SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ भाष्यटीकाविवृतियुता] अन्वयिनो द्रव्यस्य रूपादिसमुदायमात्रतानिराकरणम्। [१९] परिणामान्तरापत्त्यैव सिद्धमार्हतानाम् , न भक्तसिक्थादिमात्रतया । यच्चोक्तम्-"रूपाद्यग्रहे घटादिबुद्धेरभावात्" इति, एतदपि जैनान् प्रति न किञ्चित् , उभयस्वभावत्वाद् वस्तुनो विभागाभावात् , रूपादिस्वरूपोल्लेखेनैव सामान्यांशः प्रतीयते, वह्निरूपस्पर्शपरिणतायोगोलकवत् , तथा वनविपक्क्या . दयोऽपि सन्निवेशविशेषाः पुद्गलानां सामान्यविशेषस्वभावाः समासादितक्रमपरिणतयः तत्त्वतोऽभ्युपेयन्ते, नोपादाय प्रज्ञप्तिमात्रम् , यदि च संस्थानमर्थान्तरं रूपादिभ्यस्तदपि परमार्थसत्, ततो रूपादिवदन्यानपेक्षमेव गृह्येत, अथ रूपस्पर्शमात्रम् , एवं तर्हि तदनेकं रूपस्पर्शवत् प्रसक्तम् , एवं चानिष्टप्राप्तेरसमञ्जसता, यदि रूपसन्निवेशविशेषो वृत्तं स्पर्शनेन न गृह्येताविषयत्वाद् रूपवत्, न वा स्पर्शविशेषश्चक्षुषा गृह्येतोक्तन्यायात् , भेदे च द्वे वृत्ते गृह्येयातामन्यत्वाद् रूपस्पर्शवत्, एवं तन्त्वादिषु तथास्थितेष्वित्यादि विचार्यमाणं विशीर्यते, तस्मादस्ति द्रव्यं तद्भावाव्ययलक्षणं स्थित्यात्मकमन्वयिरूपत्वात् , स्वभेदानां प्राक् तदा आयत्यां च मृदन्वयाविच्छेदादेकम् , न पुना रूपादिसमुदायमात्रम् , अतः सर्वैकान्तध्वंसविधायिनि स्याद्वादे दूरमपास्तमसद्विकल्पचतुष्टयम् , किं तत् ?, एवं-समूहिनः परिणामिनो अन्यप्रकारः, निरूपणीय इति, यदि स प्रकारः स्यात्तदा भवद्भिरुपदर्शयितुमपि शक्येत, न चोपदर्शयन्ति भवन्तस्तमिति स नास्त्येवेति गूढाभिसन्धिः। काञिकादिरपि भक्तादिभ्यः कथञ्चिद्वयतिरिक्त एवेति दृष्टान्तोऽपि भवदुक्तोऽस्मदनुकूल एवेत्याहकालिकाद्यपीति । अन्यदपि पर्यायवाद्युक्तमनेकान्तवादिनम्प्रति नाभीष्ट प्रसाधकमित्याह-यच्चोक्तमिति । उभयस्वभावत्वात्, द्रव्यपर्यायोभयात्मकत्वात् । विभागाभावात् , रूपादिः पर्यायः, तदाश्रयो द्रव्यं घट इत्येवं विभागाभावात् । एकमेव वस्त्वखण्डात्मकमवच्छेदकभेदेन पर्यायात्मना द्रव्यात्मना च व्यवह्रियते, न तु तस्यैको भागो द्रव्यमपरो भागः पर्याय इति विभागेनोभयात्मकम् , किन्तु द्रव्यांशस्यापि पर्यायमिश्रितत्वं पर्यायांशस्यापि द्रव्यमिश्रितत्वम् । अत एव सम्पूर्णेनैव वस्तुनाऽपेक्षाभेदेन द्रव्यव्यवहारबुद्धी पर्यायबुद्धिव्यवहारौ च भवतः, अन्यथा प्रत्येकपक्षदोषापत्तः, एतदभिसन्धानेनेव “भागे सिंहो नरो भागे योऽशो भागद्वयात्मकः । तमभागं विभागेन नरसिंहं प्रचक्षते" इत्युक्तिरुपपद्यते । विभागाभावे सति यदभिलषितं तदाहरूपादीति, सामान्यांशः खपर्यायानुगतत्वाव्यात्मा घटः, स रूपस्पर्शादिविशेषाजहद्वृत्तिरेवेति रूपादिखरूपोल्लेखेनैव प्रतीयत इत्यर्थः । एतदेव दृष्टान्तेन भावयति-वह्निरूपेति, अतितप्तायोगोलकं तत्क्षणे सर्वतोभावेन वह्निव्याप्तशरीरत्वाद्वह्निगतरूपस्पर्शसमन्वितमेवावभासते, तत्क्षणे तस्य तन्मयीभवनमेव विभाव्यते, तद्वद्धटादेरपि परितः पर्यायसम्भिन्नत्वात्त भासनम् , नैतावता तत्समुदायात्मैव घटः, तथा सति अयोगोलकस्याप्यतितप्ततादशायां वह्निरूपस्पर्शमात्रखरूपता प्रसज्येतेति । उक्तन्यायमन्यत्राप्यतिदिशति-तथेति। तत्त्वतः परमार्थतः । नोपादाय प्रज्ञप्तिमात्रमिति, प्रज्ञप्तिमात्रं बिकल्पमात्रम् , उपादाय अभ्युपगम्य, न नैव अभ्युपगम्यन्ते, वनविपक्यादयो वृक्षादिपुष्पादिभ्यो व्यतिरिक्ता न सन्त्येष, केवलं विकल्पबुद्धिप्रभाविता एव वनविपंक्त्यादिव्यवहारा इत्येवं नाभ्युपगम्यतेऽस्माभिः, किन्तु सामान्यविशेषस्वभावा बस्तुभूता एवाभ्युपगम्यन्त इत्याशयः । नोपादेयप्रज्ञप्तिमात्रमिति पाठे तु उपादेयोऽवयवेभ्यो व्यतिरिक्तोऽवयवी अर्थात् प्रत्येकवृक्षादिविभिन्नो वनादिस्तत्प्रज्ञप्तिमात्रन्तद्विकल्पमात्रन्नाभ्युपगम्यते, किन्तु समुदायिभ्यो भिन्नाभिन्नस्यैव समुदायिनो वनादेओनमभ्युपगम्यत इति । एकान्तव्यतिरेके एकान्ताव्यतिरेके च क्रमेण दोषमुद्भावयति-यदि चेति, संस्थानमिति, समुदायावयविद्रव्यादेरुपलक्षणम् । अर्थान्तरं सर्वथा व्यतिरिक्तम् । तदपि संस्थानमपि । ततः तदा, रूपस्पर्शमात्रम् , एकान्तेन रूपस्पर्शादिभ्यो. ऽव्यतिरिक्त संस्थानम् । तत् संस्थानम् । अनिष्टप्राप्तेरित्युक्तं तदेव स्पष्टयति-यदीति, वृत्तमिति, व्यस्रचतुरस्रायतपरिमण्डलादेरुपलक्षणम्, तदेति शेषः। अविषयत्वात्, रूपाभिन्नस्य वृत्तादेस्त्वगिन्द्रियागोचरत्वात् । उक्तन्यायात्, स्पर्शवत् स्पर्शाभिन्नस्य वृत्तादेश्चक्षुरिन्द्रियागोचरत्वात् , रूपाभिन्नस्य वृत्तस्य स्पर्शाभिन्नवृत्तभिन्नत्वम् , स्पर्शाभिन्नस्य वृत्तस्य रूपाभिन्नवृत्तभिन्नत्वञ्च प्रसक्तम् । तथा सति यदनिष्टं तदाह-मेदे चेति । अवयवावयविनोरपि सर्वथाऽभेद उक्तन्यायेन सम्भवतीत्यतिदिशति-एवमिति । द्रव्यसिद्धिमुपसंहरति-तस्मादस्ति द्रव्यमिति । अन्वयिरूपत्वादिति यदुक्तम् तदेव सङ्गमयति-खमेदानामिति, मृद्रव्यपर्यायाणां स्थासकोसकुशलघटादिनामित्यर्थः । प्राक् तदाऽऽयत्याश्चेति, प्राक्पदेनातीतकालस्य तदेत्यनेन वत्तमानकालस्यायत्यामित्यन्तेन भविष्यत्कालस्य परिग्रहादुक्तकालत्रयवत्तित्वेन मृदोऽन्वयित्वं नित्यत्वमेकत्वञ्च स्पष्टमेव प्रतीयते। असद्विकल्पचतुष्टयमिति, सामान्येनोक्तम् । तद्विशेषप्रतिपत्तये परः पृच्छति
SR No.022537
Book TitleTattvartha Trisutri Prakashika
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year1945
Total Pages150
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy