________________
भाष्यटीकाविवृतियुता] गुणगुणिनोर्भेदानुमानेऽनेकान्तदूषणदाने पर्यायनयेन। [११] न्तात् , विकल्पितेऽपि ह्यर्थे स्मृतिदृष्टा बन्धुमत्याख्यायिकादौ । अस्ति च घटादिसङ्केतप्रभवः समुदाये विकल्पो वनादिविकल्पवत्, अन्यथा वनसेनास्मरणमपि न स्यात् , एवं च न रूपादिव्यतिरिक्तं द्रव्यं समस्तीति व्यवस्थितम् ॥ पुनरप्याह-अस्त्येवान्यद् द्रव्यं बुद्धिभेदात्, अन्यैव हि रूपादिधीरन्या च घटबुद्धिः, अयं च बुद्धिभेदोऽन्यत्वे सति भवति नान्यथा, तस्माद् रूपादिद्रव्ययोरन्यत्वं बुद्धिभेदाद् गवादिवदिति, अयुक्तमेतदपि, यदि तावदुभयोरन्यत्वं साध्यते, द्रव्याभावादेकदेशाश्रयासिद्धः, नहि सतोऽसतश्चैकमेव विशेषणं न्याय्यम् । अथ रूपादिभ्यो द्रव्यस्यान्यत्वं साध्यते, तदसमञ्जसम् , नहि द्रव्यं नाम किश्चिदस्ति स्वरूपेण यस्यान्यत्वं साध्येत, सिद्धे धर्मिणि धर्मविप्रतिपत्तौ साधनसद्भावात् , अनैकान्तिकश्च पानकादिभिर्बुद्धिभेदादिति, विनाऽप्यर्थान्तरभूतद्रव्यकल्पनया मनीषाभेदस्य सद्भावाद् रूपाद्यवयवानां सन्निवेशविशेषाद् बुद्धिभेदः, यथा गुडोदकाभ्यां पानकं नार्थान्तरमथ च बुद्धिभेदः, एवं वनपतयादिष्वपि द्रष्टव्यम् । तस्मान्नोत्पादव्ययव्यतिरिक्तः कश्चिदस्ति ध्रौव्यांशो यमाश्रित्य प्रज्ञाप्येत द्रव्यमेकमभेदप्रत्ययहेतुरिति । स्वात्मव्यतिरिक्तावयव्यारम्भकास्तन्तव इति चेत्, अयुक्ततरमिदम् , तुलानतिविशेषाभावात् , यस्य ह्यवयवगुणा गुणान्तराण्यारभन्तेऽवयविनि “द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरम्" इति वचनात् तस्य चाराभावे व्याप्यरूपेण तद्धर्मावच्छिन्नम्प्रति कारणत्वसम्भवे व्यापकरूपेणान्यथासिद्धिरिति न्यायेनाप्यनुभवत्वस्य कारणत्वावच्छेदकत्वन सम्भवतीति भावः । व्यभिचारस्थलमेवोपदर्शयति-विकल्पितेऽपीति, न हि तत्रानुभवस्य सम्भवो बन्धुमत्यादेः कविकल्पनामात्रगोचरत्वेन वस्तुत्वाभावेन तद्विषयकानुभवासम्भवात् , अनुभवस्य सन्मात्रविषयकत्वनियमादिति भावः। विकल्पश्च रूपस्पर्शसमुदायेऽपि समस्त्यतः तत्स्मरणं न दुर्घटमित्याह-अस्ति चेति, अन्यथा समुदायस्य विकल्पविषयकत्वानभ्युपगमे विकल्पस्य वा स्मरणजनकत्वानभ्युपगमे । एतावता निष्पन्नमर्थं पर्यायवाद्याह-एवं चेति । द्रव्यवादी पुनराशकते-पुनरप्याहेति, द्रव्यं रूपादिभ्यो भिन्न रूपाद्यग्राहकज्ञानग्राह्यत्वात् , द्रव्यपर्यायौ वा परस्पर विभिन्नौ, विभिन्नबुद्धिप्राह्यत्वात् , रूपस्पर्शाविवेत्यत्रानुमानाकारो ज्ञेयः । बुद्धिभेदमेव स्पष्टयति-अन्यैवेति । बुद्धिभेदस्य विषयभेदेन सहाविनाभावमावेदयति-अयश्चेति । पर्यायवादी उक्तानुमानमाश्रयासिद्ध्यादिना प्रतिक्षिपति-अयक्तमेतदपीति । पर्यायवादिनम्प्रति रूपादिद्रव्ये अन्योन्यं भिन्ने इति साधयितुं न शक्यते, द्रव्यस्यापि पक्षान्तर्गतत्वेन तस्य तम्प्रत्यसिध्याऽऽश्रयासिद्धिरित्याह-यदि तावदुभयोरन्यत्वं साध्यत इति । ननु विकल्पसिद्धोऽपि धर्मी पर्यायार्थिकवादिना वीक्रियत इति विकल्पसिद्धत्वमुपादाय द्रव्यस्य पक्षत्वम्भविष्यतीत्यत आह-नहीति, रूपादिकं सत्, द्रव्यञ्चासत् तयोरेकसाध्यवत्त्वन्न सम्भवति सति सन्नेव साध्यधर्मः, असति चासन्नेव, न तयोश्चैक्यमिति तदुभयविशेषणतयैकसाध्यासम्भवादित्याशयः। ननु द्रव्यं रूपादिभ्यो भिन्न भिन्नबुद्धिग्राह्यत्वादित्येव साध्यते, तत्र द्रव्यमात्रस्यैव पक्षत्वेन न पक्षकदेशाप्रसिद्धिरित्याशङ्कते-अथेति । सत्प्रतियोगिकस्य भेदस्यापि पारमार्थिकत्वेन पारमार्थिके वस्तुन्येव संसर्गो नापारमार्थिके, द्रव्यं च पारमार्थिकं नाद्यापि सिद्धमिति न तत्र पारमार्थिकरूपादि. भेदसंसर्गसम्भव इत्याशयेन पर्यायवादी समाधत्ते-तदसमञ्जसमिति । असतोऽपि द्रव्यस्यासत्ख्यातिवादिनां पर्यायास्तिकानामसत्ख्यात्या सिद्धिसम्भवान्नात्राश्रयासिद्धिदोषोद्भावनं न्याय्यमिति यदि परो ब्रूयात्तत्राह-अनैकान्तिकश्चेति, पानकस्य गुडोदकमरिच्यादिसमुदायरूपत्वमेव न तु तदतिरिक्तद्रव्यरूपत्वमिति सामान्यव्याप्ती व्यभिचारो भवत्येवेति बोध्यम् । ननु विषयभेदमन्तरेण कथं बुद्धिभेद इत्याशङ्कायामाह-विनाप्यर्थान्तरभूतेति । समुदायिनः समुदायघटकत्वात्समुदायावयवत्वमभिप्रेत्योक्तम्-रूपाद्यवयवानामिति, एतदेव भावयति-यथा गुडोदकाभ्यामिति । विशिष्टा पतिर्विपतिः पुष्पादीनां क्रमिकसन्निवेशविशेषो मालादिरूपः, आदिपदाद्वनसेनादिपरिग्रहः; उक्तखण्डनमुपसंहरति-तस्मादिति । वैशेषिकनयमाश्रयति द्रव्यवादी-स्वात्मव्यतिरिक्तति, यदि तन्तुभ्यो व्यतिरिक्तः पटः स्यात्तदा पटानारम्भावस्थायां प्रत्येकं तन्तूनां यानि गुरुत्वानि तानि पटावस्थायामपि तन्तूनां विद्यमानत्वात्सन्येव पटगुरुत्वमपि तत उत्कृष्टमधिकं जातमिति पूर्व गुरुखकार्य यादृशं नमनोन्नमनादिकं तुलायास्ततो विशिष्टं पटावस्थायां स्थान चैवं मात्रयाऽपि विशेष उपलभ्यतेऽतो नावयवातिरिकोऽवयवीति पर्यायवादी समाधत्ते-अयुक्ततरमिदमिति, तुलानतिविशेषाभावादिति यदुक्तं तदेव विशदयति-यस्येति, वैशे