________________
भाष्यटीकाविवृतियुवा ] कचिदुत्पादव्ययोरन्यादशत्वं सल्लक्षणपरमार्थापरमार्थभावश्च । [२५]
सझेपतः कारिकापञ्चकस्यायमर्थः-पुद्गलजीवेषूत्पादव्यययोरन्याहशत्वाद्, धर्मादित्रितये ततोऽन्यादृशत्वात, ध्रौव्यस्य पश्चत्वेऽप्यविशेषाद् वृत्तौ पृथग् विवरणम् , अन्यथा धर्माधर्माकाशेष्वधिगमोपायविषयत्वेनोत्पादच्युती, अन्यथा च जीवपुद्गलेष्विति द्रव्यक्षेत्रकालभावापेक्षाद् अन्यथा प्रयोगजावुत्पादव्ययौ, अन्यथा च धर्मास्तिकायादिषु द्रव्यस्वभावापेक्षमप्रयोगजौ ज्ञानविषयत्वोत्पादप्रच्युतिमात्रलक्षणौ, नहि तेषु पौरुषेयो विस्रसा वा प्रयोगः क्रमत इति, अतः परप्रत्ययावुत्पादविनाशौ त्रयाणाम् , जीवपुद्गलानां तु प्रयोगविस्रसाभ्यामुत्पादव्ययौ सम्भवतः, ध्रौव्यं तु सर्वेष्वविशिष्टम् , एतत् सतो लक्षणं कचिदुपचारतः कचित् परमार्थत इति, तदेतत् पौर्वापर्येणालोच्य कृतप्रज्ञैरागमज्ञैरेव व्याख्यास्यते निर्विरोध, वयं तत्रानिपुणाः किश्चिदेव स्थूलकुशलतयाऽभिदध्महेचशब्दः समुचितौ वर्तते, तेन नोत्पादादयः प्रत्येकं सतो लक्षणं, किं तर्हि ? समुदिता एव वस्तुतस्वं
लतो नाकाशस्योत्पत्तिरित्पुररीकृत्य चेदम् । एकमुत्पद्यतेऽस्ति चेत्या निदर्शनं परमाणुः,तस्य स्कन्धात्पृथगभावे उत्पत्तिरबसेया। नास्ति चोत्पद्यते चैकमित्यत्र निदर्शनं प्रदीपान्त्यशिखादि । एवं सति तृतीयविकल्पनायां ध्रौव्यस्यास्तित्वलक्षणस्य व्यापकत्वं न स्यादिति नारेकणीयम् , द्रव्यार्थिकनयावष्टम्भेन ध्रौव्यस्य लक्षणत्वप्रतिज्ञानात्पुद्गलात्मना प्रदीपान्त्यशिखादेरप्युत्पादापूर्व विनाशानन्तरमपि सत्त्वमस्त्यवेति । नास्ति नोत्पद्यते परमित्यत्र निदर्शनमाकाशकुसुमं चेतीति ॥५॥ पञ्चानामप्युपदर्शितपद्यानाम्मुकुलितमर्थमावेदयन्नाह-सझेपत इति । अन्यादृशत्वात् धर्मादित्रितयोत्पादव्ययापेक्षयेत्यर्थः, अन्यादृशत्वचाने स्पष्टीकृतम् । पञ्चत्वेऽप्यविशेषादिति स्थाने पञ्चस्वप्यविशेषादिति पाठो युक्तः, पञ्चसु जीवपुद्गलधर्माधर्माकाशेषु, अविशेषात् , यादृशं ध्रौव्यं जीवपुद्गलयोस्तादृशमेव धर्माधर्माकाशानां न तूत्पादब्ययवदन्यादृशमित्यतः । वृत्ती भाष्ये, पृथग विवरणम् , उत्पादव्ययौ समासेनोपन्यस्य तत्पार्थक्येन ध्रौव्यस्य विवरणम् । उत्पादव्यययोः कथमन्यादृशस्वमित्यपेक्षायामाह-अन्यथेति, अस्यैवार्थकथनम्-अधिगमोपायविषयत्वेनेति-जीवपुद्गलयोरुत्पादव्यययोः कथमन्याहशत्वमित्यपेक्षायामुक्तम्-अन्यथा चेति । अस्यैव स्पष्टतरवाक्यान्तरेण विवरणम्-द्रव्यक्षेत्रकालभावा प्रयोगजावित्येतत्पर्यन्तम् । ततोऽन्यथा धर्मास्तिकायादिषूत्पादव्ययावित्युपदर्शयति-अन्यथा च धर्मास्तिकायादि. विति, उत्पादव्ययाविति सम्बध्यते, आदिपदादधर्मास्तिकायाकाशास्तिकाययोरुपग्रहः । एतदेव भावयति-द्रव्यस्वभावेति । कथमप्रयोगजावुत्पादव्ययौ धर्मादिष्वित्यत आह-नहि तेष्विति, तेषु धर्माधर्माकाशेषु । परप्रत्ययौ गन्तृस्थात्रवगाहकजीवपुद्गलनिमित्तकौ। त्रयाणां धर्माधर्माकाशास्तिकायानाम्। जीवपुद्गलोत्पादव्यययोः प्रयोगत्वमुपपादयति-जीवपुद्गलानान्विति। सर्वेषु जीवपुद्गलधर्माधर्माकाशेषु । एतत् , उत्पादव्ययध्रौव्यात्मकत्वम् । कचित्, धर्मास्तिकायादिषु, खत उत्पादव्यययोरभावात् , परनिमित्तकयोरेव तयोस्तत्रोपचारः, तेष्वेव च ध्रौव्यस्य स्वतो भावात्परमार्थता, इत्यंशेनोपचारतोंऽशेन परमार्थतस्त्रि. लक्षणयोगित्वम् , जीवपुद्गलयोस्तु खत उत्पादव्ययौ स्वतो ध्रौव्यञ्चेति परमार्थतस्त्रिलक्षणयोगित्वम् । यद्यपि सर्वस्यैव वस्तुनो द्रव्यपर्यायोभयात्मकत्वेन द्रव्यात्मना ध्रौव्यं पर्यायात्मनोत्पादव्ययाविति कृत्वोत्पादव्ययध्रौव्याणां सर्वत्रापेक्षिकत्वमविशिष्टमित्यापे. क्षिकस्यौपचारिकत्वे सर्वत्रोपचारत एव त्रिलक्षणयोगः, पारमार्थिकत्ये सर्वत्र परमार्थत एव त्रिलक्षणयोगस्तथापि धर्मादीनां खरूपतो नित्यतयैव प्रसिद्धिः प्रदीपान्त्यविखादीनाञ्चानित्यतयैव प्रसिद्धिरतो नित्यत्वमेव धर्मादीनामनित्यत्वमेव प्रदीपादीनां व्यवहारतः पारमार्थिक रूपमापेक्षिकमपि, तदन्यत्तु युक्त्युपपत्तिसिद्धमपि व्यवहारपथानवतीर्णत्वादपारमार्थिकमिति मनसि निधायोकम्-कचितुपचारत इत्यादि । अत्र भाष्यन्याख्याभेदसम्यक्सासम्यक्त्वविघेकं कर्तुमागमज्ञा एव विदग्धा न स्वन्य इत्युक्तिवैचित्र्येणोपदर्शयनेव प्रकृतमनुसरति-तदेतदिति । निर्विरोधमिति व्याख्यास्यत इति पूर्व क्रियान्वयि । तत्र निर्विरोधन्याख्याने । किश्चिदेव प्रागुपदर्शितप्रकारं वक्ष्यमाणप्रकारमेव च । स्थूलकुशलतया मन्दबुद्धिग्राह्यार्थव्याख्याननैपुण्येन, एतदुक्तिश्च स्वस्य सतोऽपि पाण्डित्यविशेषस्याभिमानमूलत्वाभावाविष्काराय । वस्तुतः खोपदर्शितव्याख्यानप्रकारोऽपि सूक्ष्मप्रेक्षादक्षविद्वजनचेतश्चमत्कारचा रेवेत्यर्थावबोधनाम किश्चिदेबेत्युक्तमिति विभावनीयं सुधीभिः । चशब्दः, भौध्येण चेत्यत्रोक्तः चशब्दः । समुबयार्थकस्य चशब्दस्योपादाने प्रयोजनमाह-नोत्पादादय इति । समुदिता पति,
त. त्रि.४