SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ [१८] एकान्ततोऽतिरिक्तस्यानतिरिक्तस्व चावयविनो निरासः। [तत्त्वार्थत्रिसूत्री केचिद्, अपरे तु व्यावृत्त्याकारबुद्ध्याऽध्यवसातव्या इति। न चावश्यं सतो भवितव्यमाधारण, परिकलय तावत् तस्यैव त्वत्परिकल्पितद्रव्यांशस्य क आधारः ? को वा व्योमादेरित्यलं प्रसङ्गेन । व्यवस्थितमिदमुभयस्वभावं सकलम् । तस्मान्न केवलस्य क्वचिदस्ति मृद्रव्यस्य ग्रहणम् । उपपद्यते चायमभेदप्रत्ययः, न च भ्रान्तः, सामान्यांशालम्बनत्वाद्, अतः सर्व साधु स्याद्वादप्रक्रियायाम् । एतेन रूपादिसमुदयविषयं स्मार्तमभेदज्ञानमिति प्रत्युक्तम् , उभयस्वभावत्वाद् वस्तु सत् ; सामान्यांशालम्बनभेदज्ञानम् , न पुनः सामान्यशून्यरूपादिभेदसमुदयमात्रालम्बनम् , समुदायस्य तत्त्वान्यत्वाभ्यामनिर्वचनीयत्वेनानिर्धार्यमाणस्वभावस्यापारमार्थिकत्वात् । यदप्युक्तं-"तेष्वेव हि तन्त्वादिषु तथासन्निविष्टेषु पट इत्यादिबुद्धिः प्रवर्तते, यथा भक्तसिक्थोदकेषु तथासन्निविष्टेषु काञ्जिकबुद्धिः" इति; कथं पुना सन्निविष्टेष्विति निरूप्यम् ?, ननु च पटाद्याकारेणेति किमत्र निरूप्यते ?, क पुनरसावन्यन्त्र पटा प्रसिद्धः? यस्याकारेण तन्तवः सन्निविशन्ते, यथा पार्थाकारोऽभिमन्युरिति । कश्चायं सन्निवेशः ? यदि संस्थानमेव वृत्त-व्यस्र-चतुरस्रा-यत-परिमण्डलभेदमिष्यते युग्मा-युग्म-प्रतर-घनविकल्पकम् , एवं सति प्रागस्माभिः प्रत्यपादि प्रपञ्चतः सङ्घातभेदेभ्य उत्पद्यन्ते स्कन्धास्तद्भावलक्षणपरिणामवशात् , स च तादृशः परमार्थतोऽस्त्येव समुदायः, अथान्यः कोऽपि समुदायः, स निरूपणीयः, काञ्जिकाद्यपि सामान्यस्वभावाः, अपरे विशेषस्वभावा आकाराः । ननु यत् सत् तत्साधारमिति व्याप्तेः सतोस्सामान्यविशेषयोस्साधारत्वमवश्यमभ्युपगन्तव्यम् , आधाराधेयभावश्च भेदनियत इति सामान्यविशेषाधारस्तव्यतिरिक्तो द्रव्यांशोऽवश्यमभ्युपगन्तव्य इत्यत आह-न चेति, उक्तव्याप्तिरेवासिद्धा । अन्यथा तबलाव्यस्यापि सत आधारः परिकल्प्यः स्यात्तस्यापि च सत्त्वादाधारान्तरमेवन्तस्यापीत्यनवस्था स्यादित्याशयेनाह-परिकलयेति। न च गगनमेव सर्वद्रव्याधारभूतम् , स्वस्मिन् खवृत्तिविरोधेन तस्यैवानाश्रितस्याभ्युपगमनीयत्वादित्याह-को वेति । निगमयति-व्यवस्थितेति, तस्मादुभयखभावत्वात् । न च द्रव्यप्रत्ययस्य भ्रान्तत्वादेव न विशेषसम्भिन्नसाधकत्वमत आह-नच भ्रान्त इति, अभेदप्रत्यय इति सम्बध्यते, निरालम्बनत्वमेव सामान्यापलापिबौद्धमते भ्रान्तत्वम् , पूर्वोत्तरपर्यायानुगतमृद्रव्यावगाही चामेदप्रत्ययः, तस्य मृद्रव्यरूपसामान्यांशावलम्बनात्वादेव न भ्रान्तत्वमित्याह-सामान्यांशेति । वस्तूनां सामान्यविशेषस्वभावत्वव्यवस्थापनेन एकान्तपर्यायवादिमतमप्युन्मूलितमेवेत्याह-पतेनेति । एतेनेत्यतिदिष्टमेव हेतुं सङ्गमयति-उभयस्वभावत्वादिति, सामान्यांशालम्बनभेदज्ञानमिति, सामान्यविषयकं सद्विशेषविषयकं भेदज्ञानम् , न तु सामान्यांशं परित्यज्य विशेषमात्रविषयकं तत् , सामान्यविनिमुक्तस्य विशेषस्याभावादित्यर्थः । स एवायं घटो यमहमद्राक्षमहनि रात्रौ वा यं चास्प्राक्षमित्यभेदज्ञानस्य रूपादिभेदसमुदायमात्रावलम्बनत्वासम्भवमुपदर्शयति-न पुनरिति। समुदायस्य समुदायिभ्यो भिन्नत्वमभिन्नत्वं वा?, आये समुदायिभानमन्तरेणापि तत्समुदायावभासप्रसङ्गः, यद्धि यतो भिन्नं तत्तद्भानमन्तराऽपि भासते, यथा स्पर्शो रूपादिभानमन्तरेणापि स्पार्शनज्ञाने, न चानुभूयते रूपस्पर्शादिसमुदायिनमन्तरेण तत्समुदायः, तस्मान्न प्रथमः पक्षः, नापि द्वितीयः, तथा सति एकैकस्य समुदायिनो भानेऽपि तद्भानप्रसङ्गः । अतो द्रव्यरूपतामन्तरेण तस्यापारमार्थिकत्वमेवेत्याह-समुदायस्येति, तत्त्वं समुदायिभ्योऽभिन्नत्वम् । सन्निवेशविशेषभावानानावयवानामेवावयित्वं न त्ववयवी अवयवानुगतोऽतिरिक्त इत्यप्येकान्तवादो न क्षोदक्षम इत्याह-यदप्युक्तमिति । अवयवानतिरेकवादिनं पृच्छति-कथमिति, केन प्रकारेणेत्यर्थः। अवयवानतिरेकवादी उत्तरयतिननु चेति । क्वचित्प्रसिद्धेनैवाकारेण केनचित्केषांचित्परिकल्पना भवति, पटाद्याकारस्तु न तन्तून्विरहय्य क्वापि प्रसिद्ध इति न पटाद्याकारेण सन्निविष्टेष्विति वक्तुं शक्यते, दृष्टान्तेऽपि न सर्वथाऽभेदः कथञ्चित्तस्यैव कालिकादेस्तथाबुद्धिविषयत्वादेवं सेनावनादेरपीत्याशयमुद्घाटयति सिद्धान्तवादी-क पुनरसावन्यत्रेति। प्रसिद्धस्यैवान्यत्र सन्निवेश इत्यत्र दृष्टान्तमाह-यथेति, पार्थः, अर्जुनः, अभिमन्युः, अर्जुनस्य पुत्रः, सन्निवेशोत्याऽप्यवयव्येव कथञ्चिद्व्यतिरिक्तः खीकृतः परेण, अन्यथा तनिर्वचनमशक्यमित्याशयवान् सिद्धान्ती परं पृच्छति-कश्चायं सन्निवेश इति । सन्निवेशस्य संस्थानखरूपत्वं यदि परो ब्रूयात्तदा सिद्धं नस्समीहितमित्याशयेनाह-यदीति,एवं सति, सन्निवेशस्य संस्थानविशेषरूपत्वाभ्युपगमे सति संस्थानविशेषव्यतिरिक्तरूपत्वेन सनिवेशो न निरूपयितुं शक्यस्तस्य प्रकारान्तरस्य स्याद्वादविनिर्मुक्तस्य दर्शयितुमशक्यत्वादित्याशयेनाह-अथेति । स इति,
SR No.022537
Book TitleTattvartha Trisutri Prakashika
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year1945
Total Pages150
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy