________________
[4]
द्रव्यादिविप्रकर्षाद्भावरूपाऽनुपलब्धिः, द्रव्यनयमतञ्च [ तत्त्वार्थत्रिसूत्री
वन्ध्यायाः केन तद्वत्ता निवार्यते ?, नहि पूर्वोपात्तकर्मविपरिणामव्यतिरेकेण तज्जीवतथाविधपरिणत्यभावे वा उत्तरजन्मप्रतिपत्तिरमूलत्वात् ४; अतः सर्व एव पदार्था द्रव्यक्षेत्रकालभावभेदापेक्षाः कदाचि - दुपलभ्यन्ते, प्रत्यक्षादिना प्रमाणेनावधार्यन्ते, कदाचिदुपलब्धाः सन्तोऽपि भूयो नोपलभ्यन्ते, द्रव्यादिविप्रकर्षात्, सत्यपि मतिज्ञानावरणीय कर्मक्षयोपशमकारणसाकल्ये उपयोगे च किञ्चिद् द्रव्यमन्यापरमाणुव्यणुकादि वैक्रियशरीरादि च सदपि नोपलभ्यते, तस्य च द्रव्यस्य तथाविधपरिणामात्, आदिशब्दाद् दिवा तारकादयो माषश्च माषराशावुपक्षिप्तः किञ्चित् क्षेत्रविप्रकर्षाद्धि दूरात्यासन्नस - व्यवधानवर्ति विद्यमानमेव नोपलम्भविषय भूयमास्कन्दति, तथाऽपरं कालविप्रकर्षादनाविर्भूतं तिरोभूतमुपलब्धेरगोचरः, तथाऽन्यद्भावविप्रकर्षात् परकीयात्मवर्तिमतिज्ञानविकल्पजालमण्वादिपरिवर्ति
संस्थानरूपादिपर्यायकलापजातं सदप्यनुपलभ्यम्, विवक्षितोपलब्धेश्चान्या उपलब्धिरनुपलब्धिः, पर्युदासवृत्तेरभ्युपगमात्, न पुनरुपलब्ध्यभावोऽनुपलब्धिः, अनुपाख्यस्याभावस्य प्रत्याख्यानात्, भावस्यैव चाभावशब्देन कथञ्चिदभिधेयत्वात् तस्मादुपलम्भकारणभाज एवानुपलब्धिर्नान्यथा, व्यवस्थितमिदं नाभावः प्रतिषेधमात्रमिति । एवं च धौव्यं द्रव्यास्तिकः, अस्तीति मतिरस्येत्यास्तिकः, द्रव्य एवास्तिको द्रव्यास्तिकः, सकलभेदनिरासादकृतलक्षणस्य च तत्पुरुषस्य मयूरव्यंसकादिप्रक्षेपात् समसनम्, तश्च द्रव्यं भवनलक्षणं मयूराण्डकरसवदुपारूढसर्वभेद्बीजं निर्भेदं देशकालक्रमव्यङ्ग्यभेदं समरसावस्थमेकरूपं भेदप्रत्यवमर्शेनाभिन्नमपि भिन्नवदाभासते, तदाश्रयाच्च भवितरि विशेषे भवति
वन्ध्यापुत्रः प्रसिद्ध इति न वन्ध्यापुत्रस्य सर्वथाऽसत्त्वम् । किञ्च याऽपि स्त्री कस्याप्यपत्यस्याजननीत्वाद्वन्ध्येति प्रसिद्धा, साऽप्यस्ति पुत्रोऽप्यन्यस्त्रियाः कश्चित्प्रसिद्ध इति पुत्रे वन्ध्यासम्बन्धित्वज्ञानरूपा वन्ध्यापुत्रप्रतीतिरपि विपरीतख्याति रेव, नासत्ख्यातिः कुत्रापि सम्भवतीत्याशयेनाह - अतः सर्व एवेति कदाचिद्, द्रव्याद्यविप्रकर्षे, उपलभ्यन्त इत्यस्यैव विवरणं प्रत्यक्षादिना प्रमाणेनावधार्यन्त इति । नोपलभ्यन्ते द्रव्यादिविप्रकर्षादिति, यथा- पृथिवीत्वादिजाती रूपादिकं च घटादावुपलभ्यते परमाणौ नोपलभ्यते इति द्रव्यविप्रकर्षात् तत्रानुपलब्धिः, भित्त्याद्यनावृतदेशस्थितो य एव पूर्वमुपलब्धस्स एवं भित्त्यादिव्यवहित देशगत स्सन्नोपलभ्यते तत्रानुपलब्धिः क्षेत्रविप्रकर्षात् खासमानकालीन पदार्थस्तत्कालीनपुरुषोपलब्धिगोचरोऽप्यन्यकालीनपुंसा नोपलभ्यते तत्रानुपलब्धिकारणं कालविप्रकर्षः, लवणं पूर्वमुपलब्धमपि चक्षुषा तोयगतं नोपलभ्यते तत्रानुपलब्धि हेतुस्स्वभावविप्रकर्ष इत्येवमेकस्याप्युपलब्ध्यनुपलब्धी ज्ञेये । द्रव्यादिविप्रकर्षादिति, स्वयं स्पष्टदृष्टान्तेनोपपाय दर्शयति- सत्यपीत्यादिना, किश्चिद्रव्यमित्यादि द्रव्यविप्रकर्षे उदाहरणम् । उपलम्भविषय भूयमास्कन्दति उपलम्भविषयत्वं प्राप्नोति । अनुपलब्धिरपि नोपलब्ध्यत्यन्ताभावो येन तुच्छरूपतामास्कन्देत, किन्तु भावरूपैवेत्याह-विवक्षितोपलब्धेश्चेति । प्रक्रान्तमर्थमालम्ब्याह एवं चेति, द्रव्यास्तिकपर्यायास्तिकावुत्सर्गापवादस्वभावाविति, यदुक्तं प्राक् तदधिकृत्याह - ध्रौव्यमिति, अत्र विषयिनयगतस्य द्रव्यास्तिकत्वस्य विषये ध्रौव्येप्युपढौकनम्, तदुपपादनायाह- अस्तीति मतिरस्येत्यास्तिक इति । द्रव्यास्तिकशब्दस्योक्तस्य लाक्षणिकतत्पुरुषसमासभेदानन्तर्गतत्वेऽपि तत्पुरुषत्वोपपादनायाह-सकलभेदनिरासादकृतलक्षणस्येति, सकलभेदनिरासादित्यस्य पूर्वान्व - योऽपि सम्भवति, तत्र द्रव्य एव कुत आस्तिक इत्यपेक्षायामाह - सकलेति, भेदपदमत्र पर्यायपरम् । तच्च द्रव्यं, द्रव्यास्विनयविषयो धौव्यलक्षणं द्रव्यं च, भवनलक्षणं भू सत्तायामिति वचनात् सत्तास्वरूपम् तस्यैव घटपटादिखरूपसद्विशेषानुगतत्वेन द्रव्यत्वम्, तदेव च वस्तुनि त्रिकालानुगामितया धौव्यम् । मयूराण्डकरसवदिति, यथा मयूराण्डकरसे भाविमयूरगतसचन्द्रपिच्छस्निग्ध सौन्दर्यचित्ररूपादिसन्निवेशस्सूक्ष्मरूपेण वर्त्तते तथा भवनलक्षणे सत्त्वेऽपि सर्वेऽपि विशेषास्सन्ति, मयूराण्डकरसो यथा तत्तद्रूपेणोत्तरकालम्परिणमति तथा भवनमपि तत्तद्विशेषाकार इव भवति तद्वदेव च सर्वविशेषप्रभेदबीजं सत्त्वम् । निर्भेदं खतो भेदविकलमपि । देशकालक्रमव्यङ्ग्य भेदमित्यत्र भेदशब्दो विशेषवचनः । समरसावस्थं विशेषेषु नानारूपेष्वनुगततयैवावस्थितम्, अत एव एकरूपम् अनेकरूपस्यानुगतप्रतीतिनियामकत्वासम्भ