक्तिस्तदैव पूर्वावस्थायास्तिरोभाव इति समसमयत्वात्कथं कार्यकारणभाव इति न चोदनीयम् , पूर्वोत्तरपर्यायानुगतस्य द्रव्यस्यैव परिणामित्वेन कारणत्वम् , तदभेदाच विनाशस्यापि कारणत्वमेवमुत्तरपर्यायोत्पादोऽपि पूर्वपर्यायविनाशे निमित्ततामनुभवति । अत एव द्विविधोऽप्यनुभवो व्यवहारवीथीमवतरति, उत्तरोत्तरपर्यायात्पूर्वपूर्वपर्यायमाश इति पूर्वपूर्वपर्यायनाशे सति उत्तरोत्तरपर्यायोत्पाद इति च । पूर्वपरिणामस्य तिरोभूतावस्थोत्तरपर्यायरूपैव, अव. स्थाम्प्रति अवस्थातुः कारणत्वेनोत्तरपर्यायम्प्रति पूर्वपर्यायस्य कारणत्वम् , अभिव्यक्तेरप्यभिव्यक्तिमतोऽभिन्नत्वेन ताम्प्रत्यपि कारणत्वम् , सर्वथा कार्यकालेऽसतो न कारणत्वमिति द्रव्यरूपेण पूर्वपरिणामस्योत्तरपरिणामकाले सत्त्वमप्युपेयम् , सर्बथाऽसतः शशशृङ्गादेरिवोत्पादासम्भवादुत्तरपर्यायस्यापि द्रव्यरूपेण पूर्वपर्यायकाले सत्त्वमिति पूर्वोत्तरपर्याययोः कार्यकारणभावानुरोधेनापि द्रव्यरूपेणावस्थितिरावश्यकीति ध्रौव्यमुत्पादव्ययानुगतं समस्त्येवेति तदेतत्सर्वमभिप्रेत्याह-नहीति । तत्र, विनाशसमये। किञ्चित्पूर्वपरिणामादिकम् । विद्यमानं पूर्वसमये विद्यमानमपि । अभावीभूतं तुच्छरूपं सम्पन्नम् , तथा सति तस्य तम्प्रति कारणत्वमेव न निर्वहेदित्यभिसन्धिः । उपसंहरति-अत इति । द्रव्यात्मस्थिततायामेव द्रव्यरूपेणावस्थितौ सत्यामेव । उत्पतनव्यत्त्यर्थ सर्पनिपतनविनाशवदिति । एतदेव स्पष्टयति-उत्पतनव्यक्तय इति, निपत्योत्पतति सर्प इत्येवं सर्पस्य स्वभावो लोकप्रसिद्ध इति दृष्टान्तस्य नासिद्धता । प्रकृते समुदायविभागलक्षणं विनाशं निगमयति-तस्मादिति । यथेति, अत्रोदाहरणे शततन्तुकपटात्रिचतुरादितन्तुविश्लेषे सति खण्डपटरूपकार्योत्पादो महापटनाशाजायत इति स खण्डपटोत्पादो महापटनाशस्तथा पृथग्भूतास्तन्तवोऽपि महापटनाशः, तत्र पृथग्मूतास्तन्तव एवापृथग्भूततन्तुरूपपूर्वपरिणामविनाशात्तथोत्पन्ना अपि तन्त्वात्मनावस्थिता एवेति । प्रायोगिकस्तु समुदायविभागलक्षणविनाशः पुद्गलद्रव्ये सम्भवन्नपि धर्मादिद्रव्ये न सम्भवतीति तमिदानीमनिरूप्यैवार्थान्तरभावगमनलक्षणं विनाशं निरूपयितुमाह-तथाऽर्थान्तरभावगमनमन्यो विनाश इति। अन्यः समुदायविभागलक्षणविनाशाद्भिन्नः। उक्तविनाशस्थलमुदाहरति-यदेति। मनुष्यादेनं केवलात्मरूपत्वं नापि केवलपुद्गलरूपत्वं किन्त्वन्योन्यानुविद्धतदुभयरूपत्वमित्यनुसन्धायोक्तम्-आत्मपुदलसमुदाय इति । नात्यन्ताभावरूपतया न भावातिरिक्ततुच्छाभावखरूपतया, तेनातिरिक्तध्वंसाभ्युपगमवादिनोऽपि ध्वंसस्यात्यन्ताभावरूपत्वानभ्युपगमेऽपि नासङ्गतिः। अहहत्तस्येति, अर्हद्दत्ताभिधानस्य कस्यचित्पुंस इत्यर्थः । समुदायात्मनोऽर्थान्तरभावगमनलक्षणं विनाशमुदाहृत्य जीवादीनां प्रत्येकं तमुदाहरति-यथा वेत्यादिना। घटोपयुक्तस्या
SR No.022537
Book TitleTattvartha Trisutri Prakashika
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year1945
Total Pages150
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy