SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ [२८] उत्पादभेदाः, अन्वयांशनिरपेक्षोत्पादस्यासंभवश्च । [तत्त्वार्थत्रिसूत्री पुद्रलसमुदायरूपाः, समूहश्च समूहिमात्रम् , अतस्तत्रापि न कस्यचिदुत्पादः, कायादेः परमार्थतोऽसत्त्वात् ; अभिसन्धिपूर्वकस्तूत्पादः कायादियोगात् समप्रवास्यादिकरणापेक्षात् स्तम्भकुम्भादीनां प्रेक्षापूर्वकारिपुरुषक्रियाजन्यत्वात् प्रयोगजः, सोऽप्येवमेव समुदायविषयः, समुदायश्चासत्त्वादेव नोत्पद्यत इत्युत्पादाभाव एव, अन्वयांशनिरपेक्षत्वान्न प्रायोगिक उत्पादः सम्भवतीत्यर्थः । वैनसिकोऽपि नास्त्युत्पादः, विनसेति स्वभाववचनसंज्ञाशब्दः, स्वाभाविको वैस्रसिकः, तत्र धर्माधर्मव्योमात्मपुद्गलद्रव्याणामिमा वृत्तयो यथाक्रमं स्थितिगत्यवगाहोपयोगस्पर्शशब्दादिलक्षणाः स्वसद्भावाः, नहि तेषां धर्मादीनां गत्यादयो धर्माः पर्याया वा भवन्ति, यदि भवेयुस्ततस्तेषामेतद्विलक्षणमन्यदेव रूपं स्याद् गत्याद्युत्पादसद्भावे, न चान्यद् रूपं लक्ष्यते भुजगप्रसारणाकुण्डलिकतोत्फणविफणादिवत् , फणिनो हि स्वभावभूताकृतकसंस्थानान्तराभिव्यक्तिमात्रत्वात् प्राच्यफणिरूपानन्यत्वात् तद्र्व्यावस्थानात् कुत उत्पादः ? किं हि तत्रोत्पन्नं विद्यमानं वा नाभिव्यक्तमित्यत उत्पादाभाव एव, इत्येवं धर्मादीनामपि गत्यादीनामुत्पादाभावः स्वरूपावस्थानान्तरमात्रत्वाजलतरङ्गतुहिनपटलादिवत्, कुतः स्वाभाविक उत्पादः ? । न चोत्पादस्यान्यः प्रकारो विद्यत इति, तस्मान्नैवास्त्युत्पादः। एवं द्रव्यपर्यायनयद्वयापेक्षमस्तित्वमुत्पादस्य नास्तित्वं च भावितमात्मपुद्गलद्रव्यविषयम् ॥ अथाकाशधर्माधर्मेष्वविक्रियात्मकेषूत्पादस्याभावात् कुतस्तत्रोत्पादानेकान्त इति ? । उच्यते-तेष्वपि स्वाभाविक उत्पादः समुदायजनित एकत्विकश्च मुदायरूपेषु कायादिध्वपि, तत्किमुत्पादस्य सर्वथाभाव एव, न, अन्वयांशनिरपेक्षस्यैकान्तपर्यायनयकल्पितस्योत्पादस्याभावोऽ. भिप्रेत इत्यावेदनायोक्तम्-अन्वयांशनिरपेक्षत्वादिति । प्रायोगिकस्योत्पादस्याभावमुपदर्य वैस्रसिकस्य तस्यासम्भवमुपदर्शयति-वैनसिकोऽपीति । विस्रसाशब्दस्य पारिभाषिकस्यार्थाज्ञाने तनिष्पन्नस्य वैस्रसिकस्याप्यर्थज्ञानं न सम्भवतीत्यत आह-विनसेतीति । स्वभाववचनसंज्ञाशब्दः खभावस्य वचनं प्रतिपादनं यस्मात्स खभाववचनः खभाववाचीत्यर्थः, संज्ञाशब्दः स्वभावरूपार्थे सङ्केतितो विस्रसाशब्दः । एवं च सति वैनसिक इत्यस्य खाभाविक इत्यर्थ इत्याह-स्वाभाविको वैनसिक इति । स्वाभाविको हि खस्मादभिन्न एव भवति, धर्मपर्यायौ च धर्मिखरूपाद्भिन्नाविति गत्यादीनां धर्मरूपत्वे पर्यायरूपत्वे वा तदुत्पादान्न धर्मादीनामुत्पादो वैश्रसिको व्यवतिष्ठेत, गत्यादीनाञ्चोत्पादाभ्युपगमे तदुत्पत्तेः पूर्व धर्मादीनां न तत्स्वभावतेत्यन्याश एव धर्मादीनां स्वभावो वाच्यः, न च सोऽभ्युपगमा) गत्यादिखभावात्मनेव तेषामभ्युपगमादित्येव प्रपञ्चयति-तत्रेत्यादिना । स्पर्शशब्दादीत्यत्रादिपदाद्गन्धरूपरसानामुपग्रहः, स्पर्शादयः पश्चापि पुद्गलस्य स्वभावलक्षणम् । खसद्भावाः खभावाः । गत्यादीनां धर्मास्तिकायादिखभावत्वमेव तद्धर्मरूपत्वं तत्पर्यायरूपत्वं वा कथन्नेत्यपेक्षायामाहनहीति, अस्य भवन्तीत्यनेन सम्बन्धः । यदि भवेयुरिति, यदि धर्मादीनां गत्यादयो धर्माः पर्याया वा भवेयुरित्यर्थः । ततः, तदा । तेषां धर्मादीनाम् । एतद्विलक्षणं गत्यादिविलक्षणम्। अन्यदेव गत्यादिभ्यो भिन्नमेव । अस्तु गल्याद्युत्पादकाले तत्पूर्वकालावस्थितगत्यादिविलक्षणस्वभावो धर्मादीनां किन्नश्छिन्नमित्यत आह-न चान्यद्पमिति । लक्ष्यते प्रमाणेन विषयीक्रियते । उक्कमर्थं दृष्टान्तेन भावयति-भुजगेति । एतदेवोपपादयति-फणिनो हीति । दृष्टान्ते उपपादितमुत्पादाभावं दार्यन्तिके समर्थयति-इत्येवमित्यादिना। ननु मास्तु प्रयोगजो वैससिको वोत्पादः, आभ्यामन्य एवोत्पाद उपपाद. ना) भविष्यतीत्यत आह-न चोत्पादस्यान्य इति । एकनयापेक्षयोत्पादस्य न सम्भवो नयद्वयापेक्षया तु तस्य सम्भव इति स्यादस्ति उत्पादः स्यान्नास्ति चोत्पाद इत्येवमुत्पादानेकान्त एवावतिष्ठत इत्याह-एवमिति । अयश्चोत्पादानेकान्त आत्मपुद्गलद्रव्ययोरेव, तयोः प्रयोगजस्य वैस्रसिकस्य चोत्पादस्य सम्भवो विद्यते, यतोऽन्यरूपेण स्थितस्य तदन्यरूपेण परिणमनलक्षणात्मलाभोऽस्तीत्याह-आत्मपदलद्रव्यविषयमिति । धर्माधर्माकाशानां सर्वदाऽविचलितखरूपावस्थितानामन्यरूपेण पूर्वमवस्थितस्य तदन्यरूपेण परिणमनमेव नास्तीति तेषूत्पाद एवाप्रसिद्ध इति कस्यानेकान्तत्वं स्याद्वादेन व्यवस्थाप्यते इत्याशङ्कतेअथेति । धर्मादिषु प्रयोगजस्योत्पादस्यासम्भवेऽपि वैससिकस्योत्पादस्यास्त्येव सम्भवः, तत्र च स्याद्वादो लब्धावकाश एवेत्युतरयवि-उच्यते इति । तेष्वपि आकाशधर्माधर्मास्तिकायेष्वपि ।भजनयेति, कथञ्चिद्भावेनेत्यर्थः । एतदेवोपपादयन्नाह
SR No.022537
Book TitleTattvartha Trisutri Prakashika
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year1945
Total Pages150
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy