SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ भाष्यटीकाविवृतियुता] मिथोनिरपेक्षनयद्वयस्योपसंहारः, सापेक्षस्य तु सल्लक्षणता। [१३] योद्धटयोर्वा न किश्चित् स्वसिद्धं रूपमस्ति, तन्तुषु मृदि वा यः कारणप्रत्ययः स पटकुम्भाचशेषार्थान्तरापेक्षया, न स्वसिद्धः, तस्मात् तन्तुपटयोर्यस्तन्तुपटप्रत्ययः स इतरेतराश्रयत्वादसदर्थविषयः, तथा मृद्घटयोः, अतत्कारणकार्ययोरभाव एव स्वरूपस्यासिद्धत्वाद् व्योमोत्पलादिवदिति । अत्रोच्यतेप्रागुत्पतद्भिरेवास्माभिरभ्यधायि स्थित्युत्पत्तिविनाशस्वभावं सकलमेव सत्, एतौ च द्रव्यपर्यायौ परस्परनिरपेक्षौ न सतो लक्षणम् , द्रव्यास्तिकस्य ध्रौव्यमात्रवृत्तित्वात् , पर्यायस्योत्पत्तिव्ययमात्रवृत्तित्वात् , परस्परापेक्षौ तु वस्तुस्वतत्त्वम् , न च द्रव्यांशः पर्यायांशो वा परमार्थतः कश्चिदस्ति परिकल्पितत्वात् ॥ यथाऽऽह "नान्वयो भेदरूपत्वान्न भेदोऽन्वयरूपतः । मृझेदद्वयसंसर्गवृत्तिर्जात्यन्तरं घटः ॥" अत एकान्तवादपरिकल्पिताद् वस्तुनोऽनेकान्तवादिनः संमतं वस्तु जात्यन्तरमेवाविभक्तरूपद्वयसंसर्गात्मकत्वाद् नरसिंहादिवत् , यथा "न नरः सिंहरूपत्वान्न सिंहो नररूपतः । शब्दविज्ञानकार्याणां, भेदाजात्यन्तरं हि तत् ॥".. तदेवं घटाद्यपि कल्पिताद् द्रव्यार्थरूपात् पर्यायार्थरूपाच्च जात्यन्तरमित्येवंविधप्रक्रियाभ्युपगमेन च सर्वमेकनयमतानुसारि दूषणमुपन्यस्यमानमसम्बद्धमेवापनीपद्यते, यतश्चैवमतो भेदाभेदस्वभावेऽपि खसिद्धं स्वाभाविकम् । एवं मृद्घटयोरपि कारणत्वकार्यत्वे न स्वाभाविके, तथा सति सर्वापेक्षया तन्तुत्वादिकमिव कारणत्वादिकमपि स्यात्, नहि तन्तुत्वादिकं तत्र निरूप्यमाणं किञ्चिदपेक्षयैव भवतीति तत्वाभाविक नैवं कारणत्वादिकं, तत्तु किञ्चिद. पेक्षयैव निरूप्यतेऽतः कल्पितमित्याशयः। पटकुम्भाचशेषत्यत्राशेषशब्दः स्वखनियतकार्यमात्रार्थकः । न स्वसिद्धः, न खाभाविकः, तन्तुपटप्रत्ययः पटावयवत्वेन तन्तुप्रत्ययः, तन्त्ववयवित्वेन पटप्रत्ययः । पटावयवत्वं परिकल्प्य तन्तुव्यपदेशप्रत्ययौ तन्त्ववयवित्वं प्रकल्प्य पटव्यपदेशप्रत्ययौ न निरपेक्षौ किन्त्वन्योन्यापेक्षावित्यन्योन्याश्रयकवलितावित्याह-स इतरेतराश्रयत्वादसदर्थविषय इति, उक्तन्यायमन्यत्राप्यतिदिशति-तथेति । अतत्कार्यकारणयोरिति, नहि मृत् घटस्य कारणं नापि घटो मृदः कार्यम् , अनेवम्भूतयोरपि कल्पनाकोशमात्रनिर्मितवपुषोरित्यर्थः। खरूपस्य खसिद्धखरूपस्य, मृत्त्वघटत्वादिकं च