________________
'भायीका विवृतियुता ] तत्तन्नये दोषावतारे तन्निकरेऽपि तथात्वमित्याशङ्क्योद्धार पद्धतिः । [२७]
सद्विषयत्वमसद्व्यवहारप्रतिबन्धिता चेति नानुपाख्योऽसच्छब्दवाच्यः शब्दव्यवहारायोग्यत्वात् ॥ ननु च द्रव्यपर्यायनयौ स्वतन्त्रत्वाद् द्वावपि विजिगीषू स्वविषथोपमर्द परस्परं न सहेते, ततश्च पुनरपि सीमन्तितमेव वस्तु न वस्तुतायामवतिष्ठेतेति । उच्यते-पर्यायनयस्य तावदुत्पादव्ययलक्षणस्य स्वातश्वयं नास्ति द्रव्यास्तिकेनाङ्कुशितत्वात् । नह्युत्पादो नाम कश्चिद् धर्मोऽस्त्यभूतभवनात्मकः, स चोत्पादो द्विधा कल्प्येत - प्रायोगिको वैस्रसिकश्च प्रायोगिक : पुरुषकारनिर्वर्त्यः, सोऽपि द्विधा - अनभिसन्धिकृतोऽभिसन्धिकृतश्च, तत्राद्यः काय वाक्स्वान्तभेदेन पञ्चदशप्रकारः, ते च कायादयः समुदायात्मकाः, समुदायश्चासन् सार्थरथचक्रादिवत्, स्वाङ्गसमुदायमात्रत्वान्न सार्थो नाम कश्चित् परमार्थतोऽस्ति, रथो वा पुरुषकूवरादिव्यतिरिक्तः, स चाभावत्वात् सार्थरथादिः कथमुत्पद्येत ? एवं कायादयोऽपि त्पादध्रौव्ययुग्मस्योत्पादनिरपेक्षस्य विनाशघ्रौव्ययुग्मस्य चाभावादित्यर्थः । असद्विषयत्वमसदित्याकार कव्यवहारविषयत्वम् । असद्व्यवहारबन्धिता चेति, असदित्याकार को यो व्यवहारो विषयतया तेन सह तादात्म्येन यः प्रतिबन्धो व्याप्तिस्तद्वत्त्वमित्यर्थः, तेषां च समुदायप्रविष्टतया वस्त्वंशानामेव तदप्रविष्टभावविवक्षयाऽसत्त्वमसद्व्यवहारविषयत्वासद्व्यवहार प्रतिबन्धित्वादिरूपं, न तु निरूपाख्योऽसदित्यनेनाभिमत इत्याह- नानुपाख्योऽसच्छब्दवाच्य इति । अत्र हेतुः शब्दव्यवहारायोग्यत्वादिति, गामानय गां नय गां पश्य गां दोग्धि पय इत्यादिशब्दव्यवहारयोग्य एव गवादिर्गवादिशब्दवाच्यो भवति, शशश्शृङ्गादिस्तु सर्वक्रियाकर्मत्व कर्तृत्वादिविकलो न कस्यापि शब्दव्यवहारस्य योग्य इति न तस्य कस्यापि शब्दस्य वाच्यतेत्यसच्छब्दवाच्यताऽपि तस्य कथं स्यादत उत्पादादीनामेवैकैकशोऽसत्त्वमत्र सम्मतं न तु शशशृङ्गा देरित्याशयः । इत्थन्तु न व्याख्येयं शशशृङ्गकल्पस्येतर निरपेक्षस्योत्पादादेश्शब्दव्यवहारायोग्यत्वादस च्छन्दवाच्यत्वासम्भवेनासदित्यस्यासच्छब्दवाच्य इति नार्थः किन्तु असदितिप्रतीति विषयोऽसदिति व्यवहार प्रतिबन्धी वार्थ इति, यतो घट उत्पद्यते घटो विनश्यति मृद्रव्यं ध्रुवमित्यादिशब्दव्यवहारस्याबालगोपालं तत्र भावात्, यदि चोत्पद्यत इत्यादिव्यवहारा न धौव्यादिनिरपेक्षोत्पादादि विषयाः किन्तु तत्सापेक्षोत्पादादिविषया एवेति भवति प्रामाणिकानाम्मतिः, तदा तथा व्याख्यानमपि युक्तमेव, इदन्तु तत्र चिन्त्यं यथाऽलीकस्य शब्दव्यवहारायोग्यत्वेन न शब्दवाच्यत्वाभावान्नासच्छब्दवाच्यत्वं तथाऽसदिति विकल्पविषयत्वा सदिति व्यवहारप्रतिबन्धित्वे अपि कथं सर्वव्यवहारायोग्यत्वादिति । ननु स्याद्वादो द्रव्यपर्यायनयद्वयावलम्ब्यपि न परस्परसापेक्षोत्पादादिश्रयात्मकवस्तुव्यवस्थापनकुशलः, यतो द्रव्यनय स्योत्पादव्ययवियुतं धौव्यमेव स्वतन्त्रं विषयः, पर्यायनयस्यापि धौव्यवियुतौ स्वतन्त्रायुत्पादव्ययावेव विषयाविति नयद्वयावलम्बनेऽपि स्वतन्त्राणामेवोत्पादव्ययध्रौव्याणामवगतिः, तादृशाश्च ते समुदिता अप्सन्त एव न हि गगनकुसुमवन्ध्या पुत्र कूर्मरोमशशशृङ्गादिसमुदायः सन्निति व्यवहारपथमृच्छतीति न स्याद्वादेऽपि वस्तुव्यवस्था सूपपादेति परः प्रश्नयति- नन्वित्यादिना । स्वतन्त्रत्वात्, अन्योन्यापेक्षा रहितत्वात् । विजिगीषू परस्परखण्डनपरौ । अत एव स्वविषयोपमदं परस्परं न सहेते, द्रव्ये कथंचिदर्थघटने पर्यायप्रवेश एवेति द्रव्यनयस्यैकान्तिकद्रव्यरूपविषयस्य बाधरूपः खविषयोपमर्दः, एवमुत्पादव्यययोः कथञ्चिदर्थसमन्वये भौन्यप्रवेश एवेति पर्यायनयस्यैकान्तिकपर्यायरूपविषयस्य बाधरूपः स्वविषयोपमर्दः, तं न सहेते, तत्सहने परस्परखण्डन परत्वलक्षणस्खा साधारणरूपस्य प्रच्युतिरेव स्यादिति । एवञ्च सति यत्प्रश्रयितुरभिप्रेतं तदाह- ततश्चेति, परस्परविषयोपमर्दाभावानुरोधेन सम्मिलनदशायामपि पर्यायस्योत्पादव्ययावेव द्रव्यस्य ध्रौव्यमेव विषयभावमाभेजानमिति नैकान्तत्वापगम इति तादृशस्य वस्तुनो वस्तुतो वस्त्वाभास - तैव सर्वोपाख्यारहितत्वादिति न वस्तुताव्यवस्थितिरिति । स्वातन्त्र्यं यदि नयस्य स्वरूपं स्यात्तदा स्यादयमुभयनय नयनोन्मील• नेऽपि वस्तुत्वाव्यबस्थानदोषः, तदेव तु नास्तीत्याशयेन समाधत्ते - उच्यत इति । स्वातन्यम्, एकान्तिकत्वम् । अङ्कशितत्वादिति, द्रव्यास्तिकेन सर्वथोत्पादस्य सर्वथा व्ययस्य चासम्भवोद्भावनमेव तत्राङ्कुशः । अस्यैव भावनामाह-न ह्युत्पादो नामेति । अभूतभवनात्मकः पूर्वं सर्वथाऽसत उत्तरकाले कारणव्यापारे सति भवनलक्षणः । कथं नेदृशस्यो - त्पादस्य सम्भव इत्यपेक्षायामाह - स चोत्पादो द्विधा कल्प्येतेति । पुरुषकारनिर्वर्त्यः, पुरुषप्रयत्नसाध्यः । सोऽपि पुरुषकारनिर्वत्त्योऽपि । अनभिसन्धिकृत इति, अभिसन्धिः प्रकर्षेणेक्षणादिः, इदम्मदिष्टसाधनं मत्कृतिसाध्य मित्यादि - ज्ञानजन्यचिकीषादिरूप इति यावत्, तदन्योऽनभिसन्धिस्तत्कृत इत्यर्थः । सार्थो जनसमुदायः । कायादीनामुत्पत्तौ यद्यप्यस्ति प्रयत्नो बिमित्तं तथापि तस्य नेष्टसाधनतादिज्ञानजन्यचिकीर्षाप्रभवत्वमिति भवत्यनभिसन्धिकृतत्वमिति । तत्रापि पुद्गलस