________________
[२६] नयविशेषापेक्षयोत्पादादेः परमार्थापरमार्थता, प्रत्येकं सल्लक्षणत्वाभावश्च । [ तत्त्वार्थत्रिसूत्री भवन्तीति, एनमेवार्थमुत्तरेण भाष्येण प्रदर्शयति - [ यदुत्पद्यते यद् व्येति यच ध्रुवं तत् सत् । अतोऽन्यदसदिति ॥] यदुत्पद्यते इत्यादि । यदिति सामान्यमात्राभिधायिना सर्वनाम्ना धर्मास्तिकायादिपञ्चकपरिग्रहः, परस्परापेक्षाः समुदिता एवोत्पादादयः सल्लक्षयन्ति, तत्र द्रव्यनयाभिप्रायेणाकारान्तराविर्भावमात्रमुत्पाद औपचारिकः, परमार्थतो न किञ्चिदुत्पद्यते सततमवस्थितद्रव्यांशविवर्तमानमुत्पादविनाशव्यवस्थया व्यपदिश्यते प्रज्ञायते च पूर्वक्षणोच्छेदेन क्षणान्तरात्मलाभ उत्पादः पर्यायस्य, तस्यैव क्षणस्य निरन्वयोच्छेदिता विनाशः, द्रव्यास्तिकस्य धौव्यमन्वयी सामान्यांशः । पर्यायस्योपचारात् सन्तानमात्रं प्रौव्यशब्दाभिधेयम्, एक: सन्तानः, तद्बलेन च प्रत्यभिज्ञादिप्रसिद्धिः । तदेतत् त्रितयमपि प्रतिपादयत्युभयनयसङ्गत्या वस्तुसद्भावप्रतिपत्तये, न धौव्यमुत्पादव्ययशुन्यं केनचित् प्रमाणेन गोचरीकर्तुं शक्यते, नाप्युत्पादव्ययौ सामान्यांशवियुताविति यदुत्पद्यते यद् व्येति यच्च ध्रुवं तत्सद् विद्यते तदस्तीति, सामर्थ्यादिदमापन्नम् - अतोऽन्यदसदिति, अत इत्युत्पादादिसमुदितस्वभावाद् यदन्यत् तदसत् तच्च किं ? समुदायादपकृष्ट एकक उत्पादो वा विनाशो वा धौव्यं वा, उत्पादविनाशौवा, उत्पादधौव्ये वा, विनाशघ्रौव्ये वा, इतरनिरपेक्ष्यस्य तादृशांशस्याभावाद
उत्पादादय इति सम्बध्यते । एनमेव प्रत्येकं न किन्तु समुदिता एवोत्पादादयः वस्तुतत्त्वमित्येवंरूपमेव । सामान्यमात्राभिधायिना यदिति सर्वनाम्नेति योगः । परस्परापेक्षद्रव्यपर्यायोभयनयानुगतप्रमाणप्रमेयं वस्तुन वैलक्षण्यं तत्त्वं न तु परस्परानपेक्षैकनयाभिमतं तत्त्वम्भवितुमर्हतीत्युपपादयितुमाह - तत्रेति, उत्पादादिषु त्रिध्वित्यर्थः । प्रथमं द्रव्यनयवक्तव्यमा वि• करोति - द्रव्यनयाभिप्रायेणेयारभ्य प्रज्ञायते चेलन्तेन । पर्यायनयवक्तव्यमाह - पूर्वक्षणोच्छेदेनेति । पर्यायस्येति, पर्यायनयस्येत्यर्थः, अभिप्रायेणेति शेषः । तस्यैव क्षणस्येति, पूर्वक्षणस्यैवेत्यर्थः । उत्पादव्यययोस्स्वरूपं मतद्वयेनोपदर्श्य द्रव्यनये ध्रौव्यं किं, पर्यायनये च किं तदित्यपेक्षायामाह - द्रव्यास्तिकस्येति, मत इति शेषः, एत्रमपि । अन्वयी पूर्वपरपर्यायानुगतो यः सामान्यांशः स द्रव्यास्तिकस्य मते ध्रौव्यमित्यर्थः, द्रव्यनये ध्रौव्यं पारमार्थिकम् उत्पादव्ययौ चौपचारिकौ । पर्यायनये चोत्पादव्ययौ पारमार्थिकौ धौ व्यञ्चौपचारिकमित्यभिप्रेत्याह-पर्यायस्येति, पर्यायास्ति कस्येत्यर्थः । सन्तानमात्रमित्यत्र मात्रपदोपादानात्सामान्यस्य व्यवच्छेदः । किमर्थन्तर्हि औपचारिकस्यैकस्य सन्तानस्य कल्पनमित्यत आह- तद्वलेनेति, सन्तानात्मकैकविषयावगाहित्वेनेत्यर्थः । प्रत्यभिज्ञादिप्रसिद्धिः, सोऽयं घट इत्यादिप्रत्यभिज्ञायाः परमाणुपुञ्जात्मकपूर्वापरकालवर्त्तिनो टक्षणयोर्भेदेन तदैक्यरूपविषयाभावेऽपि तत्सन्तानैक्यरूप विषयसद्भावेन प्रामाण्यप्रसिद्धिः । एवं च द्रव्यनये केवले केवले च पर्यायनये न वस्तुगत्योत्पादव्ययध्रौव्यात्मक वस्तुप्रसिद्धिः, उभयनयव्यापि प्रमाणावलम्बने च तत्प्रसिद्धिरित्याह- तदेतत्रितयमपीति । ननु व्यमेवास्तु वस्तु धौव्यरहितावुत्पादव्ययौ वाऽस्तु तथा, तथा च तत्प्रतिपत्तिरे केनापि नयेन सुलभेत्युभयनयसङ्गत्या - श्रयणं वस्तुप्रतिपत्त्यर्थमनावश्यकमित्यत आह-न धौव्यमुत्पादव्ययशून्यमिति, तथा च केवलस्य ध्रौव्यस्य तद्विनिर्मुक्तयो - श्रोत्पादव्यययोदशशशृङ्ग कल्पतया तद्विषययोः परस्पर निरपेक्षलययोर्न वस्तुविषयकत्वमिति न ततो वस्तुप्रतिपत्तिरिति भावः । सदित्यस्य व्याख्यानं विद्यत इति, तथा च तत्सदित्यस्य तदस्तीत्यर्थः । “उत्पादव्ययध्रौव्ययुक्तं सत्" इति सूत्रे अतोऽन्यदसदिति नोक्तं भाष्ये कथमकस्मादिदमापतितमित्यत आह-सामर्थ्यादिदमापन्नमिति, लक्षणस्य लक्ष्यतावच्छेदकसम• नियतत्वेन यत्र लक्षणं नास्ति तत्र लक्ष्यतावच्छेदकमपि नास्तीति प्रकृते उत्पादव्ययध्रौव्यलक्षणरहिते सत्त्वाभावादसत्त्वमर्थाक्षिप्तमेवेति । अत इत्यत्रेदम्पदेनोत्पादादीनां त्रयाणां प्रत्येकं परामर्शे प्रत्येकमुत्पादादिषु त्रिषु उत्पादिभिन्नत्वस्याभावात्तेषामैकैकशोऽसत्त्वन्न प्राप्नोति येषां च शशशृङ्गादीनां नास्त्युत्पादाद्यन्यतमरूपता तेषां सर्वोपाख्याविधुराणां व्यवहारसामान्याविषयत्वेन नासद्व्यवहारविषयत्वमपीत्यतोऽन्यदसदित्यस्य निर्विषयत्वमेव स्यादित्यत आह- अत इत्युत्पादादिसमुदितस्वभावादिति । तच्च किम् ? उत्पादादिसमुदितस्वभावादन्यत्किम् । उत्तरयति समुदायेति, समुदायसमुदायिनोः कथञ्चिद्भेदमवलम्ब्येयमुक्तिः । कथमुत्पादादेरेकैकस्य उत्पादविनाशादियुग्मस्य चासत्त्वमित्यपेक्षायामाह - इतरनिरपेक्षस्येति, व्ययध्रौव्यनिरपेक्षस्योस्पादस्योत्पादधौव्यनिरपेक्षस्य विनाशस्योत्पादविनाशनिरपेक्षस्य ध्रौव्यस्य ध्रौव्यनिरपेक्षस्योत्पादविनाशयुग्मस्य विनाशनिरपेक्षस्यो -