सामान्य नास्त्येव केवलमारोप्यते खस्खसिद्धान्ताभिनिवेशवशात् , तत एव च मृद्धटादिव्यपदेशप्रवृत्तिरिति । एवं द्रव्यास्तिकपर्यायास्तिकनयवादावेकान्तौ परस्परस्वरूपमर्दकावुपदर्य ग्रन्थकारस्खसिद्धान्तमावेदयन्नाह--अत्रोच्यत इति । उत्पतद्भिर्वस्तुखरूपं निरूपयद्भिः। द्रव्यांशो द्रव्यमात्रम् , पर्यायांशः पर्यायमात्रम् । अन्योन्यनिरपेक्षयोः द्रव्यपर्याययोरपारमार्थिकत्वे वृद्धसम्मतिमुपदर्शयति-यथाहेति । नान्वयो न द्रव्यमात्रत्वम् , भेदरूपत्वाद् उत्पादविनाशरूपपर्यायखभावत्वात् । न भेदो न केवलं मुक्तपर्यायस्वरूपविशेष एव, अन्वयरूपत उत्पादव्ययानुस्यूतद्रव्यस्यापि भावात् । तर्हि किंखरूपं वस्त्वित्यपेक्षायाह-मृद्धेदेति, मृदिति द्रव्योपलक्षकम् , भेदः पर्यायः, जात्यन्तरमिति, नैकान्तोभयरूपमपि, प्रत्येकपक्षदोषस्योभयपक्षेऽपि सद्भावात्, “प्रत्येकं यो भवेद्दोषो द्वयोर्भावे कथं न सः" इत्युक्तेः, किन्तु नरसिंहादिवद्विलक्षणो. ऽखण्डखरूप एव प्रत्येकपक्षदोषासंस्पृष्ट इति, एतदेव भावयन्नाह-अत इति । नरसिंहादिवदित्युक्तदृष्टान्तं विशदयतियथेति । शब्दविज्ञानकार्याणामिति, नरे नरशब्दः सिंहे सिंहशब्दः नरसिंहे तु न नरशब्दो नापि सिंहशब्दोऽभिधायकतया प्रवर्त्तते किन्तु नरसिंहशब्द इति शब्दभेदः, एवं नरे नरबुद्धिः सिंहे सिंहबुद्धिः, नरसिंहे तु नोक्तबुद्धी अवभासकतयां प्रवर्तेते किन्तु नरसिंहबुद्धिरेवेति बुद्धिमेदः, नरकार्यसिंहकार्यविलक्षणमेव तदुभयासाध्यं हिरण्यकशिपुहृदयविदारणं नरसिंहकार्यमिति कार्यभेदः, इत्यप्तो नरात्सिंहाच विलक्षणमेव जात्यन्तरं नरसिंहः। एवमेकान्तवाद्यभिमतद्रव्यपर्यायप्रत्येकखरूपोमयखरूपविलक्षणमेवान्योन्यसापेक्षोत्पादव्ययध्रौव्यात्मकमनेकान्तवाद्यभिमतं वस्त्वित्यर्थः । एतदेव निगमयन्नाह-तदेवं घटाय. पीति, कल्पिताद अपारमार्थिकात्, एकान्तानुगतिखरूपादिति यावत् , कल्पितादिति च पर्यायार्थरूपादित्यत्राप्यन्वेति तदानीमकान्तव्यावृत्तिरूपादिति तदर्थः, जात्यन्तरमित्यस्य भिन्नमित्यर्थः । एवंविधप्रक्रिया स्याद्वादप्रक्रिया, आपनीपद्यते प्राप्नोति, यतश्चैवं यतोऽनेकान्तोत्पादव्ययश्रौव्यात्मकं बस्त्वेकान्तनयानुसारिदूषणास्पृष्टम् । उपगृहमानो रक्षमाणः, प्रादु
SR No.022537
Book TitleTattvartha Trisutri Prakashika
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year1945
Total Pages150
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy