SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ भाष्यटीकाविवृतियुता] सदर्थविषयः कार्यकारणभावः, भाष्यानुगं सूत्रव्याख्यानश्च । [२३] ऽभ्युपेया, तथा चाभ्युपगमविरोधः, तस्मादस्ति ध्रौव्यांशलक्षणात् द्रव्यसत्ता, नापेक्ष्यसिद्धा, कारणमिति या व्यपदिश्यते, कारणसिद्धौ च कार्यसिद्धिरपि तदविनाभावात् , अन्यथा कारणव न स्यादसम्भाविततद्गुणत्वात् , पर्यायास्तूत्पादादयः केचिदपेक्ष्यसिद्धाः प्रयोगजाः पटादयः, केचिदनपेक्ष्यसिद्धाः खाभाविकाः परमाणुनीलतानेन्द्रचापविद्युदादयः, एवं च स्वरूपसिद्धेः कारणकार्यप्रत्ययावसदर्थविषयौ न भवत इति सिद्धम् ॥ भाष्याक्षरानुसरणमधुना समातन्यते-उत्पादश्च व्ययश्च उत्पादव्ययौ, समस्यैकत्वेन निर्दिष्टी, ध्रुवतीति ध्रुवं-शाश्वतं तद्भावो ध्रौव्यं-स्थिरता, उत्पादव्ययध्रौव्याणि, युक्तं योगः-समुदायः, सत् अस्तीति सद, विद्यमानमित्यर्थः । एतदुक्तं भवति-उत्पादादयो नैककाः सत् , किं तर्हि ? युक्तं योगः-परस्परापेक्षः समुदाय एवोत्पादादीनां, सदित्यस्य ध्वनेविषयः, यथा वृक्षा वनं समुदिता एव नैककाः, एवमुत्पादव्ययध्रौव्याणि योगः सदिति, अथवा समाध्यर्थस्य युजेर्युक्तं समाहितं त्रिस्वभावं सत्, उत्पादव्ययध्रौव्याण्येव त्रयः स्वभावाः सम्यगाहिता:-परस्परप्रतिबद्धाः सदिति । अन्ये तूत्पादव्ययध्रौव्यैर्युक्तमिति विगृह्णते, किं पुनस्तदुत्पादादिभिर्युक्तमिति निरूपणीयम् , उत्पादादित्रयव्यतिकत्वव्यवस्थितौ ध्रौव्यमयत्नोपनतमेवेत्याह-तस्मादिति । या द्रव्यसत्ता । तदविनाभावात् , कार्यकारणयोरन्योन्यमव्यभिचारात् । अविनाभावानभ्युपगमे दण्डमाह-अन्यथेति, कार्याव्यवहितप्राक्क्षणावच्छेदेन कार्यसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्त्वपर्यवसितस्य कार्यनियतपूर्ववर्तित्वस्य कार्यानुकूलशक्तिमत्त्वस्य वा कारणत्वस्य कार्यघटितमूर्तिकस्य कार्याभावेऽसम्भाविततया तत्स्वभावस्य कारणस्याप्यसम्भवादित्यभिप्रायः । प्रतीत्यप्रत्ययमात्रत्वेन कार्य कारणं च कल्पनामात्रमिति परमतमपाकृत्य पर्यायाणामपि केषांचिदापेक्षिकत्वं केषांचिच्चानापेक्षिकत्वमित्युपपादनद्वारा कार्यकारणभावप्रत्यययोरसदर्थविषयकत्वमपाकरोति-पर्यायास्तूत्पादादय इति । प्रयोगजाः कुविन्दादिप्रयत्नप्रभवाः । स्वाभाविकाः विस्रसापरिणामाः। स्वरूपसिद्धेः कार्यतया कारणतया च वस्तुस्वरूपव्यवस्थितेः । आक्षेपसमाधानाभ्यामुत्पादव्ययध्रौव्यात्मकत्वं सत्त्वं व्यवस्थाप्य मूलं यथावळ्याख्यातुमाह-भाष्याक्षरेति । सूत्रे उत्पादश्च व्ययश्च ध्रौव्यं चोत्पादव्ययध्रौव्याणि