SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ [22] कार्यकारणभावस्य काल्पनिकत्वनिराकारः । स्तः, [ तत्वार्थत्रिसूत्री आहोस्विद् एकदेशेनेत्येषोऽपि विकल्पः सिद्धसाध्यतादिबहु दोषत्वादपास्तो वेदितव्यः, तस्मान्न व्यतिरिक्तो - ऽवयव्यस्ति निभाल्यमानः समस्ति च द्रव्यांशः स्थितिलक्षणोऽन्वयी, तदपेक्षावुत्पादविनाशौ अतः स्थित्युत्पादविनाशस्वभावमेव सर्वमर्थक्रियासमर्थ, न स्थितिनिरपेक्षावुत्पादविनाशाविति । यदप्युक्तम् - कल्पनामात्रं कारणं कार्यमिति प्रतीत्यप्रत्ययमात्रत्वात्, तदप्ययुक्तम्, करोतीति कारणं कार्यान्तरनिवर्तनसमर्थम्, क्रियायाः कारणान्तरापेक्षात्, कल्पना च बहिरङ्गार्थशून्यं विज्ञानमात्रं शब्दमात्रं वा न च तस्य घटादिकार्यान्तरनिष्पादने शक्तिरस्ति, न च विज्ञानमात्रमेव ग्राह्यग्राहक - लक्षणमर्थशून्यमस्तीति प्रतिपत्तुं शक्यम्, प्रमाणाभावात् न च भ्रान्तिमात्रं कार्यकारणव्यवस्था, भ्रान्तिबजाभावात् नापि शून्यता, प्रतिषेधप्रतिषेध्यादिसद्भावात् । व्यवहारतः सत्त्वमर्थानां न परमार्थत इति चेत्, प्रतिषेधोऽपि तर्हि व्यवहारमात्रत्वादसन्नित्यप्रतिहतसद्भावात् कथं न भावा भवेयुः ? न च रासभशृङ्गमसत् स्वतः परिकल्पितेन रूपेण मृत्खननादिकार्यार्थमाचेष्टमानमिष्टं दृष्टं वा ॥ दीर्घता च यदि स्वतोऽसती हखबुद्धेः कारणं भवत्येवं सति व्योमारविन्दकर्णिकाऽपि हेतु - रसत्त्वात् स्याद् ह्रस्वताबुद्धेः, यदि चासत्प्रतीत्याऽसदेवोत्पद्येत तथा सति शशविषाणं प्रतीत्य खरविषाणमपि स्यात्, अथास्त्येव वस्तुनो दीर्घता, न तर्हि प्रतीत्यप्रत्ययमात्रं सर्वम्, सतीमेव दीर्घतामाश्रित्य स्वताधियोऽभ्युपगमात् दीर्घहस्वबुद्ध्योश्चायौगपद्यादयुक्ता प्रतीत्यसमुत्पत्तिः, न चासतः कारणभावः, यदि च सर्वं प्रतीत्यैव सिद्ध्यति नाप्रतीत्य, ततः प्रतीत्यसिद्धिरपि प्रतीत्यसिद्धिप्रभवा र्णनेनेति, अस्यापास्त इत्युत्तरेण योगः । उत्पादव्ययसम्बधितध्रौव्यं सर्वव्यापकतयोपसंहरन्नाह - तस्मादिति । न व्यतिरिक्तो न सर्वथाऽवयवेभ्यो भिन्नः, तेन कथचिद्भेदाभ्युपगमो न विरुध्यते । तदपेक्षौ द्रव्यांशानुगती । कार्यकारणभावस्य काल्पनिकत्वमेवेति मतमप्यपहस्तयितुमाह-- यदप्युक्तमिति । कारणान्तरापेक्षादिति भावप्रधानो निर्देशः । कल्पनामात्रमि - त्युक्त तत्र कल्पनां विकल्प्य तत्र कार्यान्तरनिर्वर्त्तनसमर्थत्वं कारणत्वन्नसम्भवतीत्यतो न कल्पनामात्रं कारणमित्याह - कल्पना वेति । तस्य विज्ञानमात्रस्य शब्दमात्रस्य वा । विज्ञानवाद्यभिमतं ग्राह्यं च ग्राहकं च ज्ञानमेव न तु बाह्योऽर्थो विद्यत इत्येत. प्रतिक्षिपति-नचेति, अस्य शक्यमित्यनेन योगः । कार्यकारणभावावगाहिज्ञानं भ्रान्तमेव ततो नार्थसिद्धिरित्येतदपाकरणायाह-न च भ्रान्तिमात्रमिति । माध्यमिकमतमुन्मूलयितुमाह - नापि शून्यतेति, - "शून्ये मानमुपैति चेन्ननु तदा शून्यात्मता दुःस्थिता, नो चेत्तर्हि तथापि किं न सुतरां शुभ्यात्मता दुःस्थिता । वन्ध्या मे जननीत्यमुख्यसदृशीमप्याश्रयन् शून्यतां शङ्के दुश्शकसाहसैकरसिकः खामिन्नसौ सौगतः ॥ १ ॥” इति श्लोकार्थोऽप्येतत्पक्षप्रतिक्षेपायात्रानुसन्धेयः । संवृतिसत्त्वमेवार्थानां न तु पारमार्थिकसत्त्वं संवृतिसत्त्वादेव प्रतिषेध्यप्रतिषेधवादिप्रतिवादिसकलव्यवहारोपपत्तिरिति गूढाभिसन्धि शून्यवादिन आशय प्रतिक्षिपति-व्यवहारत इति, व्यावहारिक पारमार्थिक सत्त्वं तस्य यदि संवृतिसत्त्वं नामान्तरं परेण गीयते तत्र न नो विवादः, अन्यथा व्यवहारसतो वस्तुनो वस्तुतोऽसत्त्वे प्रतिषेधस्यापि परेण व्यवह्रियमाणस्यासत्त्वापत्त्या कथं शून्यता सिद्ध्येत् । तदभावे विरोध्यभावात्पूर्णतैव जगति पदमादधातीति गूढाभिसन्धिर्मन्थकार आह-प्रतिषेधोऽपीति । व्यावहारिकस्यासत्वे रासभशृङ्गादिवत्कार्यकारित्वमेव न स्यादस्ति च कार्य - कारित्वमतः सत्त्वमेवास्थेयमित्याह-न च रासभश्टङ्गमसदिति, कारणं कार्यमिति कल्पनामात्रमेतत् प्रतीत्यप्रत्ययमात्रवृत्तित्वात् दीर्घत्वहस्वतावदित्यत्र दीर्घत्वादिदृष्टान्तेऽपि नासत्त्वमस्माकं सम्मतमिति दृष्टान्तासिद्धिरुद्धर्तुमशक्येत्याह-दीर्घता चेति । ननु ह्रस्वत्वमप्यसदेव कार्यं ततश्च असतः कारणादसतः कार्यस्योत्पत्तौ न कश्चिद्दोष इत्यत आह-यदि चेति । यत्किञ्चिदसत्प्रतीत्यापेक्ष्य यत्किञ्चिदसदुत्पत्तौ नियामकाभावाच्छशविषाणादपि खरविषाणं स्यादित्याह तथा सतीति । हस्वत्वादीनां सत्त्वा - भ्युपगमे तु न परस्येष्टसिद्धिरित्याह- अथास्त्येवेति । क्षणक्षयवादिनः परस्य यदा दीर्घत्वबुद्धिर्न तदा ह्रस्वत्वबुद्धिरिति प्रतीत्यप्रत्ययत्वं तयोरुपगन्तुमशक्यमित्याह - दीर्घहखबुद्ध्योरिति, अवध्यवधिमतोरेककालीनतायामेव तथा व्यवहारादित्यभिसन्धिः । सर्वस्य प्रतीत्यप्रत्ययमात्रत्वेऽनवस्थाऽप्यभ्युपगमविरोधिनी प्रसज्येतेत्याह-यदि चेति । कार्यकारणभावस्य पारमार्थि
SR No.022537
Book TitleTattvartha Trisutri Prakashika
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year1945
Total Pages150
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy