________________
भाष्यटीकाविवृतियुता] धर्मादित्रये पारमार्थिकोत्पादव्ययोपवर्णनम् , विनाशभेदाश्च । [३१] एवं सति ध्रौव्यमेवाकाशादिष्ववशिष्यते, न च ध्रौव्यं परमार्थरूपोत्पादविनाशशून्यम् , अपि चआकाशादिधौव्यं पारमार्थिकानुपचरितोत्पादविनाशसम्बन्धि ध्रुवत्वात् पुद्गलजीवध्रुवत्ववत् । अथ व्यवहार उपचारः; तथापि स व्यवहार आगमपूर्वको वा स्यालोकप्रसिद्धिपूर्वको वा ?, तद् यदि तावदागमपूर्वकस्ततो भगवताऽऽख्यातं जगत्स्वरूपं प्रश्नत्रितयेनोत्पादादिना, न च कचिदुपचारेण कचित् परमार्थत इत्यनागममाकाशादौ ध्रौव्यमेवेति; लोकप्रसिद्ध्यङ्गीकरणे धर्मादिद्रव्याप्रसिद्धिरेव कुतस्तदाश्रयावुत्पादविनाशाविति दूरापास्तं धर्मादिद्रव्यध्रौव्यम् । एवमुत्पादव्ययध्रौव्ययुक्तं सत्सर्वमिति व्यवस्थितं लक्षणम् ॥
एवमुत्पादमभिधाय सप्रपञ्चमधुना विनाशविचारः क्रियते । विनाशोऽपि द्विविधः-समुदायविभागमात्रमर्थान्तरभावगमनं च, तत्र समुदायविभागलक्षणो द्विधा-स्वाभाविकः प्रायोगिकश्च, खाभाविको जीवव्यापारनिरपेक्षः, प्रायोगिकस्त्वात्मव्यापारादुपजातः । तत्र स्वाभाविको धर्माधर्माकाशजीवपुद्गलद्रव्याणां द्रव्यात्मनाऽवस्थितानामेव, यथा-तेरधोगतिपरिणामविशेषनाशादूर्ध्वगतिपरिणामेनोत्पादः, तथा कचिद् देशेऽवस्थितस्य तद्देशावस्थानविनाशेऽन्यदेशावस्थानोत्पादः, खस्यापि नास्त्येव सम्भव इति औपचारिकोत्पादव्ययाभ्युपगमे आकाशादौ ध्रौव्येऽपि जलाञ्जलिरेव वितीर्णा स्यात्तथा च शशशृङ्गकल्पतेव तेषां स्यादित्याशयेन समाधत्ते-तदयक्तमिति । एवं सति उत्पादव्यययोराकाशादावलीकत्वे सति । ननु पुद्गलजीवध्रुवत्वस्योत्पादव्ययसाहचर्येऽनुभवप्रमाणसद्भावेन वास्तविकोत्पादव्ययसाहचर्यसम्भवेऽपि आकाशादिध्रौव्ये तत्साहचर्यसाधकप्रमाणाभावात् कथं तस्य तत्त्वं श्रद्धयमित्यगत्या स्याद्वादस्य तदव्यापित्वमेवास्थेयमित्यत आह-अपि चेति, तथा च तत्राप्यनुमानं प्रमाणमस्त्येवेति भावः । ननूपचारस्य नालीकत्वमर्थः, किन्तु व्यवहार एव, तत्र नोक्तदोषावसर इत्यत आह-अथ व्यवहार उपचार इति । प्रश्नत्रितयेनेति, 'उप्पेइ वा विगमेइ वा धुवेइ वा' इति प्रश्नत्रितयेनेत्यर्थः । तत्र यादृश उत्पादस्तादृश एव विनाशस्तादृशमेव च ध्रौव्यं महावीरागमबोधितमिति पारमार्थिकध्रौव्यस्य पारमार्थिकोत्पादव्ययसमन्वितत्वमेवेति केवलध्रौव्यस्याकाशादिगतस्यानागमिकत्वेनासम्भव एवेति लोकप्रसिद्धिपूर्वकव्यवहाररूपोपचारपक्षमपाकर्तुमाह-लोकप्रसियङ्गीकरण इति, नहि धर्मादिद्रव्याणां लोकसिद्धत्वं प्रत्यक्षप्रमाणसिद्धस्य तत्पूर्वकानुमानादिसिद्धस्य वा लोकसिद्धत्वेन धर्मादीनामस्मदादिप्रत्यक्षाविषयत्वेन तदसम्भवात् , तथा च धर्मादीनां लोकसिद्धत्वाभावे तदाश्रितोत्पादव्यययोर्लोकप्रसिद्धिपूर्वकव्यवहारविषयत्वस्य दूरापास्तत्वेन तदविनाभाविध्रौव्यमपि दुरापास्तमेवेति भावः ॥ धर्मादीनामपि उत्पादव्यवस्थितौ तदविनाभूतव्ययध्रौव्यव्यवस्थित्या सर्वस्य वस्तुनलक्षण्यमुपपन्नमित्युपसंहरति-एवमिति । विनाशविचारमवतारयितुमाह-एवमुत्पा. दमभिधायेति । खाभाविकस्य समुदायविभागलक्षणस्य विनाशस्य क्रमेण धर्मादिषु सङ्घटनामुपदर्शयति-यथा गतेरिति । एतेनाधोगतिपरिणामविशेषनाशो धर्मास्तिकायस्य तादृशविशेषपरिणामात्मना नाशः, सच पूर्वमधोदेशावच्छिन्नगमनकर्तृजीवपुद्गलस्यो देशगमने सति भवति, एवञ्चाधोदेशे यद्गन्तृजीवपुद्गलधर्मसमुदायः पूर्वमभवत् तस्य विभाग एव जात इति कृत्वा स विनाशस्समुदायविभागलक्षणोऽभिधीयते, तस्य च नैकान्तिकविनाशरूपत्वं तस्य तुच्छरूपत्वेन शशशृङ्गकल्पतैव स्यादत ऊर्द्धगतिपरिणामेनोत्पाद एव धर्मास्तिकायस्याधोगतिपरिणाम विशेषात्मना नाश इत्युत्पादाविनाभूतत्वं विनाशस्येत्यावेदयितुमुकम्-गतेरधोगतिपरिणामविशेषनाशादूर्ध्वगतिपरिणामेनोत्पाद इति, गत्युपग्राहकस्य धर्मस्य गत्यभिन्नत्वमवलम्ब्येयमुक्तिः, अन्यथा गतेरेवोत्पादविनाशावावेदितौ स्यातां न धर्मास्तिकस्येति । ऊर्ध्वाधोगत्योः परिणामत्वोक्त्या तदनुगामिनो द्रव्यस्य परिणामित्वमावेदितम्भवतीति द्रव्यात्मनावस्थितत्वमप्यार्थात्प्राप्तमेवेति ध्रौव्याविनाभूतत्वमपि विनाशस्य सूचितम् । विमाशोत्पादयोस्समकालत्वेऽपि व्यावहारिक प्रयोजकभावमाश्रित्य पञ्चमी विभक्तिः, दृष्टञ्च समकालयोरपि कारणाभावकार्याभावयोः प्रयोज्य प्रयोजकभावं परिकल्प्य कारणाभावात् कार्याभाव इति व्यवहारः । एवं विनाशस्योत्पादाभिन्नत्वेऽपि कथञ्चिद्भेदविवक्षया तथोक्तिः, यथा घटज्ञानाबटसिद्धिरित्यादीति, एवमग्रेऽपि बोध्यम् । अधर्मास्तिकाये विनाशसङ्घटनामावेवि-तथा कचिद्देशेऽवस्थितस्येति, भानना पूर्व दिशा बोध्या । आकाशे विनाशस्योत्पादाविनाभावं प्रकटयति-खस्या