________________
[१०]
पर्यायनस्य द्रव्यापलापेऽवयवानामेव समुदायतादरः । [ तत्वार्थत्रिसूत्री
न चायमभेदप्रत्ययो भ्रान्तः पुनः पुनः प्रेक्षापूर्वकारिभिस्तथैवोपलभ्यमानत्वात्, षयत्वात्, देवम्, अन्यविषयत्वाद्, रूपस्पर्शविषयाच्चक्षुः स्पर्शनज्ञानाद् भिन्नविषयोपलम्भनोऽन्यदेव रूपादिसमुदयविषयं स्मार्तमभेदज्ञानमुत्पद्यते - स एवायं घटो यमहमद्राक्षमहनि रात्रौ वा यं चास्प्राक्षम्, अतो रूपाद्यग्रहे तस्या अभेदबुद्धेरनुत्पादात् । एतदुक्तं भवति - दृष्ट्वा स्पृष्ट्वा वा स एवायं घट इति यदभेदज्ञानं तद् रूपादिसमुदयविषयं स्मार्तम्, तदग्रहे सत्यनुत्पत्तेः, यथा वनज्ञानं धवाद्यप्रदे सत्यनुत्पद्यमानं धवादिविषयमिति ॥ नन्वालोकाग्रहणे शुक्लबुद्धिर्न भवति, न चालोकविषया शुकुबुद्धिरित्येवमन्यत्वेऽपि साध्ये, न चालोकाद् रूपं नान्यदित्यनेकान्तः, नैतदेवम्, हेत्वर्थापरिज्ञानात्, रूपाद्यग्रहे तद्बुद्ध्यभावादित्यनेन तदभावाभावमुखेन रूपादिग्रहे सत्येव भावादित्याख्यायते, न चालोकग्रहणे सति रूपबुद्धिर्भवति, चित्ररूपवत् सालोकस्य रूपस्य प्रहणात्, आलोके तु सति स्याद् रूपबुद्धिः ॥ पुनरराशङ्कते - प्रत्यक्षानुमानाभ्यामननुभूते समुदाये कथं स्मृतिरुत्पद्यत इति, न, अनेका
-
निषेधे हेतुमाह-पुनःपुनरिति । प्रेक्षापूर्व कारिभिरित्यनेन विशेषदर्शित्वं तेषां व्यज्यते, विशेषदर्शनं च गुणरूपं ततो ज्ञानं भवत्प्रमैव स्यात्, विशेषादर्शनस्य दोषविधया भ्रमकारणस्याभावात्तेषां भ्रान्तिर्न स्यादेवेति भावः । सकृदनुभवने विशेषादर्शनसंभवाद्भ्रान्तिस्संभवेदपि न चैवं प्रकृते इत्यावेदनाय पुनः पुनरित्यसकृदाम्रेड नमिति द्रव्यविषयकत्वेनाभिमतप्रत्ययस्य रूपस्पर्शसमुदायविषयकत्वं स्मार्त्तत्वञ्च समुदायश्च समुदायिभ्योऽभिन्नो न द्रव्यं किन्तु पर्याय एवेति नातो द्रव्यसिद्धिरिति पर्यायवादी नन्विति शङ्कायां समाधत्ते - नैतदेवमिति । अन्यविषयत्वात् द्रव्यातिरिक्तविषयकत्वात् । एतदेव भावयति-रूपस्पर्शेति, रूपविषयकाच्चक्षुर्ज्ञानात्स्पर्शविषयकात्स्पर्शनज्ञानाश्चेत्यर्थः, भिन्नविषयोपलम्भिनो, भिन्नविषयकोपलम्भत्वेन द्रव्यवादिसम्मताज्ज्ञानात् । अन्यदेव भिन्नमेव । न तु द्रव्यविषयकम् । किन्तदित्यपेक्षायामाह - रूपादिस मुदायविषयमिति, स्मार्त्तत्वोक्त्याऽस्यानुभवात्मकरूपज्ञानस्पर्शज्ञानद्वयादेवास्योत्पत्तिर्नैतदनुरोधेनातिरिक्तद्रव्यकल्पनमिति सूचितम् । अतः स्मार्त्तत्वादेव, आशयमुद्घाटयति- एतदुक्तं भवतीति, तदग्रहे, रूपाद्यग्रहे । समुदायग्रहस्य समुदायिज्ञानं विनाऽनुत्पद्यमानस्य समुदायविषयकत्वमित्यत्र दृष्टान्तमाह-यथा वनज्ञानमिति, यदज्ञाने यज्ज्ञानन्न भवति तज्ज्ञानस्य तद्विषयकत्वमिति व्याप्तिरेवोक्तदृष्टान्तबलादायाता । तत्र द्रव्यवादी व्यभिचारमाशङ्कते - नन्वालोकाग्रहण इति, अन्यत्वेSपि साध्य इत्यत्रानन्यत्वेऽपि साध्य इति पाठो भवितुमर्हति तत्रैव न चालोकादित्यनेन व्यभिचारस्य दर्शितत्वात्, यत्रानुमाने व्यभिचारोऽनेन दर्शितस्स चानुमानप्रकार: पर्यायवादिन ईदृशः - विवादापन्नं ज्ञानं रूपाद्यनन्यविषयकं, रूपाद्यग्रहणे सत्यनुत्पद्यमानत्वात्, यज्ज्ञानं यदग्रहणे नोत्पद्यते तज्ज्ञानं तदनन्यविषयकं, यथा धवादिसमुदायात्मकवनज्ञानं धवाद्यग्रहणेऽनुस्पद्यमानं धवाद्यनन्यविषयकमिति । तत्र च व्यभिचार आलोकाग्रहण इत्यादिनोपदर्शितः, तथाहि - आलोकाग्रहणे शुक्ल बुद्धिर्नोत्पद्यते इति सामान्यव्याप्तावभिमतो हेतुस्तत्र वर्त्तते, न च शुक्लबुद्धिरालोकानन्यविषयेति साध्यन्तत्र नास्तीति । विवादपदं ज्ञानं रूपाद्यनम्यविषयं, रूपादिग्रहणे सत्येव भावाद्यद्यग्रहणे सत्येव भवति तत् तदनन्यविषयकं यथा धवखदिरादिसमुदायज्ञानं धधाद्यनन्यविषयकमित्यत्रैवोक्तानुमानपर्यवसानम्, तत्र च नोक्तव्यभिचारः, शुक्लबुद्धौ हि नालोकग्रहणं कारणं येनालोकग्रहणे सत्येव भावस्स्यादपि तु आलोकभास कसामग्रीनियतसामग्रीकत्वेनालोकोऽपि तस्यां भासत इति । पर्यायवादी समाधत्ते - नैतदेवमिति, यदि आलोकग्रहणं न शुक्लग्रहे कारणं तर्हि आलोकमन्तराऽपि शुक्लबुद्धिः कस्मान्न भवतीत्यपेक्षायामाह - आलोके त्विति, तथा च रूपबुद्धौ स्वरूपसत आलोकस्य कारणत्वन्न त्वालोकज्ञानस्येति, आलोकाभावे कारणाभावादेव शुक्लबुद्धिर्नोपजायत इति भावः । अननुभूतस्य स्मरणान्न भवतीति नियमेन रूपस्पर्शसमुदायस्य रूपादिप्रत्येकज्ञानाविषयत्वेन प्रागननुभूततया न तस्य स्मरणसम्भव इति द्रव्यविषयकमेव विवादपदं ज्ञानमभ्युपगन्तव्यमिति द्रव्यवादी शङ्कते - पुनराशङ्कत इति । अननुभूतस्य न स्मरणमिति न नियमः किन्त्वज्ञातस्य न स्मरणमित्येव नियमः, अत एव ज्ञानत्वेन स्मृतित्वेनैव कार्यकारणभावोऽभ्युपगम्यते तत एव च स्मृत्यनन्तरमपि स्मरणमुपपद्यते, अन्यथा सकृदनुभूतस्य स्मरणरूपफलेन संस्कारनाशे पुनः स्मरणं न स्यात्, तथा च घटादिपदसङ्केतप्रभवविकल्पात्मकज्ञानगोचरत्वात्समुदायोऽपि ज्ञात एवेति तत्स्मरणं न दुर्घटमिति पर्यायवादी समाधत्ते-न अनेकान्तादिति, अनुभवत्वेन स्मृतित्वेन कार्यकारणभावे व्यभिचारादित्यर्थः तथा च व्यभि