________________
अवगाहादीनामाकाशाहीनाञ्चानित्यत्वोपपादनम् । [ तत्वार्थत्रिसूत्री
sarsafter एव गुणत्वात् पत्रनीलतावत्, नभसोऽवगाहत्वलक्षणमुपकारः, स चावगाडारमन्तरेण जीवं पुद्गलं वा नाभिव्यज्यत इति अवगाढजीवादिसंयोगमात्रमवगाह इति सिद्धम्, संयोगश्चोत्पादी संयुज्यमानवस्तुजन्यत्यात् द्व्यङ्गुलसंयोगवत्, यथा चावगाह आकाशस्यैवं गतिस्थित्युपयोग - रूपादयो गतिमदादिद्रव्यसंयोगमात्रत्वादुत्पादादिस्वभाषा इति सर्वेऽप्युत्पादविगमध्रुवस्वभाषा इत्यर्थः । न 'च पर्यायादात्मीयात् किञ्चिद् द्रव्यमेकान्तभिन्नमुपलभ्यते, यत् सम्भाव्येत तस्मिन् पर्याये परस्वभावभूते विनष्टेऽप्यविनष्टमेकान्ताविष्कृतं नित्यमिति, यस्माच्च पर्यायादनन्यद् द्रव्यं तस्मात् तत्पर्यायनाशे तेनात्मना तद् द्रव्यं नश्येत् नान्यपर्यायात्मना, अनेकपर्यायानन्यरूपत्वादनेकात्मकत्वादे केनात्मना नश्यत्यन्येनात्मनोत्पद्यतेऽम्येन चात्मना ध्रुवमङ्गुलिकत्ववक्रत्वर्जुत्ववद् बहुत्वाञ्चात्मनामेकवस्तुविषयाणामेकस्य वस्तुनः, तस्मात् कथमिवैकान्तेनाकाशादयो नित्याः प्रतिपत्तुं शक्याः ? स्याद्वादस्य देशवर्तित्व - प्रसङ्गात्, आकाशादिष्वौपचारिकावुत्पादविनाशौ स्यातामिति चेत्, तदयुक्तम्, उपचारो यद्यलीकत्वम्, अवगाहोत्पादस्यैकत्विकत्वादनैकत्विकत्वाच्चेत्यर्थः । प्रामाणिकस्य प्रमाणं विना न परितोष इत्यतोऽवगाहस्यानित्यत्वेऽनुमानं मानमुपन्यस्यति नभोऽवगाहोऽपीति । अवगाहस्य गुणत्वेनानित्यत्वमुपपाद्य संयोगस्वरूपत्वेनानित्यत्वमुपपादयन्नाहनभसोऽवगाहत्वलक्षणमुपकार इति । संयोगरूपत्वेना वगाहस्यानित्यत्वेऽपि कथमुत्पाद इत्यपेक्षायामाह-संयोगचोत्पादीति । अवगाहवद्गत्यादीनामपि संयोगरूपत्वेनोत्पादखभावत्वम्, न च स्थिति विगमावन्तरेण केवलमुत्पाद इति उत्पादविगमस्थितिस्वभावता सर्वेषामित्याह-यथा चेति । नन्ववगाहगति स्थित्युपयोगरूपादीनां पर्यायाणामाकाशधर्माधर्मजी - वपुद्गलात्मकद्रव्यभिन्नत्वात्तेषामुत्पत्तिविपत्त्योरपि न द्रव्यस्योत्पत्तिविपत्ती, ततश्च द्रव्यं नित्यमेवेति नोक्तत्रिलक्षणरूपता तस्येत आह-न चेति, अस्य उपलभ्यत इत्यनेन सम्बन्धः । द्रव्यान्तरपर्यायस्य द्रव्यान्तराद्भिन्नत्वेऽपि खपर्यायस्य न स्वस्माद्भिश्नत्वम् अन्यथा तस्यायं पर्याय इति भेदेऽपि भावे खपर्यायवत्परद्रव्यपर्यायस्यापि भेदाविशेषादविशेषेण सर्व पर्यायस्य सर्वद्रव्यपर्यायत्वं स्यादतः स्वपर्यायाद्द्रव्यस्याभिन्नत्वमास्थेयमित्याशयः, यदि पर्यायाद्द्रव्यस्य भिन्नत्वमेव भवेत्तदा प्रकृते कानुपपत्तिरित्यपेक्षायामाह-यत्सम्भाव्येतेति । ननु भवत्वात्मीयात्पर्यायाद्द्रव्यस्याभिन्नत्वं ततः किमभीष्टं सिद्ध्यति भवत इत्यपैक्षायामाह-यस्माच्चेति । नन्वेवं यस्मिन्कस्मिंश्चिदपि खपर्याये विनष्टे तद्द्रव्यस्यापि विनष्टत्वादनुगामित्वमपि द्रव्यस्य न स्यादित्यत आह- तस्मादिति । यतश्च तत्तत्पर्यायात्मनैव नाशो नान्यपर्यायात्मना, तत एव त्रिलक्षणत्वं द्रव्यस्योत्पद्यतेतरामित्याह- अनेक पर्यायेति, अनेकपर्यायानन्यरूपत्वमनेकात्मकत्वे हेतुः तच्च एकपर्यायात्मना नाशे तदन्यपर्यायात्मनोत्पत्ती सहभाविपर्यायात्मना ध्रौव्ये च हेतुः । एतदुपपत्तये निदर्शनम् अङ्गुलित्ववक्रत्वर्जुत्ववदिति, भावना च-एकमेवाङ्गुलिद्रव्यमृजुतामवलम्बमानं वक्रत्वेन विनष्टमृजुत्वेनोत्पन्नमङ्गुलित्वेन स्थितं तद्वदेकमेवाकाशद्रव्यमवगादृपुरुषविशेषाद्यवगाहनदशायां तदवगाहात्मनोत्पन्नं तदनवगाह्यभावेन विनष्टं सर्वकालावस्थितावगाह्यसामान्यखभावात्मना ध्रुवमेवं धर्मादीनामपीति । यतः पर्यायाणां वस्त्वात्मभूतानां नानात्वमतस्तदात्मकस्यैकस्य वस्तुनोऽपि नानात्वं तत एव चाकाशादेरपि प्रत्येकमनेकात्मत्वत उत्पादव्ययधौव्यात्मकत्वमिति तल्लक्षणस्य सत्त्वस्य वस्तुमात्रगतत्वमेव न तु यत्किञ्चिदेकवस्तुमात्र नियतत्वेनाव्यापित्वमित्याहहुत्वाच्चेति, वस्तुन इत्यनन्तरं बहुत्वमिति दृश्यम्, ततश्चैकवस्तुविषयाणामात्मनां बहुत्वाच्चैकस्य वस्तुनो बहुत्वमि - त्यन्वयः कार्यः, एकस्य वस्तुनो बहुत्वादेव चोत्पादव्ययध्रौव्यात्मकत्वमर्थत एव लब्धमिति बोध्यम् । अथवा वस्तुन इत्यनन्तरं बहुत्वमिति पूर्त्तिर्न कार्या बहुत्वाच्चेत्यारभ्य शक्या इत्येतत्पर्यन्तमेकमेव वाक्यम् । तस्मादित्यस्य बहुत्वादित्ये - वार्थः । एकान्तेनेत्युक्त्या कथञ्चिदर्थसमन्वयेन नित्यत्वमाकाशादीनामनुमतमेवेति सूचितम् । कथमेकान्तेन नित्यत्वमाकाशादीनां स्याद्वादिनो नानुमतमित्यपेक्षायामाह - स्याद्वादस्येति । देशवर्त्तित्वप्रसङ्गादिति, धर्माधर्माकाशानां सर्वथा नित्यत्वे जीवपुद्गलादिपञ्चप्रभेदस्य द्रव्यस्य देशौ जीवपुद्गलौ तयोरेवोत्पादव्ययधौव्यात्मकत्वे तत्र कथमेकस्यानेकात्मकत्वं विरोधादतो विरोधभञ्जनाय स्याद्वादस्य स्याद्वादार्थस्यापेक्षाभेदखरूपस्य तद्वृत्तित्वमेव स्यादित्यर्थः । ननु परमार्थतो धौव्यमेवाकाशा. दीनामुपचारतस्तूत्पादव्ययावपीति कृत्वा तत्रितयस्यापि प्राप्तौ स्याद्वादस्यैवमपि तद्वृत्तित्वं स्यादेवेति स्याद्वादस्य सकलवस्तुव्यापकत्वं व्योमादीनामेकान्तनित्यत्वेऽपि युज्यत एवेत्याशङ्कते - आकाशादीति । वस्तुभूतोत्पादव्ययशून्यस्य भौव्यस्य
[३०]