________________
भाष्यटीकाविवृतियुता] आकाशधर्माधर्मेषु स्वाभाविका समुदायज एकत्विकश्चोत्पादः। [२९] द्विप्रकारोऽप्यस्ति भजनया, यथैव ह्यात्मन्यौपशमिकादीनां भावानामात्मन एव तेन तेनाकारेण वृत्तिरुत्पादः, स्पर्शादीनामणुषु, स्पर्शशब्दादीनां च स्कन्धेषु स्वाभाविक उत्पादस्तथा व्योमादिष्ववगाहगतिस्थितयो व्योमादिस्वभावास्तेषां परिणामाः, त एव ह्याकाशादयोऽवगाहाद्याकारणोत्पन्नाः, तस्य चाव. गाहादेरुत्पादस्य प्रदेशरूपता यथाऽऽत्मनोऽसङ्ख्याताः प्रदेशास्तत्समुदायश्चात्मा भवति, आकाशस्य थाकाशत्वं स्वाभाविकमकृत्रिममेव, यस्तस्यावगाहोत्पादोऽसावप्यकृत्रिमत्वात् स्वाभाविक एव, यस्मादाकाशं शुषिरमवकाशदातृत्वस्वभावम् , तथा धर्माधर्मो गतिस्थित्यनुग्रहहेतुस्वभावौ, आत्माऽपि ज्ञानात्मकत्वादुपयोगस्वभावः, पुद्गलाश्च मूर्तित्वात् स्पर्शादिस्वभावाः । एवमवगाहादेरुत्पादस्य स्यात् स्वाभा विकत्वम् ; तथा स्यादवाभाविकत्वं समुदायकार्यत्वात् , यथा पटो भूयसां तन्तूनां समुदायेन जन्यते, अवगाहादेरपि यथोक्त उत्पादः समुदायजन्यत्वादस्वाभाविकः, यस्मादवगाहोऽवगाह्यावगाहकद्वयसमुदायात्मकः, गतिरपि गन्तृधर्मद्रव्यद्वयसमुदायात्मिका, स्थितिरपि स्थानधर्मद्रव्यद्वयसमुदायस्वभावा, उपयोगो विज्ञातृज्ञेयसमुदायात्मकः, स्पर्शादयोऽपि स्पर्शनादिस्पृश्यादिसमुदायात्मकाः, तस्मात् समुदायात्मकत्वात् स्यादस्वाभाविकः समुदायनिरपेक्षाणामेषामवगाहादीनामभावाद्, एवं स्यात् समुदायकृता; स्यादेकत्विकः, कथम् ? उत्पादो ह्यवगाहस्याकाशेऽवगाहकानुप्रवेशे व्यक्तिः, सा च व्यक्तियोमन्येव नान्यत्रापि, तस्य तु व्यञ्जकमेवावगाहकं नोत्पादकम्, व्यञ्जकं चाकाशादन्यदेव भवति व्यङ्ग्याद् घटादेरिव प्रदीपादि, ततश्वावगाहस्यैकत्विक उत्पादः; स्यादनैकत्विकः प्राक् प्रतिपादितवत् ; ततश्च यथैव हीति । स्पर्शादीनामिति, अणुषु स्पर्शादीनां खाभाविक उत्पाद इत्यन्वयः, आदिपदादूपरसगन्धानामुपग्रहः । अण्वपेक्षया स्कन्धेषु विशेषमाह-स्पर्शशब्दादीनामिति । व्योमादिष्विति, आदिपदाद्धर्माधर्मयोर्ग्रहणम् । तेषां व्योमादीनाम् । कथमवगाहादीनामाकाशादिपरिणामत्वमित्यपेक्षायामाह-त एवेति, अन्यावगाहादिरूपेण व्यवस्थिता एवे. त्यर्थः । अवगाहाद्याकारेणोत्पन्ना इति, पूर्वावगाहकादिव्यतिरिक्तावगाहकाद्याचगाहाद्याकारेणोत्पन्ना इत्यर्थः । प्रदेशरूपतेति, आकाशादिप्रदेशरूपतेत्यर्थः । अतस्तत्समुदायरूपता चाकाशादीनामिति अत्रैव निदर्शनमाह-यथात्मन इति । आकाशस्यावगाहोत्पादे स्वाभाविकत्वं युक्त्या व्यवस्थापयति-आकाशस्य चेति । आकाशस्य खाभाविकरूपमुपदर्य धर्माधर्मयोस्तदाह-धर्माधर्माविति । आत्मपुद्गलयोः क्रमेण स्वभावावुपदर्शयति-आत्मापीति । आकाशादीनामवगाहादिलक्षणोत्पादस्य खाभाविकत्वे कथञ्चिदर्थसङ्घटनामुपदर्शयति-एवमवगाहादेरुत्पादस्येति । अवगाहाद्युत्पादस्य समुदायकार्यत्वेनाखाभाविकत्वं दृष्टान्तबलतो व्यवस्थापयति-यथा पटो भूयसां तन्तूनामिति । अवगाहादीनां समुदायकार्यत्वमुपपादयतियस्मादवगाहविति, अवगाह्य आकाशः अवगाहको जीवपुद्गलौ, गन्तारौ जीवपुद्गलौ, तावेव स्थातारौ । उपयोगस्पर्शादीनामपि समुदायात्मकत्वात्कथञ्चिदस्खाभाविकत्वं प्रपञ्चयति-उपयोगविति, उपयोगस्य स्वपरावभासित्वेन घटमहं जानामीयेवंरूपतया विज्ञातुज्ञेयाभ्यां सह संसर्गित्वेन संसर्गमात्रव्यापककथंचित्तादात्म्यस्यावश्यखीकर्तव्यत्वेन विज्ञातृ यसमुदायात्मकत्वमित्यभिसन्धिः। स्पर्शादयोऽपीति, प्रमेयसत्तायाः प्रमाणाधीनत्वेनाधेयस्य चाधारसापेक्षत्वेन स्पर्शनाहीन्द्रियमन्तरेण स्पृश्याद्याधारमन्तरेण न स्पादिव्यवस्थितिरित्यतः स्पर्शादेः स्पर्शनादिसम्बन्धित्वेन कथञ्चित्तादात्मभावेन स्पर्शनादिस्पृश्यादिसमुदायात्मकत्वमिति । उपयोगस्पर्शादीनामुत्पादस्यास्वाभाविकत्वमुपसंहरति-तस्मादिति । एतात्वता स्यात्समुदायकृतत्वमप्यवगाहादीनामित्याह-समुदायनिरपेक्षेति । अवगाहाद्युत्पादस्यैकत्विकत्वमपि कथञ्चिदर्थानुप्रवेशेनेत्याह-वादेकत्विक इति।अवगाह्यावगाहकाभ्यामवगाहस्यात्मलाभ एकमात्र निबन्धनत्वाभावादेकत्विकत्वमेव दुरुपपादं स्यादर्थघटना तु तत्र दूरोत्सारितैवेत्याशयेन पृच्छवि-कथमिति । अवगाहस्योत्पत्तिरभिव्यक्तिरेव, साचावगाहस्याकाशगुणत्वादाकाशगतैन, तजनकत्वादवगाहकमवगाहस्य व्यजकमेव नोत्पादकम् , इत्थञ्चाभिव्यक्तेराकाशव्यतिरिक्तावगाहकमात्रनिमित्तकत्वादेकत्विकत्वमित्याशयेनोत्तरयति-उच्यत इति । नान्यत्रापि, नावगाहकादौ, अवगाहस्य तदधर्मत्वात् । प्राकप्रतिपादितवदिति, यथाऽवगाहस्य समुदायकार्यत्वादखाभाविकत्वं तथा तत एवानकरिवकत्वमपीत्यर्थः । एवं सति यन्निष्पन्नं तदाह-ततश्चेति..