________________
[१६] सामान्यांशे प्रमाणगोचरतां गतेऽपीन्द्रियविषयसांकर्याभावः । [तत्वार्थन्त्रिसूत्री चक्षुरादिज्ञानावरणकर्मक्षयोपशमविशेषात् तादृश एवासौ क्षयोपशमो येन समस्तान्येवेन्द्रियाण्येकसामान्यग्रहणे व्याप्रियन्ते, न पुनर्विशिष्टान्यान्यार्थग्रहणे, तथा दृश्यमानत्वात् । न चास्ति काचिदू युक्तिर्यद् विवक्षितं वस्तु सर्वथा वस्त्वन्तरेणासदृशं स्वरूपेऽवस्थास्यते, सर्वप्रकारमतुल्यत्वाद् वन्ध्यासुतादिवत् , अतो भावान्तरेण तुल्यताऽवश्यमभ्युपेया विवक्षितस्य वस्तुनः सत्त्वमिच्छता। तच्च सामान्यं ध्रौव्यलक्षणम् । न चैतद् बुद्धिपरिकल्पनामात्रे सामान्ये घटते, परिकल्पस्य वस्त्वसंस्पर्शात् तादवस्थ्यं दोषाणाम् , परिकल्पश्चाभूतोऽपि तत्त्वतो वस्तुष्वेव तादृशीं धियमुत्पादयति, नावस्तुषु वाजिविषाणादिष्विति किमत्र कारणम् ?, उपादाय वस्तु विकल्पः प्रवर्तत इति चेत् , तदसत्, तस्य वस्तुनो वस्तुत्वेनानिर्धारितत्वान्नोपादानकारणता, न च सर्वथा वस्तुनः तुल्यतैव, यदि स्यात् ततो वैरूप्यशून्यत्वाद् विवक्षितं वस्तु वस्त्वन्तरादन्यदित्येष प्रत्ययो न स्यात् , केनचिदप्याकारेण भेदाभावात् , अतो भेदमभिलषता प्रेक्षापूर्वकारिणा वैरूप्यमपि केनचिदाकारेणाभ्युपेयम् , एवं चेत् सामान्यविशेषखभावं सर्वदा सर्वमेव वस्त्विति प्रतिपत्तव्यम् । न च सामान्यविशेषयोः स्खलक्षणभेदेऽप्यत्यन्तभेदः, शबलरूपत्वात् , वस्तुनश्च वस्तुतयाऽपि वस्त्वन्तरातुल्यत्वेऽन्यतरस्यावस्तुत्वप्रसङ्गात् तदविनाभावाच्च द्वितीयस्याप्यभाव इति सर्व शून्यं स्यात् , इष्यत एवेति चेत् , तदयुक्तम् , प्रमाणप्रमेयप्रतिपाद्यप्रतिकैलक्षण्यमपीत्याशयेनाह-चक्षुरादीति । इन्द्रियविषयसङ्करहेतोः क्षयोपशमविशेषस्य माहात्म्यमाविर्भावयति-तादृश एवेति, विशिष्टेति, सर्वथा विलक्षणेत्यर्थः, तेन विशेषांशमादाय विभिन्नार्थग्राहित्वस्य सिद्धान्त्यभ्युपगतत्वेऽपि न क्षतिः । उक्ताभ्युपगमेऽनुभवं प्रमाणयति-तथा दृश्यमानत्वादिति । ननु सर्व वस्तु परस्परं विलक्षणमेव ततो न सामान्यांशसम्भावनाऽपीत्यत आह-नचास्तीति । यद्धि न केनचित्सदृशं तन्न सत् यथा वन्ध्यासुतः, असदृशं च वस्त्वभ्युपगम्यते पर्यायैकान्तवादिनेति तदपि न सत्स्यादित्याह-सर्वप्रकारमतुल्यत्वादिति, तच्च तुल्यतालक्षणच । ननु कल्पितेनैव सामान्येन तुल्यताऽस्तु कोऽत्र दोष इत्यपेक्षायामाह-न चैतदिति, एतत् तुल्यत्वम् । परिकल्पस्य, कल्पनैकमात्रशरीरस्य सामान्यस्य । वस्त्वसंस्पर्शात्, पारमार्थिकवस्तुसंसर्गाभावात् । तादवस्थ्यं दोषाणामित्युक्तं तदेव स्पष्टयति-परिकल्पश्चेत्यादिना, किमत्र कारणमित्यन्तेन, किमत्र कारणमित्यस्य काका नास्त्यत्र कारणमित्यर्थः । वस्तून्युपादाय विकल्पः प्रवर्तते नावस्तूनि, ततो वस्तुष्वेवानुगतबुद्धि वस्तुषु शशविषाणादिष्विति परः शङ्कते-उपादायेति, वस्तु उपादायेत्यन्वयः, वस्तुनः विकल्पं प्रति कारणत्वे सति वस्तु उपादायेति वक्तुं शक्यते, कारणत्वं च वस्तुत्वेनैव वाच्यम्, अन्यथा शशशृङ्गादिकमुपादायापि अनुगतबुद्धिः प्रवर्तेत, वस्तुत्वश्चोत्पादव्ययध्रौव्ययुक्तत्वमिति ध्रौव्यांशमन्तरेण न निर्णयविषय इति । ध्रौव्यांशाभावे शशशृङ्गादिवद्वस्तुत्वेनाभिमतस्यापि वस्तुत्वाभावाद्वस्तूपादाय विकल्पः प्रवर्तत इति वक्तुं न शक्यत इति समाधत्ते-तदसदिति, एतावता सर्वथा पर्यायरूपतैवेत्यस्य व्यवच्छेदः । इदानीं सर्वथा सामान्यरूपमेव वस्त्वित्यपि नास्तीत्याह-नच वस्तुन इति । सर्वथा वस्तुनस्तुल्यताभ्युपगमे दण्डमाह-यदि स्यादिति. सर्वथा यदि वस्तुनः तुल्यता स्यादित्यर्थः । ततः तदा । भेदमभिलषता, विवक्षितं वस्तु वस्त्वन्तरादन्यदिति भेदप्रतीतिमभिलषतेत्यर्थः, तेन द्रव्यैकान्तवादिनो भेदाभिलाषाभावेऽपि न क्षतिः, व्यवहारान्यथानुपपत्त्या भेदप्रतीतिस्तस्यापीष्टत्वादभिलाषागोचर इत्यभिसन्धिः । अनुगतप्रतीत्यनुरोधेन सामान्यस्य व्यावृत्तिप्रतीत्यनुरोधेन भेदस्य च सिद्धौ सत्यां यन्निष्पन्नं तदाह-एवं चेदिति । ननु सामान्यविशेषयोः परस्परविविक्तलक्षणकत्वेनैकवस्तुखरूपत्वं कथं स्यालक्षणात्मकविरुद्धधर्माध्यासात्परस्परं भेद एव स्यादित्यत आहनचेति, खलक्षणभेदेऽपीति, सामान्यस्य यल्लक्षणमनुगतप्रतीतिजनकत्वं विशेषस्य च यल्लक्षणं व्यावृत्तिबुद्धिजनकत्वं तद्धदाढ़ेदेऽपीत्यर्थः । न चात्यन्तभेद इत्यत्र हेतुमाह-शबलरूपत्वादिति, चित्रस्वभावत्वादित्यर्थः, वस्तुत्वेन रूपेण सर्वेषां वस्तूनामैक्यं स्वस्खासाधारणरूपेण भेद इत्येवं भेदाभेदसंवलनात्मकत्वादिति यावत् । एतदेव भावयितुमाह-वस्तुन
ति, एकेन वस्तुना समं द्वितीयस्य वस्तुनस्तुल्यत्वं तदैव न भवेद्यधुभयोर्वस्तुत्वं न स्यात्, अन्यथा वस्तुत्वस्योभयत्र सत्त्वासपेण तुल्यतां को वारयिता, वस्तुत्वाभावे चावस्तुत्वं स्यादेवेत्यर्थः । अत्र माध्यमिक आह-इष्यत पवेति, सर्वस्य
ज्यत एवेत्यर्थः । शन्यताऽपि कथायामेव केनचित्प्रमाणेन शून्यतावादिना जगत्सत्यस्ववादिनम्प्रति साधनीया, तद