SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ प्रमाणोपदर्शनं तत्र द्रव्यपर्यायावभासचर्चा च। [तस्वार्थत्रिसूत्री वस्तुनि कदाचिदभेदप्रत्ययः स्ववासनावेशात् केवलमन्वयिनमंशमुपगृहमानः प्रवर्तते, कदाचिद् भेदमात्रवादिनो भेदावलम्बनः प्रत्ययः प्रादुरस्ति, स्याद्वादिनस्तु जिज्ञासितविवक्षितार्थायत्तज्ञानाभिधानस्य द्रव्यपर्याययोः प्रधानोपसर्जनभावापेक्षया समस्तवस्तुविषयव्यवहारप्रवृत्तिर्वस्तुतत्वमनेकाकारमेव ॥ यथाऽऽह "सर्वमात्रासमूहस्य, विश्वस्यानेकधर्मणः । सर्वथा सर्वदाभावात् , कचित् किश्चिद् विवक्ष्यते ॥" इति । भवतु नाम विवक्षावशाद् वचनव्यवहारः, चक्षुरादिज्ञानं पुनः प्रवर्तमानं न सहते कालान्तरम् , प्रथमसम्पात एव स्वविषयग्रहणात् , तद् यदि भेदाभेदस्वभावं वस्तु किमिति प्रथमत एव तदुल्लेखमिन्द्रियज्ञानं नोत्पद्यते, अतो मनोविज्ञानविकल्पमात्रं द्रव्यपर्यायाविति ? । अत्रोच्यतेचक्षुरादिविज्ञानान्यवग्रहादिक्रमेणोत्पद्यन्ते, अर्थावग्रहश्चैकसामायिकः प्राक्, ततो मुहूर्ताभ्यन्तरवर्तीहाज्ञानं, ततोऽपायज्ञानमनन्तरं प्रमाणमिन्द्रियमेव व्यापारयतो निश्चिताकारमुपजायते, तद्भावे भावात् सदभावे चाभावात् , निश्चयश्चक्षुरादिविषयोऽप्यस्ति मनोविषयश्चाष्टाविंशतिविधत्वान्मतेर्बह्वादिभेदेन वा बहुतरविकल्पत्वाद्, अस्त्येवेदं निश्चिताकारमिन्द्रियस्य ग्रहणं द्रव्यपर्यायाविति, मानसमपि यदि रस्तीत्यतः पूर्व केवलं व्यावृत्तस्वरूपमंशमुपगृहमान इति दृश्यम् , उभयत्रान्यांशे गजनिमीलिकामवलम्बमान इत्यपि दृश्यम् , खवासनावेशादिति चोत्तरत्रापि हेतुः । नयवक्तव्यतामुपदर्य प्रमाणवक्तव्यतामाह-स्याद्वादिनस्त्विति, द्रव्यपर्याययोः प्रधानोपसर्जनभावापेक्षया समस्तवस्तुविषयव्यवहारप्रवृत्तिः जिज्ञासितविवक्षितार्थायत्तज्ञानाभिधानस्य स्याद्वादिन इत्यन्वयः, जिज्ञासितविवक्षितार्थायत्ते ज्ञानाभिधाने यस्य भवतस्स जिज्ञासितविवक्षितार्थायत्तज्ञानामिधानस्तस्येत्यर्थः, अत्र स्याद्वादिनो योऽर्थो येन द्रव्यात्मना पर्यायात्मना वा जिज्ञासितो भवति तस्यार्थस्य तेन रूपेण ज्ञानम्भवति यश्चार्थो येन द्रव्यात्मना पर्यात्मना वा विवक्षितो वक्तुमिष्टो भवति तस्यार्थस्य तद्रूपमुपादायाभिधानम्भवति । एतस्माजिज्ञासाविवक्षावैचित्र्यात्स्याद्वादे द्रव्यपर्याययोरेकत्र वस्तुनि समप्रधानभावेऽपि प्रधानोपसर्जनभावावलम्बनेन समस्तवस्तुभ्यवहारः प्रवर्त्तते, नैतावता वस्तुत्वं द्रव्यमात्रवृत्ति पर्यायमात्रवृत्ति वा, किन्तु द्रव्यपर्यायानेकाकारवृत्त्येव, व्यवहारवैचिज्यस्यैवमपि जिज्ञासाविवक्षावैचित्र्यत उपपत्तरित्यर्थः। उक्तमर्थ प्राचीनसम्प्रतिपत्त्या दृढीकरोति-यथाहेति, सर्वमात्रासमूहस्येत्यत्र मात्रापदं द्रव्यपर्यायांशपरम् , सर्वथा सर्वप्रकारेण द्रव्यपर्यायादिस्वभावेन । एवं सति कुतो न सर्वरूपेण सर्वस्याभिधानमित्यत आह-कचिदिति, यदा यस्य येन रूपेण विवक्षा तदा तेन रूपेण तस्य व्यवहार इत्यर्थः । वस्तुन उत्पादादित्रयात्मकत्वे मेदामेदखरूपस्य घटादेश्चक्षुर्जन्यज्ञाने प्रथमत एव भानं स्यात्तस्यार्थजन्यत्वादर्थस्य च व्यात्मकत्वादित्याशकते-भवतु नामेति, अतः, चक्षुस्सन्निपातानन्तरजायमानज्ञानेऽर्थजन्ये भेदाभेदादेरप्रतिभासनात् , अवग्रहादिक्रमेण प्रवर्त्तमानस्य चक्षुरादिप्रभवस्य ज्ञानस्य सामान्य विशेषविषयकत्वाद्भेदाभेदादिविषयकत्वमस्त्येवोपयोगदैर्घ्यमाश्रित्येति सिद्धान्ती समाधत्ते-अत्रोच्यत इति, अवग्रहादीत्यादिपदादीहापायधारणानां परिग्रहः, व्यञ्जनावग्रहस्यार्थाविषयकत्वादर्थावग्रहमादीकृत्य क्रममुपदर्शयति-अर्थावगाहश्चेत्यादि, सामान्यमात्रेण वस्तुग्रहणमवग्रहः किश्चिदस्तीति, प्रायो वृक्षेणानेन भवितव्यमितीहा, वृक्ष एवायमित्यपायः, धारणा चापायस्यैवोत्तरकालावस्थानपरिणामस्य संज्ञेति, तथा चैतावच्चतुष्टयस्वरूपतामास्कन्दतो दीर्घोपयोगरूपस्य चक्षुरादिप्रभवमतिज्ञानस्य भेदाभेदात्मकवस्तुविषयकत्वमस्त्येवेति युक्तमुत्पादाद्यात्मकत्वं वस्तुन इति, इन्द्रियमेव व्यापारयतः प्रमातुनिश्चिताकारमपायज्ञानं प्रमाणमुपजायत इत्यन्वयः। इन्द्रियमेवेत्येवकारेण तस्य ज्ञानस्य मानसविकल्परूपत्वव्यवच्छेदः । तस्येन्द्रियप्रभवत्वेऽन्वयव्यतिरेको प्रमाणयति-तद्भावे भावादिति । चक्षुरादिविषयः, चक्षुरादीदियजन्यः, चक्षुरादिना विषयो यस्य भवतीति व्यधिकरणबहुव्रीहेरन्यत्रासाधुत्वेऽप्यत्रागत्या खीकरणीयत्वम्, अथवा चक्षुरादिपदं चक्षुरादिविषयपरं, तथा च चक्षुरादिश्चक्षुरादिविषयो विषयो यस्यति बहुव्रीहिरेवात्र साधुः । मनोविषयश्चेत्यत्रापि निश्चय इत्यनुवर्तते, अर्थगतिः पूर्ववत् । अष्टाविंशतिविधत्वादिति, एतच्च प्रथमाध्याये प्रपञ्चितम् । तथा च चक्षुरादिप्रभवमपि ज्ञानं द्रव्यपर्यायालम्बनमुपपद्यत इत्याह-अस्त्येवेदमिति, इदं द्रव्यपर्यायाविति निश्चिताकारं ग्रहणमिन्द्रियस्यास्त्येअत्यन्वयः। इन्द्रियस्येत्यत्र जन्यजनकभावलक्षणसम्बन्धार्था षष्ठी। मानसस्यापि द्रव्यपर्यायविषयकग्रहणस्य नासद्विषयकत्वं तेनापि च द्रव्यपर्यायोभयात्मकत्वं वस्तुनोऽभ्युपगन्तव्यमेवेत्याह-मानसमपीति, मानसस्यापि नायथार्थत्वमिति प्रपञ्चयति
SR No.022537
Book TitleTattvartha Trisutri Prakashika
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year1945
Total Pages150
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy