________________
भाष्यटीकाविवृतियुता] माध्यमिकमतशून्यतायाः कणादादृतातिरिक्तावयविनश्च निरासः। [१७] पादकसद्भावात् । सांवृत एव व्यवहार इति चेत्, तदप्यसत् , संवृतिः प्रमाणमप्रमाणं वा स्यात् ? यदि प्रमाणं सतो बाधकप्रमाणाभावात् परमार्थसत्त्वं प्रत्यक्षादिवत् , अथाप्रमाणं संवृतिः ततो देवानांप्रियस्य व्यर्थः प्रयासः, प्रमाणप्रतीतिनिबन्धत्वात् प्रेक्षापूर्वकारिव्यवहाराणाम् । अथ सकलशून्यताप्रसङ्गमीत्या सामान्यविशेषयोस्तुल्यत्वमेव वस्तुतयाऽभ्युपेयते ततः सामान्यविषयस्वभावं सर्वमिति व्यपेतशत प्रतिपद्यस्ख, परस्परं वा स्वभावविरहाभावात् सामान्यविशेषयोः सङ्कीर्णतायां सत्यामपि धर्मभेदप्रसिद्धः समस्तव्यवहारसम्प्रसिद्धिः, कारकशक्तिवत्; कारकशक्तयो ह्येकद्रव्याव्यतिरिक्तत्वात् सङ्कीर्णा अपि कार्यभेदाद् भेदमनुपतन्य एवोपलभ्यन्ते विशिष्टव्यवहारहेतवः, तद्वदत्रापि द्रष्टव्यम् । न च सामान्यविशेषव्यतिरिक्तः कश्चिदनयोः सामान्यविशेषयोराधारभूतो द्रव्यांशोऽपरः समस्ति परपरिकल्पितः, तुल्यातुल्यांशव्यतिरेकेणानुपलभ्यमानत्वाद् द्रव्यांशस्य; यदि तावदसावन्यस्माद् व्यावृत्ततयाऽवगम्यते ततो विशेष एव, अथानुवृत्तिद्वारेण परिच्छिद्यते सामान्यांशः स्यात्, न चान्यथा प्रत्ययप्रवृत्तियाँ द्रव्यमालम्बेत, अतो वस्त्वेकमनेकाकारम् ; आकाराश्चानुवृत्तिप्रत्ययावसेयाः नुरोधेन च शून्यतारूपः प्रमेयः, तत्साधकं प्रमाणं, प्रतिपाद्यो जगत्सत्यत्ववादी, प्रतिपादकश्च खात्मा शून्यवादिनाऽभ्युपगन्तव्य एवेति कथं सर्वशून्यता, तदृष्टान्तेन तत्तुल्यन्यायादन्यस्यापि संसिद्धौ पूर्णताया एव जगति विश्रान्तेः, शून्यतायां प्रमाणानुपन्यासे कथं शून्यतासिद्धिः, तत्सिद्धौ प्रमाणानपेक्षणे पूर्णतासिद्धावपि तदपेक्षा मास्त्विति पूर्णतैव किन्न सिद्ध्येत् प्रमाणोप्रन्यासे च शून्यतासाधकप्रमाणस्य सत्वं वाच्यमिति व सर्वशून्यता, तदुक्तम्
शून्ये मानमुपैति चेननु तदा शून्यात्मता दुःस्थिता नो चेत्तर्हि तथापि किन्न सुतरां शून्यात्मता दुःस्थिता।
वन्ध्या मे जननीत्यमुख्यसदृशीमप्याश्रयन् शून्यतां शङ्के दुश्शकसाहसैकरसिकः खामिन्नसौ सौगतः ॥१॥ इति, इत्याद्यभिप्रायावष्टम्भेन माध्यमिकमतमपहस्तयति-तदयुक्तमिति, कथायां प्रमाणादीनां सत्त्वं सांवृतमेवोपयुज्यते न वास्तविकमिति शून्यवादी शङ्कते-सांवृत एवेति, व्यवहारः, प्रमाणप्रमेयप्रतिपाद्यप्रतिपादकादिव्यवहारः, संवृतिः सती न वा?,
आये तदधीनव्यवहारस्यापि सत्त्वमवर्जनीयम् , असती चेत् गगनकुसुमस्येव न तस्या व्यवहारोपपादकत्वमित्याशयेन संवृति विकल्प्य दूषयति-तदप्यसत्, संवृतिः प्रमाणमप्रमाणं वा स्यादिति । आये प्रमाणभूतसंघतिविषयस्य बाधक प्रमाणाभावात्सत्त्वं पारमार्थिकमेवेति न शून्यतेत्याह-यदि प्रमाणमिति । द्वितीये प्रामाणिकानां परिषदि प्रमाणेनैव सत्त्वमसत्त्वं वोपपादनीयमिति प्रमाणबहिर्भूतया संवृत्या व्यवहृतिसत्त्वोपपादनं प्रयासमात्रफलकमेवेत्याह-अथाप्रमाणं संवतिरिति । सामान्यविशेषयोर्द्वयोरप्यबाधितप्रमाणविषयत्वात्तुल्यस्वरूपत्वमेव प्रामाणिकैरभ्युपेयं सर्वशून्यताप्रसङ्गभीतिमद्भिरिति वस्तुत्वं सामान्यविशेषखभावत्वसमनियतमनुभवानुरोधादापतितमेवेत्याह-अथ सकलशून्यताप्रसज-भीत्येति । तदभिच्याभिन्नस्य तदभिन्नत्वमिति न्यायेन सामान्याभिन्नवस्त्वभिन्नत्वाद्विशेषस्य सामान्याभिन्नत्वेऽपि न नः किञ्चिदपचीयते विविक्तलक्षणयोगाद्भेदस्याप्यबाधाद्भेदाभेदयोरेकत्र विभिन्नाबच्छेदेन वृत्तौ विरोधाभावात्तावतैव समस्तं प्रामाणिकव्यवहारोपपत्तिरित्याहपरस्परं वेति, वाकारश्वार्थे । स्वभावविरहाभावादिति, निषेधद्वयोपादानमेकस्वभावत्वदाार्थम्, धर्मभेदः सामान्यत्वविशेषत्वादिः । कारकशक्तिवत् कारणत्ववत् । एकस्मिन् कारणे विविक्तानेककार्यकारणत्वशक्तयस्समवयन्ति, तासां च सक्तीनां खाश्रयद्रव्याव्यतिरेकात्तदभिन्नाभिन्नस्येति न्यायेन परस्परमभिन्नत्वं निरूपकीभूतकार्यभेदाद्भिन्नत्वमपि, तथैव सामान्यविशेषयोरपीत्यावेदयितुमाह-कारकशक्तयो हीति, विशिष्टव्यवहारेति, घटकारणं गवानयनादिकारणश्च दण्ड इत्यादीत्यर्थः । द्रव्यमाश्रयः, तत्राश्रितो सामान्यविशेषौ ततो भिन्नावित्यभ्युपगच्छन्तं वैशेषिकम्प्रत्याह-न च सामान्यविशेषव्यतिरिक्त इति, परपरिकल्पितः, वैशेषिकाभ्युपगतः । निषेधे हेतुमाह-तुल्यातुल्यांशव्यतिरेकेणेति, सामान्यविशेषभिन्नतयेत्यर्थः । सामान्यविशेषाव्यतिरिक्तत्वमेवोपपादयति-यदीति, असौ द्रव्यांशः, विशेष एवेति, अन्यव्यावृत्तत्वस्यैव विशेषत्वरूपत्वादिति भावः, अनुवृत्तिद्वारेण, अनुगततया, अन्यथा, अनुवृत्तिभिन्नप्रकारेण, एतदर्थसंवादकञ्च"स्वतोऽनुवृत्तिव्यतिवृत्तिभाजो भावा न भावान्तरनेयरूपाः । परात्मतत्त्वादतथात्मतत्त्वाइयं वदन्तोऽकुशलाः स्खलन्ति ॥१॥" इति श्रीमद्धेमचन्द्रसूरीशवचनम् । फलितमाह-अत इति, अनुवृतिप्रत्ययावसेया:, अनुगतबुद्धिविषयाः, केचित
त. त्रि. ३