________________
भाष्यटीकाविवृतियुता] द्रव्यनयमतोपसंहारः, पर्यायनयमतं तस्य च द्रव्यनवेन सह चर्चा । [९] भावता, अन्यथा तु भाव एव न स्याद् भविता विशेषो भवनव्यतिरेकित्वात्, तदव्यतिरिक्तरूपत्वाच्च भवितुर्विशेषस्य तत्स्वरूपवद्भावता तदव्यतिरिक्तरूपता च । एवं सति भवनमात्रमेवेदं कृत्स्नं भेदाभिमतास्त्वेता वृत्तयस्तस्यैव न जात्यन्तराणीति ॥ पर्यायः पुनरपवादस्वभावोऽन्यपरिवर्जनमपवदनमपवादः, स ह्यन्यपरिवर्जनेनान्यं प्रतिपादयति प्रतिषेधरूपत्वाद्, अघटो न भवतीति घटः, पर्याया एव सन्ति न पुनद्रव्यं नाम किञ्चिदेकं पर्यायार्थान्तरभूतमस्ति, द्रव्यास्तिकावधारितध्रौव्यवस्तुप्रति. क्षेपेण भेदा एव वस्तुत्वेन प्रतिज्ञायन्तेऽतः पर्याये आस्तिकः पर्यायास्तिकः समुपलभ्यमानायःशलाकाकल्पभेदकलापव्यतिरेकेण द्रव्यस्यानुपलम्भात् ॥ ननु च रूपादिव्यतिरेकेण मृद्रब्यमित्येकवस्त्वालम्बनश्चाक्षुषः प्रत्ययः प्रत्याख्यातुमशक्यः, सन्तमसपटलावच्छादितप्रदेशवर्तिनि वा मृद्रव्ये स्पर्शनज्ञानमभिन्नमृद्रव्यमात्रालम्बनमसत्यमिति वा भाषितुं न पार्यत इत्यस्त्यभिन्नमेकं द्रव्यमभेदज्ञानवि
वात् । न चैकरूपत्वं सत्त्वस्य नास्त्येव घटत्वं हि घटे सत्त्वं पटत्वं पटे सत्त्वमित्येवमननुगततया भिन्नरूपस्यैव सत्त्वस्य घटसत्ता पटसत्तेत्येवं भिन्नप्रतिभासादिति वाच्यम् , तस्यौपाधिकभेदस्य वास्तविकाभेदाविरोधित्वादित्याशयेनाह-भेदप्रत्यवमशैनेति, अभिन्नमपि भवनलक्षणं द्रव्यं घटादिभवनविशेषावगाहिवेदनेन भिन्नमिवाभासते, यथा महाकाश एक एव मठघटशरावाकाशादिरूपैरवभासते तथेदमपीति । भावत्वं सत्त्वस्यैव केवलस्यान्यत्र तूपचारात्तत्संप्रत्यय इत्याह-तदाश्रयाच्चेति, सत्त्वात्मकमहासामान्याभेदाश्रयाणाचेत्यर्थः । भवितरि भवनरूपयोगिनि। अन्यथा सत्त्वात्मकमहासामान्याभेदानाश्चयणे, भविता भवनशीलः, विशेषो भाव एव न स्यात् , अनुगतस्य भावत्वाद्विशेषाणां च खतोऽननुगतत्वादित्याह-भवनव्यतिरेकित्वात्, सत्त्वभिन्नत्वात् । तदव्यतिरिक्तत्वात, सत्त्वाव्यतिरिक्तवाद, भवितुर्भवनाश्रयस्य, विशेषस्य पर्यायस्य, तत्स्वरूपवद, भवनखरूपवद्, तदव्यतिरिक्तरूपता, भावाव्यतिरिकरूपता। एवं सति द्रव्यार्थिकनयाभिप्रेतं यनिष्पन्नं तदाह-एवं सतीति, एता विशेषरूपा वृत्तयोऽवस्थाः, तस्यैव महासत्त्वलक्षणभवनस्यैव, न जात्यन्तराणि न तु विशेषा महासामान्यात्पृथगभूतानि तत्त्वानि । इत्थमुत्सर्गस्वभावलं द्रव्यास्तिकनयस्योपपादितम् ॥ सम्प्रति पर्यायास्तिकस्यापवादस्वरूपतां प्रपश्चयति-पर्याय पुनस्त्वर्थे, अपवादखभावः, अपवादस्वरूपः पर्यायास्तिकमयः । अपवाद एव क इत्यपेक्षायामाह-अन्यपरिवर्जनमिति, यौगिकोऽयमर्थ इत्युपपादयितुं व्युत्पत्तिमुपदर्शयति-अपवदनमपवाद इति, स हीति, हि यतः स पर्यायार्थिकनयः, अन्यपरिवर्जनेनान्यं प्रतिपादयतीति, पर्यायार्थिकनये हि घट इति शब्दो न विधिमुखेन घटरूपमर्थ कथयति, किन्तु घटान्यद् यत्पटादि तत्परिवर्जनेन तन्निषेधमुखेन घटान्यपटादिभ्योऽन्यं घटं प्रतिपादयति, यतो घटपदस्य घटत्वावच्छिन्ने शक्तिः । घटत्वं च न विधिरूपं सामान्यं किन्त्वघटव्यावृत्तिरूपमेवेत्याहप्रतिषेधरूपत्वादिति, एतदेव स्पष्टयति-अघटो न भवतीति घट इति, घटोऽयमित्युक्तेऽयमघटो न भवतीति निषेधरूपोऽर्थो लभ्यते इत्यर्थः । घटत्वस्य विधिरूपत्वं किमिति नाश्रयत्ययमित्यपेक्षायामाह-पर्याया एव सन्तीति, एव
छेद्यमाह-न पनव्यमित्यादि. द्रव्यपदश्चात्रानुगतधर्ममात्रोपलक्षकम् , तथा च घटत्वं न घटेभ्यो व्यतिरिक्त सकल घटानुगतमेकं सामान्यमस्ति, घटोऽयं घटोऽयमित्यनुगतमतिश्चाघटव्यावृत्तिविषयिण्येवेति । अघटव्यावृत्तिरूपतयाऽनुगतमतिप्रयोजनकत्वमिष्टमेव घटत्वादी न पुनर्विधिरूपतयेत्यावेदयितुमुक्तं-पर्यायार्थान्तरभूत मिति, पर्यायास्तिकसंज्ञाप्यस्य नयस्यान्वथैल्याह-द्रव्यास्तिकेत्यादि, ध्रौव्येति, अनुगतांशेत्यर्थः। भेदा एव विशेषा एव । प्रतिचायन्ते, खपक्षे स्थाप्यन्ते, परपक्षनिराकरणपूर्वकस्वपक्षव्यवस्थापनस्यैव प्रतिज्ञात्वात्, एतन्मतेऽनुगतमतिर्विकल्पनमात्रं न तु वस्तुनिर्णायकमिति हृदयम् । कथं निखिलपर्यायानुस्यूतमनुगतद्रव्यमयं नाभ्युपगच्छतीत्यपेक्षायामाह-समुपलभ्यमानेत्यादि । द्रव्यालम्बनप्रतीत्यपलपनमसहमानो द्रव्यास्तिक आशङ्कते-ननु चेत्यादि, रूपादीत्यत्रादिपदादसगन्धस्पर्शाद्युपप्रहः । सन्तमसेति, निबिडान्धकारेत्यर्थः, अनेनालोकरूपसहकार्यभावाच्चक्षुस्तत्र रूपग्रहणे न व्याप्रियत इति सूचितम्, स्पर्शनज्ञानमिति, त्वगिन्द्रियजन्यज्ञानमित्यर्थः, तथा चेन्द्रियद्वयवेद्यत्वं न रूपस्पर्शयोस्खयोरेकैकेन्द्रियग्राह्यत्वस्यैव भावादिति चाक्षुषस्पार्शनज्ञानविषयोऽनुगामी रूपस्पर्शयोः कश्चिदभ्युपगन्तव्यः, स एव द्रव्यमिति गूढाभिसन्धिः । मृगन्यमाति, मात्रपदेन रूपव्यवच्छेदः । नन्वनुगतप्रतीतिमात्रस्य भ्रान्ततमेव पर्यायवादिनाऽभ्युपगमान ततो वस्तुसिद्धिरित्यत आह-नचायमिति ।
त. त्रि.१