तैर्युक्तमुत्पादव्ययध्रौव्ययुक्तमिति न समासः, किन्तु उत्पादश्च व्ययश्चोत्पादव्ययौ उत्पादव्ययौ च ध्रौव्यं चोत्पादव्ययध्रौव्याणि तेर्युक्तमुत्पादव्ययध्रौव्ययुक्तमित्येतत् ख्यापयितुमुत्पादव्ययाभ्यामित्युक्तिरित्याह-उत्पादश्चेति । एकत्वेनेति, पर्यायरूपतया तयोरेकत्वं बोध्यम् , युक्तमित्यस्य योगाश्रयो नार्थः, तथा सति घटयुक्तस्य भूतलस्य घटभिन्नत्ववदुत्पादव्ययध्रौव्ययुक्तस्यापि वस्तुन उत्पादव्ययध्रौव्यभिन्नत्वप्राप्ती तन्त्रितयात्मकत्वमिष्टं व्याहन्येतात आह-युक्तं योग इति।योगोऽपि न संयोगादिलक्षणस्सम्बन्धस्तथा सति उत्पादव्ययध्रौव्यागान्तत्प्रतियोगित्वे तदनुयोगिनोऽन्यस्यैवाक्षेपलभ्यत्वेनैकस्योत्पादव्ययध्रौव्यात्मकत्वं न निरूपितं स्यात्प्रत्युत तत्सम्बन्धमात्रस्यैव सत्त्वं सूत्रविधेयं स्यादत आह-समुदाय इति । सदिति । न परपरिकल्पितसत्तात्मकजातिविशिष्टार्थक, सत्ताजातेरेवाप्रामाणिकत्वाव्यापकत्वाच्च, किन्तु विद्यमानार्थकमित्याह-सत् अस्तीतीति । उक्तार्थकरणाभिप्रायं प्रकटयति-एतदुक्तं भवतीति, उत्पादव्ययध्रौव्ययुक्तं सदित्यत्र समुदायार्थकयुक्तपदोपादानेनानन्तराभिधीयमानार्थः प्रतिपादितो भवतीत्यर्थः, सदित्यस्येति, अनुरूपं दृष्टान्तमाह-यथेति।योगो नात्रोत्पादव्ययध्रौव्याणां संयोगलक्षणोऽभिमतः समुदायोपि वा न व्यतिरिक्तः, किन्तु समुदितानि तान्येवेत्याह-उत्पादव्ययध्रौव्याणि योग इति, बहुत्वेऽपि सत्येकत्वन्नापेक्षिकं विरुद्धमित्यावेदनाय योग इत्येकवचननिर्देशः, वेदाः प्रमाणमित्यनुरोधेन विशेष्यविशेषणवाचकपदयोस्समानवचनकत्वमिति नियमस्य यत्र विशेष्यवाचकपदोत्तरविभक्तितात्पर्यविषयसङ्ख्याविरुद्धसंख्याया अविवक्षितत्वं तत्र विशेष्यविशेषणवाचकपदयोस्समानवचनत्वमित्येवंरूपतयाऽन्यत्रोपपादितत्वेन न तद्विरोधोऽपीति। युजेल, युजिधातोः,युक्तं युक्तमिति रूपम् । एवं सति योऽर्थस्सम्पद्यते तमाह-समाहितमिति, अस्यैव फलितं त्रिखभावमिति, सदिति, सूत्रघटकलक्ष्यांशग्रहणम्। तथा च यादृशस्सूत्रार्थों निष्पन्नस्तमाह-उत्पादेत्यादि। सम्यगाहिता इत्यस्यैव विवरणं परस्परप्रतिबद्धा इति।व्याख्यान्तरमाचार्यदेशीयानां केषांचिदाक्षेपोपगतमित्यनादरणीयमित्यावेदनायोपनिबनाति-अन्ये त्विति । एतन्याख्यानासम्प्रतिपत्तिख्यापनायाह-किं पुनरिति, किमित्याक्षेपे । आक्षेप
SR No.022537
Book TitleTattvartha Trisutri Prakashika
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year1945
Total Pages150
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy