________________
[१२] अवयवावयविनोर्भेदनिरासः, कार्यकारणभावस्य काल्पनिकता च । [तत्त्वात्रिसूत्री दशपलपरिमाणभाजस्तन्तवः पटे गौरवान्तरमारभेरन् , अतस्तुलानतिविशेषाग्रहणान्नान्योऽवयव्यवयवेभ्य इति धर्मविशेषनिराकरणात् पक्षापवादो वाक्यार्थः; पटश्च तन्तुषु समवयन् प्रतितन्तु वर्तेत कालान देशेन वा ? न तावदेकत्र तन्तौ कृत्स्नः समवेतः सन्निकृष्टेऽपि तन्तावग्रहणात्, स्तम्भादिसन्निकर्षे मेर्वाद्यग्रहणवत्, यश्च यस्मिन् समवेतः स तत्सन्निकर्षे गृह्यते, यथा रूपादिः, अवयविबहुत्वप्रसङ्गश्च; अथ तन्तौ पटस्य प्रदेशो वर्तते, न तर्हि क्वचिदेकः पटो वर्तत इति प्राप्तम् , न च तन्तुव्यतिरेकेणान्यः पटस्य देशोऽस्ति येन देशेनासौ तन्तौ वर्तेत, तन्तुरेव च तस्य देश इष्यते वैशेषिकैः, न च तस्यैव तस्मिन् वृत्तियुज्यते, सावयवश्वावयवी स्यादिति । एवमवस्थितैकद्रव्याभावात् सर्वमुत्पादविनाशलक्षितमर्थक्रियासमर्थ वस्तु, उत्पादविनाशशून्याश्च शशविषाणादयो न वस्तुव्यपदेशभाज इति प्रतीतम् । न च परमार्थतः कारणप्रकृतिरस्ति द्रव्यसत्ता यत्रावगम्यते भव्यत्वात् , कारणं कार्यमिति कल्पनामात्रमेतत् , प्रतीत्यप्रत्ययमात्रवृत्तित्वाद् दीर्घत्वहस्वतावत्, तन्तुपटषिकस्येत्यर्थः । अवयवगुणानामवयविगुणारम्भकत्वे कणादसूत्रं प्रमाणतयोपन्यस्यति-द्रव्याणीति, धर्मविशेषेति, अवयवगुरुत्वभिन्नावयविगुरुत्वेत्यर्थः, पक्षापवादः, अवयविरूपपक्षस्य निरसनम् , वाक्यार्थः प्रकृतखण्डनतात्पर्यार्थः । अवयवेप्ववयविनः कात्स्न्येनैकदेशेन वा वृत्त्यसम्भवादपि नातिरिक्तावयविसम्भव इत्याह-पटश्चेति, समवयन् समवायेन वृत्तिमद्भवन् । न चैकस्मिन्नेव तन्तौ पटस्य वृत्तिरित्याह-न तावदेकत्रेति । तथाभ्युपगमे को दोषस्तत्राह-सन्निकृष्टेऽपीति, एकतन्तुमात्रेण चक्षुषस्सन्निकर्षेऽपि पटस्य प्रत्यक्षाभावादित्यर्थः, यदि चैकतन्तुमात्रवृत्तिः पटः स्यात्तदैकतन्तुसन्निकर्षे तन्मात्रवृत्तिरूपादिवत्पटोऽपि गृह्येत, न च गृह्यते तस्मान्नैकतन्तुमात्रसमवेतः पट इति भावः। उक्तमर्थमन्वयव्यतिरेकदृष्टान्ताभ्यां भावयति-स्तम्भादीति। पटस्य प्रत्येकतन्तुपरिसमाप्तत्वे तन्तूनामनेकखात्पटस्याप्यनेकत्वं स्यादित्याह-अवयविबहुत्वप्रसङ्गश्चेति, एतावता प्रतितन्तु पटस्य कात्स्न्येन वृत्तिः प्रतिषिद्धा। प्रतितन्तु एकदेशेन पटवृत्तिप्रतिषेधनायाह-अथेति । न चायं पक्षः सम्भवत्यपि, तन्तुव्यतिरिक्तपटप्रदेशाभावादित्याह-न च तन्तुव्यतिरेकेणेति । ननु तन्तुस्खयमेव खस्मिन्पटस्य वृत्ताववच्छेदकोऽस्त्वत आह-न च तस्यैवेति, तदधिकरणस्यैव तनिष्ठधर्मावच्छेदकत्वमिति नियमेन स्ववृत्ती वस्यावच्छेदकत्वे खाश्रयत्वं खस्य प्रसज्येतेल्यात्माश्रयान्न मुक्तिः स्यादिति भावः । एवमभ्युपगमेऽखण्डखरूपत्वमप्यवयविनो न स्यादित्याह-सावयवश्चेति, यद्यप्यवयवोऽस्यास्तीत्यवयवीति व्युत्पत्तिबलादवयविनस्सावयवत्वमस्त्येवेति नेदमनिष्टम् , तथाप्याश्रयभूतादवयवाध्यतिरिक्तेन प्रत्येकावयववृत्त्यवच्छेदकावयवेनावयववत्त्वं तु नानुमतं तत्प्रसक्तिरेवात्र विवक्षितेति स्वमतं निगमयति पर्यायवादी-एवमवस्थितैकद्रव्याभावादिति । कार्यकारणयोस्तादात्म्यात्कारणमेव कार्यरूपेण परिणमत इत्येवमनुगामित्वात्कारणस्य द्रव्यत्वमिति पराभिप्रेतमप्यास्कन्दयन्नाह पर्यायवादी-न च परमार्थत इति, एतदुक्त्या कार्यकारणभावस्य कल्पनामात्रनिर्मिततनुत्वमावेदितम् । कारणप्रकृतिः कारणस्वभावः कारणात्मेति यावत् । यत्र कारणप्रकृती, भव्यत्वात् तेन तेन कार्यरूपेण भवनशीलत्वात्परिणमनस्वभावत्वाद्वा, भव्यं च द्रव्यमिति वचनप्रामाण्यादेतदुक्तिः। कार्यकारणभावस्य काल्पनिकत्वं व्यवस्थापयन्नाह-कारणमिति । काल्पनिकत्वे हेतुः-प्रतीत्यप्रत्ययमात्रवृत्तित्वादिति, प्रतीत्य किश्चिदपेक्ष्य प्रत्ययो ज्ञानं यस्य स प्रतीत्यप्रत्ययस्तन्मात्रवृत्तित्वात् सनिरूपकत्वादिति यावत् , कारणं हि कार्यमपेक्ष्यैव प्रतीयते इदमस्य कारणं, न तु केवलं कारणमित्यवगतिः, कार्यमपि कारणमपेक्ष्यैव ज्ञायते इदमस्य कार्यमिति, न त्वपेक्षाविनिर्मुक्तं कार्यमित्येतावन्मात्रं तदवगतिरस्तीति । यच्च प्रतीत्यप्रत्ययमात्रवृत्ति सत्कल्पनानिर्मितशरीरमिति सामान्यव्याप्तौ दृष्टान्तमाह-दीर्घत्वह्रखतादिवदिति, अयमस्माद्दीर्थोऽयमस्माद् हस्ख इत्येवं दीर्घत्वहस्खत्वयोः प्रत्ययात् तयोः प्रतीत्यप्रत्ययमात्रवृत्तित्वं सुप्रतिपन्नम्, न च ते अपि वास्तविके एव, वास्तवस्य सर्वापेक्षयैकरूपत्वात् , यद्धि नीलं तन्न किश्चिदपेक्षया नीलं किञ्चिदपेक्षयाऽनीलं च सम्भवति, तस्य सर्वापेक्षया नीलत्वादेव, दीर्घत्वहस्खत्वे च न सर्वापेक्षयकरूपे प्रतीयेते, एकापेक्षया दीर्घतया प्रतीयमानस्यैवाभ्यापेक्षया हखतया प्रतीयमानत्वात्, एवं कारणत्वकार्यत्वे अपि । नहि कारणत्व. कार्यत्वे सर्वसाधारण्येन प्रतीयेते तथा सति घटकारणस्यापि पटकारणत्वं प्रसज्येत कुलालकार्यमपि तन्तुवायकार्य स्यात्ततश्च प्रतीत्यप्रत्ययमात्रवृत्तित्वात्कार्यकारणभावस्य काल्पनिकत्वमिति, तन्तपटयोरिति । तन्तुषु यत्कारणएवं पटे च यत्कार्यस्वं न तत्