________________
भाष्यदी का विवृतियुता] एकान्तवादिना दत्तदूषणे स्याद्वादानवबोधो बीजम् ।
[१५]
भवति, भवतु नाम को दोष: ? सर्वथा मनोविज्ञानमेवेदम्, तच्चाभूतं विकल्पमात्रमित्येतदसत्, अतो यदवाचि-“ननु रूपादिव्यतिरेकेण मृद्द्रव्यमित्येकवस्त्वालम्बनञ्चाक्षुषः प्रत्ययः प्रत्याख्यातुमशक्य इति” तत्स्वमतिजृम्भितसमुत्थापित विकल्पमात्रम्, स्याद्वादिप्रक्रियानवबोधात् यतो न रूपादिभ्यो ऽत्यन्तव्यतिरिक्तं किञ्चिद् द्रव्यमस्ति, कथञ्चिद् भेदे वा परस्याभ्युपेतबाधा स्यात्कारलाञ्छनार्थज्ञानवचसो वा वादिनः सिद्धसाध्यतासमास्कन्दनात् सर्वमसमीचीनम् । न चान्धतमसादौ केवलमृद्रव्यग्रहणमस्त्यभिहितन्यायात्, अपि च
" द्रव्यं पर्यायवियुक्तं पर्याया द्रव्यवर्जिताः । क कदा केन किंरूपा दृष्टा मानेन केन वा ? ॥"
हि विशेषनिरपेक्षो धौव्यांशः सामान्यलक्षणः कश्चिद् विद्यते यो गृह्येत केवलः, न च सामान्यनिरपेक्षः कश्चिद् विशेषो नाम विद्यते य इन्द्रियाणां गोचरतामापद्यते ॥ अथैवमाशङ्केथा:न ब्रूमो नास्ति सामान्यांशः, स हि विद्यमानोऽपि ग्रहणकाले ग्रहीतुमशक्य इति विशेषमात्रग्रहणमेवेति, एवं तर्हि सामान्यांशस्वशरीरविरहाद् विभावत्वाद् व्योमोत्पलादिवत् कुतो विशेषग्रहणम् ? । सामान्योपलम्भानुभवविरोधश्च सामान्यशून्यविशेषमात्र प्रहणवादिनः । नापीन्द्रियविषयसङ्करः,
"
"
सर्वथेति, मनोविज्ञानमेवेत्येवकारेण तादृशज्ञानस्य चक्षुरादिप्रभवत्वव्यवच्छेदः । भवतु मनोविज्ञानमेव तत् तेनापि च द्रव्यपर्यायात्मकत्वं वस्तुनः सेत्स्यतीत्या वेदयितुमाह - तच्चाभूतमिति, अभूतमित्यस्यायथार्थमित्यर्थः । इत्येतदसत् एवमभ्युपगमो निष्प्रमाणक इत्यर्थः । व्यवस्थिते च द्रव्यपर्यायोभयात्मकत्वे, द्रव्यैकान्तवादिप्ररूपितयुक्तिजालमयुक्तमेवेत्याह- अतो यदवाचीति, स्याद्वादिप्रक्रियामेवोपदर्शयति-यत इत्यादिना । कथञ्चिद्भेदे वेति द्रव्यस्य रूपादिपर्यायेभ्यः कथचि - द्भेदाभ्युपगमे वेत्यर्थः । परस्य द्रव्यैकान्तवादिनः । अभ्युपेतबाधा, स्वाभ्युपगतस्य पर्यायात्सवैथा व्यतिरिक्त द्रव्यवादस्य बाधा, तथा चैवमभ्युपगमेऽपसिद्धान्तदोषो दुरुद्धरः । स्याद्वादीष्टसिद्ध्यापीत्येतद्वचनस्य परम्प्रत्य समज सत्वमिति ववधाय कृत्वोत्थापनमेव स्यादित्याह - स्यात्कारेति वादिनः स्याद्वादिनः । यत्पुनर्द्रव्यवादिना पूर्वमुक्तम् - "सन्तमसपटलावच्छादितप्रदेशवत्तिंनि वा मृद्दव्ये स्पर्शनज्ञानमभिन्नगृहव्यालम्बनम सत्यमिति वा भाषितुं न पार्यते" इत्यादि, तदपि न युक्तमित्याहन चान्धतमसादाविति, अभिहितन्यायादिति, ज्ञानमात्रे द्रव्यपर्यायोभयविषयकत्वव्यवस्थापकपूर्वोक्तयुक्तेरित्यर्थः । चक्षुरादिज्ञानस्य जात्यन्तरविषयकत्वे युक्तयन्तरमाह - अपि चेति, द्रव्यमिति, व्यक्तमदः, क्क कस्मिन्देशे, कदा कस्मिन्काले, केन केन प्रमात्रा, किंरूपाः किं प्रकाराः, केन मानेन प्रत्यक्षाद्यन्यतमेन केन प्रमाणेन, दृष्टा अवलोकिताः, अर्थात् नैवेत्यर्थः, एतदेव भावयति-नहीति । पर्यायवादिमतमाशङ्कय प्रतिक्षिपति - अथैवमाशङ्केथा इति । स सामान्यांशः, हि यतः, एवं तर्हि सामान्यांशस्याग्रहणे हि सामान्यांशस्वशरीरविरहादिति, द्रव्यासहित एव पर्याय इति पूर्वं निर्णीतमेव, तत्र सामान्यांशाग्रहणे तन्नियतविशेषस्याप्यग्रह इति सामान्यरूपं यत् स्वस्य विशेषस्म शरीरं तद्विरहात् एवं सति विभावत्वात्, विगतो भावस्सत्ता यस्मात्स बिभावस्तत्त्वात् उत्पादव्ययधीन्यात्मकत्वं हि सत्त्वम्, तच्च द्रव्यपर्यायोभयरूपत्वे सत्येव भवति ध्रौव्यांशाभावे तन्न भवत्येव तथा च व्योमोत्पलादिवत्कुतो विशेषग्रहणमिति, व्योमोत्पलादेरप्यग्रहणे उक्तलक्षणसत्त्वाभाव एव नियामकः स च प्रकृतेऽप्यविशिष्ट इति विशेषमात्र ग्रहणमिति रिकं वच इति भावः । नह्यनुभवमभिभूय किमपि कल्पयितुं शक्यते, अनुभवच सामान्यांशग्रहणस्यापीति तदपलाप आग्रहमात्रविलसित इत्याह- सामान्योपलम्भेति नतु यदि न सामान्यां परित्यज्य विशेषमात्रग्रहणं चक्षुरादिभिस्तर्हि तेषां विषयसंकरः स्यात्, असंकीर्णविषयतया च तेषामुपगमः प्रामाणिकानामिति विषयसाङ्कर्यपरिहाराय सामान्यांशाग्रहणमेव न्याय्यमित्यत आह- नापीन्द्रियविषयसङ्कर इति, सर्वथा विषयसार्य तदा स्याद्यदि सामान्यमात्रमेवालम्बनं सर्वेषां स्यान्न चैवं, किन्तु विशेषोऽपि तदशरूपप्रतिनियतविषयकत्वाद्विषयांसार्यमध्य स्त्येव, अनुभवस्य दुरपह्रत्वात्सामान्यांशरूप विषयसां कर्यन्त्विष्टमेव, सर्वत्र कथाश्चित्प्रकारस्य स्याद्वादिभिरभ्युपगमात्सामान्यांशरूपविषयाभेदेऽपि खखावरणकर्मक्षयोपशमरूपकारण वैलक्षण्याद्वैलक्षण्यं चक्षुरादिज्ञानानां सम्भवत्येव । एवं विशेषांश विषय