________________
भाष्टकाचिवृतियुता ] अवयवाक्य विप्रमुखाणां भेदाभेदस्वीकारे नैकान्तदोषाववतारः ।
[२१]
मेकान्तत एवेति पूर्वमेव प्रत्यस्तम् । नहि बुद्धिभिदा सर्वप्रकाराऽस्ति जैनेन्द्राणां द्रव्यास्तिकनयाभिप्रायेण ग्रहणात्, सद्रव्यतया भेदाभावात् पर्यायतः सङ्ख्यापरिमाणाकार भेदसद्भावात् भिन्नाभिन्नस्वभावैव शेमुषी, सा च भेदाभेदस्वभाव एव वस्तुनि व्यापारमासादयन्ती स्वात्मप्रतिष्ठां प्रतिलभत इति न किञ्चिदनिष्टम् । यश्चोक्तम् - "तुलानतिविशेषाग्रहणादनन्योऽवयव्यवयवेभ्य" इति, तदिष्टमेव, सर्वथा अन्यत्वस्य निषिध्यमानत्वात् यतो विनाऽप्यवयविना संयोगमात्रे तदर्थान्तरभूतसङ्घातपरिणामाद् दशपलपरिमाणत्वमस्त्येवेति अतो नावयविकृतं पलदशकस्य दशपलपरिमाणत्वं विनाऽपि तेनोपलभ्यमानत्वादेकादशपलेनेव; इतश्चावयवव्यतिरेकेणासन्नवयवी, अनभिभूतगुणत्वे सत्यवयवरूपादिव्यतिरेकेणानुपलभ्यमानरूपादिगुणत्वात्, तुरगवारणाद्यवयवव्यतिरेकेण सेनावत् । यदि च स्याद् रूपादयोऽपि च गुणा गृह्येरन्नवयविनः पृथक्त्वेन, घटबदरादिवदिति व्यतिरेकः, विशेषणोपादानाद् विद्यमानेष्वभिभवादनुपलभ्यमानगुणत्वं तारकादिषु दृष्टमित्यनैकान्तिकत्वव्यावृत्तिः, द्रव्यात्मना च तन्तुपरिणतौ पटपरिणामोऽस्त्येव, सुचिरादपि तत्र भावात्, पर्यायात्मना चाभावाद, अतीतानागतपरिणामानामसत्त्वादव्यवहार्यत्वाद् वर्तमानपर्याय एव परमार्थतोऽस्त्युपयुज्यमानत्वात्, पटपरिणामकाले च द्रव्यात्मना तन्तुसद्भावात् पर्यायात्मना चाभावात् सर्वेषामवयवावयविसमुदायसमुदायिगुणगुणिनामन्यत्वानन्यत्वमुभयनयापेक्षमेवाभिरूपधियो धिनोति तस्मादेकान्तवादिनः सूक्ष्मबादरप्रतिघात।प्रतिघातभेदसङ्घातकार्य कारणैकत्वान्यत्वादिविश्वप्रकार परिणाममभ्युपयतो न किञ्चिद
माढकते ॥ एतेन द्रव्यपर्यायनयद्वयव्यावर्णनेन किमेकोऽवयवी स्वारम्भकावयवेषु प्रत्यवयवं वर्तते रूपेणाभेदस्यापि प्रतीतेरित्याह-नहि बुद्धिभिदेति । शेमुषी बुद्धिः, सा बुद्धिः । अवयवावयविनोरनन्यत्वसाधनं कथञ्चिदनन्यत्वसाधनपर्यवसितं स्याद्वादिना मिष्टापादनरूपत्वान्न दोषायेत्याह यच्चोक्तमिति । अवयविनोऽवयवेभ्यस्सर्वथाऽन्यत्वं न सम्भवतीत्यत्र हेतुमाह यतो विनाऽप्यवयविनेति, तदर्थान्तरभूतेति, अवयविव्यतिरिक्तेत्यर्थः । अयमभिप्रायःयत्रैकैकपरिमितानां दशानां वस्तूनामनारम्भकसंयोग एव न त्वारम्भकसंयोगस्तत्रावयवी नोत्पद्यत एवेत्यवयविवादिनाऽप्यभ्युपेयम् । अथ च दशपलपरिमाणत्वं तादृशसंयोगविशेषापन्न समुदायेऽनुभूयते, अतोऽवयविनमन्तराऽपि भावात्संयोग कृतमेव पलदशकस्य दशपलपरिमाणत्वन्नावयविकृतमिति, उक्तार्थे परार्थानुमान प्रयोगमुपनिबध्नाति - अतो नावयविकृतमित्यादिना ! अवयविनोऽवयवव्यतिरिक्तत्वाभावसाधकमनुमानान्तरमुपन्यस्यति इतश्चैति । यदि च स्यात्, अवयवेभ्यो व्यतिरिक्तो, यद्यवयवी स्यात्, तदेति शेषः । रूपादय इति, अवयविनो रूपादयो गुणा अवयवरूपादिगुणेभ्यः पृथक्त्वेन गृह्येरन्निति, व्यतिरेकः । न चावयविनो रूपादयो गुणा अवयवरूपादिगुणेभ्यः पृथक्त्वेन गृह्यन्ते तस्मान्न सन्ति तदभावादवयव्यपि नास्तीति । अनभिभूतगुणत्वे सतीति हेतुविशेषणफलमुपदर्शयति- विशेषणोपादानादिति । द्रव्यनयपर्यायनययोरभेद-मेदाने कान्ताभ्युपगमरूपस्याद्वाद प्रमाणराजदौत्यमावेदयन्नाह - द्रव्यात्मना चेति, तत्र भावात्, तन्तुपरिणतौ पटस्य भावात्, अभ्यथाऽसतस्तस्य कदाचिदपि तत्रोत्पादासम्भावाद्गगनकुसुमस्येवेति भावः । पर्यायात्मना चाभावात् पृथुबुधोदराकारात्मना: बिशकलितप्तम्स्ववस्थानवेलायां तन्तुपरिणतौ पटस्याभावात् । अत्रैव पर्यायास्तिकनयावष्टम्भेन हेतुमाह-अतीतेत्यादि, उपयुज्यमानत्वात्, देहाद्यावरणादिकार्यकारित्वात् । अवयविनोऽवयवेषु भावाभावावुपदर्यावयवानामवयविनि भावाभावानुपदयति - पढपरिणामकाले चेति । द्रव्यात्मना - विशकलिताविशकलितसाधारणतन्तुखरूपेण । पर्यायात्मना - विशकलिततन्तुरूपेण । अयं च न्यायः सर्वत्रावयव्यवयवादौ योज्य इत्याशयेनाह - सर्वेषामवयवेत्यादि । उभयेति, द्रव्यास्तिकपर्यायास्तिकेत्यर्थः । अभिरूपधियो घिनोतीति, पण्डितानां बुद्धिर्विषयितयाऽऽश्रयतीत्यर्थः, शेमुष्युन्मेषशालिनां बुद्धाववभासते : इति यावत् । स्याद्वादे न दूषणकणस्यापि प्रवेश इत्युपसंहरति--तस्मादिति, सूक्ष्मेत्यादि अभ्युपयत इत्येतत्पर्यन्तमनेकान्तवादिनइत्यस्य विशेषणम् । अवयवी अवयवे सामस्त्येन वर्त्तते एकदेशेन वेत्यादि विकल्पानामप्यतिरिक्तावयविनि एकरणाय सौगताभिमतानां नास्ति स्याद्वादे पदारोपणसङ्कथापीत्याह-एतेनेति । अस्य विवरणरूपमेव द्रव्यपर्यायनयव्याव
"