SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ [२०] एकान्तवादजन्मनां दोषाणां स्याद्वादेऽनवकाशः। [तत्त्वात्रिसूत्री वा तत्कार्यमुत नैव तत्कार्यमथ कार्यमेवास्ति न कारणं, कारणमेव वा विद्यते न कार्यमिति; एष च सामूहिकः समस्तोऽपि रत्नावलीपटस्तम्भकुम्भसेनावनयूथादिरर्थः खसमये पारिणामिक एव, भिन्नाभिन्नदेशानां परिणामिनां परिणामाभ्युपगमात् , तथापि भेदेनोपन्यासो लोकव्यवहारानुवृत्त्या, पूर्वधर्मोपमर्दैनोत्तरधर्मोत्पादः परिणामो लोके क्षीरदध्यादिवत् समूहिषु पारिणामिषु चानैकान्तव्याप्तिप्रपञ्चप्रदर्शनार्थः । तथाहि-आलोकविशिष्टरूपग्रहणमपि नात्यन्तभेदप्रतिपत्तये, विशेषणविशेष्यभावश्चैकान्तभेदविषयो न कश्चित् प्रसिद्धः, दण्ड्यादावपि सामान्यविशेषभावे सति विशेषणविशेष्यभावात्। यच्चोक्तमवधारणं-रूपादिग्रहे सत्येव भावात् , तदप्युभयस्वभाववस्त्वभ्युपगमे न कञ्चनापक्षालमावहति । यदप्यारेको “प्रमाणानुभवमन्तरेण स्मृतिरनुपपन्ना" इति पश्चात् परिजिहीर्षताऽभ्यधायि"विकल्पितेऽपि ह्यर्थ स्मृतिर्दृष्टा" इति, तदप्यसत्, अर्थाभिधानप्रत्ययानां वस्तुत्वाभ्युपगमादत्यन्ताभावस्य च निरुपाख्यस्य प्रतिषिद्धत्वात्, सर्वप्रकारमसतः संव्यवहारायोग्यत्वात् , बभूवुरनादौ संसारे बन्धुमत्यादयः प्राणिविशेषास्तदभिधानानि तदालम्बनाश्च प्रत्ययाः, ततश्च प्रमाणानुभवपूर्विकैव स्मृतिः सर्वत्र, नान्यथा, समुदायस्य च प्रतिपादितवस्तुत्वान्न निर्मूलविकल्पत्वम्, बुद्धिभेदाच्चान्यत्वकिं तदिति, ग्रन्थकार उत्तरयति-एवमिति, अनन्तरं यन्मयोच्यते तत्तदवधार्यमित्यर्थः, तत् समुदायावयव्यादिकम् । समहिनः परिणामिनो वा तत्कार्यमित्येको विकल्पः, नैव तत्कार्यमिति द्वितीयो विकल्पः, अत्रापि समूहिनः परिणामिनो वेत्यनुवर्तते, अथ कार्यमेवास्ति न कारणमिति तृतीयो विकल्पः, यद्यपि कार्यस्य कारणाधीनात्मलाभत्वातत्स्वीकारे कारणस्वीकार आवश्यकः, तथापि कार्यपदमत्र कार्यत्वेनाभिमतपरं बोध्यम् , एवं कारणपदमपि, कारणमेव विद्यते न कार्यमिति तुरीयो विकल्पः। समूहिनः परिणामिनो वेति भेदेनोपन्यासस्य प्रयोजनमाविर्भावयति-एष चेति, चकारो यद्यपीत्यर्थपरो ज्ञेयः। सामूहिकः, समूहप्रभवः । स्वसमये जैनराद्धान्ते । भिन्नाभिन्नदेशानामिति, रत्नावलीसेनावनादौ परिणामपरिणामिनोभिन्नदेशता पटस्तम्भकुम्भादावभिन्नदेशताऽवसेया । लोकव्यवहारानुवृत्त्येति, लोके हि क्षीरादीनां दध्यादिरूपेण भवनस्थल एवं परिणामव्यवहारो यत्र पूर्वधर्मस्योपमर्दः, मालादिरूपेण रत्नादीनां निष्पत्तौ तु समूहव्यवहार एव, तत्र पूर्वधर्मोपमर्दाभावादिति लोकव्यवहारमनुसरद्भिरस्माभिस्समूहिनः परिणामिनो वेत्युक्तमिति । एतदेव प्रपञ्चयति-पूर्वेति । एकैकरत्नादौ यत्नान्तरासंयुक्तरत्नस्वरूपो धर्मस्तस्य रत्नावल्यादिरूपेण समूहावस्थायामुपमर्दनम्भवत्येवेति स्याद्वादे तदपि परिणामलक्षणं तत्रापि सुसङ्गतमिति गूढाभिसन्धिद्योतनायोक्तम्-अनेकान्तब्याप्तिप्रपञ्चप्रदर्शनार्थ इति । अनेकान्तव्याप्तिं सङ्गमयति-तथाहीत्यादिना। यदग्रहे यन्न गृह्यते तयोरभेद इत्यत्रालोकाग्रहे रूपग्रहो न भवति, अथ चालोकरूपयोर्भेद एवेति व्यभिचारस्यालोके सति रूपग्रहणम्भवतीत्यालोक एव रूपग्रहणनिमित्तन्नत्वालोकग्रहणं तयोस्तुल्यकालत्वादित्येवमुद्धार आलोकरूपयोर्भेदमवलम्ब्य पूर्वमुपदर्शितस्तत्रेदानी कथञ्चिदभेद एव तयोरपीति उक्तनियमे कथश्चिदभेदस्य व्यापकतयाऽभिमतत्वे व्यभिचारवार्तापि नास्तीत्यभिप्रायेणाह-आलोकविशिष्टरूपग्रहणमपीति, अत्र ययोविशेषणविशेष्यभावस्तयोः कथञ्चिदभेद इति व्याप्तिरभिमता । तत्र दण्डी पुरुष इत्यत्र दण्डपुरुषयोर्विशेषणविशेष्यभावोऽस्ति . न च कथञ्चिदभेद इत्याशङ्का स्यात्तदपाकरणायाह-दण्ड्यादावपीति, दण्डी पुरुषोऽपि भवति दण्डवान्तदन्यदेशोऽपीति दण्डित्वस्य दण्डखरूपपर्यवसितस्यानुगामित्वेन सामान्यता दण्डित्वेन परिणतस्तु पुरुषो न दण्डशून्यकालेऽनुवर्तत इति तस्य विशेषतेति सामान्यविशेषभावेन तयोरभेदोऽवधार्यः । अथवा दण्डत्वपुरुषत्वाभ्यां भेदः, स च विशेषरूपतामाश्रित्य, संयुक्तत्वेन - रूपेण चाभेदः, स च सामान्यमाश्रित्य । यच्चोक्तं प्राक् पर्यायवादिना “रूपाद्यग्रहे तबुद्ध्यभावादित्यनेन तदभावाभावमुखेन रूपा- . दिग्रहे सत्येव भावादित्याख्यायते” इति तस्यापि कथञ्चिदभेदसाधकत्वाभिप्राये निर्दुष्टत्वमेवेत्याह-यच्चोक्तमवधारणमिति । अपक्षालं दोषम् । यदप्युक्तं पर्यायवादिना "पुनराशङ्कते-प्रत्यक्षानुमानाभ्यामननुभूते समुदाये कथं स्मृतिरुत्पद्यत इति, न, अनेकान्तात्, विकल्पितेऽपि ह्यर्थे स्मृतिर्दृष्टा बन्धुमत्याख्यायिकादाविति" तदधिकरोति-यदपीति, असख्यातिर्न सम्भवती-- त्यावेदनायाह-सर्वप्रकारमसतः संव्यवहारायोगादिति, प्रतिपादितेति । स च तादृशः परमार्थतोऽस्त्येव समुदाय इत्यादिग्रन्थेन प्रतिपादितेत्यर्थः । बुद्धिभेदाढ़ेद एकान्ततो भेदस्तदा स्याद्यदि सर्वप्रकारेण बुद्धिभेदस्स्यात्, न चैवम् , य.
SR No.022537
Book TitleTattvartha Trisutri Prakashika
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year1945
Total Pages150
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy