SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ [२४] अपराचार्याभिप्रायेण प्रकारान्तरेण सूत्रव्याख्यानम् । [तत्त्वार्यत्रिसूत्री रेकेण द्रव्याभावान्न विद्मः किं तद् युज्यमानमुत्पादादिभिः । अपरे समाधानमाक्षेपस्याभिदधतेयुक्तं विशेष्यते उत्पादव्ययध्रौव्यैः, समुदितैर्यो योगस्तद् युक्तं सत्, नान्याभ्यामुत्पादव्ययाभ्यामित्यादिको योगः सदिति । योगश्च सामान्येनोत्पादादीनामनादिविशेषविवक्षया सादिः, ध्रौव्यं चेति पृथक् प्राधान्यख्यापनाय सामान्यस्य भाष्यकृतोदचारि, यतः सत्यन्वय्यंशे तदाश्रयावुत्पादविनाशौ सङ्गच्छेते, अन्यथा कस्योत्पादः ? कस्य चानुत्पन्नस्य तेनाकारेण व्ययः ? ॥ अपरे तु ध्रौव्यं चेत्यसमस्ततामन्यथा वर्णयन्ति त्रैलक्षण्ये सतः सादिः कथं सन्न त्रिलक्षणम् ? । ध्रौव्यं तल्लक्षणत्वेन द्रव्यार्थेन त्रिषूदितम् ॥ १॥ अत एव पृथग् वृत्तौ धौव्यं चेति प्रदर्शितम् । सत् त्रिरूपं त्रयं त्वेतत् सम्भवेन विकल्प्यते ॥२॥ आद्ययोर्नियमादन्त्यमन्त्ये तु भजनाऽऽद्ययोः । स्वतः परनिमित्तौ तु स्यातामप्युपचारतः ॥ ३ ॥ अस्ति नोत्पद्यते चैकमेकमुत्पद्यतेऽस्ति च । नास्ति चोत्पद्यते चैकं नास्ति नोत्पद्यते परम् ॥ ४ ॥ आकाशपरमाणू च प्रदीपान्यशिखादि च । आकाशकुसुमं चेति चतुष्टयमुदाहृतम् ॥ ५ ॥ परिपोषायाह-उत्पादादित्रयव्यतिरेकेणेति । उक्ताक्षेपप्रतिक्षेपकं व्याख्यानान्तरमुपनिबध्नाति-अपर इति । युक्त सदिति लक्ष्यलक्षणभावेन विवक्षितम् , तत्र युक्तं योगस्तस्य लक्षणत्वं, सदित्यस्य लक्ष्यत्वम्। युक्तमिति सामान्येनाभिहितम् , उत्पादव्ययाभ्यां युक्तं व्ययध्रौव्याभ्यां युक्तमुत्पादध्रौव्याभ्यां युक्तमुत्पादव्ययध्रौव्यैर्युक्तमित्येवं बहुरूपम्, तत्र तुरीयकल्प एवादरणीयः । तत्त्व एव सत्त्वोपपत्तरित्यावेदयितुमाह-युक्तं विशेष्यत इति, उत्पादव्ययध्रौव्यैर्युक्तं न्यान्यत्किञ्चिदभिमतं किन्तु लैस्समुदितैर्यो योगोऽन्योन्याविष्वग्भावस्तदेव युक्तं सदिति व्यपदिश्यतेऽतोऽन्यविशेष्याकाङ्क्षणप्रयुक्ताक्षेपस्य नावकाशः । कीदृशो योगोऽत्र व्यावर्त्यतयाऽभिमत इत्यपेक्षायामाह-नान्येति । आदिपदादुत्पादध्रौव्याभ्यां व्ययध्रौव्याभ्यामित्यनयोरुपग्रहः । किमयं योगस्सादिरनादित्यपेक्षायामाह-योगश्चेति, अनादिरित्यनेनानन्तत्वस्य सादिरित्यनेन सान्तत्वस्य चार्थादागतेरनभिधानेऽपि न न्यूनत्वमिति बोध्यम् । नन्वेवमुत्पादव्ययध्रौव्ययुक्तं सतो लक्षणमित्येवं भाष्येण भवितव्यम् , दृश्यते तु उत्पादव्ययाभ्यां ध्रौव्येण च युक्तं सतो लक्षणमित्येवमन्यादृशं भाष्यं तस्य का गतिरित्याशङ्कायामाह-ध्रौव्यं चेति, एतस्प्रतीकखारस्यात् उत्पादव्ययौ ध्रौव्यं च युक्तं सतो लक्षणमिति पाठो भाष्ये भवितुमर्हति। तदाश्रयो ध्रौव्यलक्षणसामान्याश्रयौ, ध्रौव्यं चेति पृथग्ग्रहणप्रयोजनान्तरोपदर्शकमतान्तरमुपन्यस्यति-अपरे त्विति।लक्षण्य इत्याद्याः पञ्च श्लोकाः। तत्र प्रथमस्यसतः वस्तुनः, त्रैलक्षण्ये उत्पादव्ययध्रौव्यात्मकत्वे सिद्धे सति, सादिः सत् उत्पत्तिमद्वस्तु, कथं न त्रिलक्षणम्, उत्पत्तिमत्पदार्थस्य नियमेन विनाशित्वेन निरन्वयस्योत्पादविनाशयोरसम्भवेन यत्रोत्पादस्तत्र विनाशध्रौव्ययोरवश्यम्भावेन त्रिलक्षणं स्वादेवेत्यर्थः। त्रिषु उत्पादव्ययध्रौव्येषु मध्ये, ध्रौव्यं नित्यस्वम् , द्रव्यार्थेन द्रव्यार्थिकनयावष्टम्मेन, तल्लक्षणत्वेन सलक्षणस्वेन उदितम् , सूत्रे कथितम् , इत्यर्थः ॥१॥ ननु सूत्रे उत्पादादीनां त्रयाणां समासवाक्येनैवावबोधनात्कथमेतदित्यपेक्षायामाहअत एवेति, यत एव ध्रौव्यस्य सल्लक्षणत्वं तत एवेत्यर्थः । वृत्तौ भाष्ये । ध्रौव्यं चेति, इत्येवं खरूपेण पृथक् उत्पादव्ययाभ्यां पृथकृत्य प्रदर्शितं कथितम् । ननूत्पादव्ययौ इत्येवं रूपेण तयोरपि ध्रौव्यात् पृथक् कीर्तनं भाष्ये समस्त्येव ततस्तयोरेव कथं न सल्लक्षणत्वमित्यत आह-सन्त्रिरूपमिति, सन्त्रिरूपमित्येतद्यदभिमतम् , तत्र एतन्त्रयम् उत्पादव्ययध्रौव्यखरूपम् । सम्भवेन यथा यत्र यत्सम्भवस्तथा । विकल्प्यते विभज्यते, इति द्वितीयस्यार्थः ॥२॥ विभजनामेवोपदर्शयतिआधयोरिति, उत्पादव्यययोरित्यर्थः । अन्त्यं ध्रौव्यम् । नियमादिति, यत्रोत्पादव्ययौ तत्र नियमेन ध्रौव्यमित्यर्थः । अन्त्ये तु ध्रौव्ये पुनः । भजना स्याद्वा न स्याद्वेति विकल्पना । आद्ययोः उत्पादव्यययोः । ध्रौव्ये गगनादिवस्तुनि स्वतः परापेक्षाभावतः उत्पादव्ययौ न स्तः । परनिमित्तौ तु, अवगाहकपुद्गलादिपरापेक्षावगाहनादिफलापेक्षौ पुनः । स्यातामपि उत्पादव्ययौ सम्भक्तोऽपि । एवमप्युत्पादव्यययोर्वस्तुव्यापकत्वं समस्त्येवेति कथन्न सल्लक्षणत्वमित्यत आह-उपचारत इति । प्रधानवृत्त्याऽऽश्रयणेन धौव्यस्य वस्तुव्यापकत्वतो लक्षणत्वमिति प्रधानवृत्त्याश्रयणमेव न्याय्यमणुरपि विशेषोऽध्यवसायकर इति न्यायादिति तृतीयपद्यार्थः ॥ ३ ॥ भजनाखरूपोपदर्शनपरः अस्तीत्यादि तुरीयश्लोक उत्तानार्थः ॥ ४ ॥ भजनास्वरूपावगतिसौकर्याय निदर्शनचतुष्टयमाह-आकाशपरमाणूचेति।अस्तिनोत्पद्यते चैकमित्यत्र निदर्शनमाकाशः,
SR No.022537
Book TitleTattvartha Trisutri Prakashika
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year1945
Total Pages150
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy