SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ भाष्यटीकाविवृतियुता] स्याद्वादवादे प्रागभावादीनां भावरूपता [७] चाभावः प्रतिषेधमात्रम् । प्रागभावो हि घटस्य मृत्पिण्डः, प्राग्घटोत्पादाद् घटस्थाभावः पिण्ड एषानाविर्भूतघटाकारः १; प्रध्वंसाभावोऽपि कपालाद्यवस्था, प्रध्वंसो विनाशः, स चावस्थान्तररूपत्वाद् वस्तुस्वभावं न जहाति, वर्णकविरचनामात्रप्रापितनटान्यत्ववदुत्फणविफणादिसंस्थानमात्रत्यागिसर्पवद् वा २; इतरेतराभावोऽपि स्तम्भकुम्भादीनां परस्परव्यतिरेकरूपत्वान्नावस्तु, घटो हि घटसंस्थानादिव्यतिरेकापेक्षस्वरूप एवाभावशब्दवाच्यः, समस्तवस्तुनश्च तथाविधत्वाभ्युपगमाद् वस्त्वेव भवतीतरेतराभावः ३; न चात्यन्ताभावः कश्चिदनुपाख्योऽस्ति सर्वप्रकारमनुपाख्यायमानस्वरूपानधिगमात्, शशविषाणादेर्वस्त्ववस्थान्तरत्वादुपलब्धिविषयत्वम् , शशविषाणाभावो हि मौण्ड्यं समतलमस्तकस्वरूपोपलब्धिर्नात्यन्ताभावः, विषाणसद्भावादन्यत्र शशमस्तकसद्भावाच्चेतरेतराभाव एव, समवायसम्बन्धप्रतिषेधमात्रत्वाद् वा अन्यत्र च तस्य सत्त्वान्नात्यन्ताभावः, नामकर्मपरिणामवशाच्चापत्यवत्त्वे निषेधे हेतुमाह-प्रागभावो हीति, हि यतः, प्रागभावो घटस्य प्रागभावः। मृत्पिण्डः पिण्डितावस्थमृद्रव्यमेव घटप्रागभावः, एतेनाव्यवहितपूर्वपर्यायभावापन्नद्रव्यस्योत्तरपर्यायप्रागभावरूपता व्याख्याता । कथमेवमित्यपेक्षायामाह-प्राग्घटोत्पादादिति, पिण्ड एव मृत्पिण्ड एव । प्रध्वंसाभावोऽपीत्यपिना प्रागभावस्य भावरूपतासमुच्चयः । स च विनाशश्च । अवस्थान्तररूपत्वात् कपालाद्यवस्थोत्तरकालीनघटाद्यवस्थारूपत्वात् । वस्तुस्वभावं भावरूपताम् , उत्पादव्ययध्रौव्यात्मकतामिति यावत्। तथा चाव्यवहितोत्तरपर्याय एव पूर्वपर्यायस्य ध्वंसः, तथा च घटस्य घटात्मनोत्पाद एव कपालध्वंसो मृदूपेणावस्थितिश्चेति विनाशस्य घटरूपत्वे घटगतोत्पादव्यवध्रौव्ययुक्तत्वं तस्यापीति तद्रूपवस्तुखभावत्वमपि निर्बाधमेवेति । अथवा केनचिद्रूपेण विनाशेऽपि अनुगामिद्रव्यावस्थानं समस्त्येवातोऽनुगामिरूपत्वमेव वस्तुखभावं न जहातीत्यर्थः। अत्रैवानुगुणं दृष्टान्तद्वयमाह-वर्णकविरचनेत्यादि, वर्णकविरचना रामरावणाद्यनुकारिखरूपपरिकल्पना । मात्रपदोपसन्दानात्वखरूपामना नटस्यानन्यत्वं गम्यते, एवमग्रेऽपि । अन्योन्याभावस्यापि भावरूपत्वं स्पष्टमाख्याति-इतरेतराभावोऽपीति, उक्तमर्थमेव भावयति-घटो हीति, घटस्य यत्संस्थानादि पृथुबुध्नोदराद्याकारस्तद्रूपो यो व्यतिरेकः पटादितो वैलक्षण्यं तदपेक्षस्वरूप एव घटः । अभावशब्दवाच्यः पटाद्यन्योन्याभावव्यपदेशभाक् । न च घटादेरेव प्रतिनियतस्य वस्तुनो भावाभावोभयरूपत्वमपि त्वशेषस्य जगत एव भावाभावोभयरूपत्वमित्याह-समस्तवस्तुनश्चेति, तथाविधत्वेति, परस्परव्यतिरेकरूपत्वेत्यर्थः । अत्यन्ताभावोऽपि तादात्म्यपरिणामनिवृत्त्यात्माभावभूताधिकरणस्वरूप एव, न तु तद्व्यतिरिक्तस्तुच्छरूप इति । तस्याप्यधिकरणगतोत्पादादियोगाद्वस्तुत्वमेवेत्याशयेनाह-न चात्यन्ताभाव इति, अनुपाख्यस्तुच्छरूपः । तस्यानुपाख्यत्वेऽधिगतिविषयत्वमेव न सम्भवतीत्याह-सर्वप्रकारमिति, न च शशविषाणादीनामनुपाख्यखरूपाणां यथाऽसत्ख्यात्यात्मकाधिगतिविषयत्वं तथाऽत्यन्ताभावस्यापि तथाविधस्य तत्त्वम्भविष्यतीति व्याच्यम्, शशविषाणप्रतीतिर्हि नाखण्डस्यालीकस्य प्रतीतिस्तथा सति गगनकुसुमादिप्रतीतितो विषयकृतवैलक्षणस्य तत्रानुभूयमानस्यापलापप्रसङ्गादलीके खरूपादिवैलक्षण्यस्य वक्तुमशक्यत्वात् , किन्तु विषाणे शशीयत्वस्य शशे वा विषाणसम्बन्धस्य प्रतीतिरेवं सति शशीयत्वमप्यन्यत्र प्रसिद्ध विषाणसम्बन्धोऽपि चान्यत्र प्रसिद्ध इत्युक्तविशिष्टप्रतीतिर्विपरीतख्यातिरेव न त्वसत्ख्यातिः। एवं शशविषाणं नास्तीत्यन्ताभावप्रतीतिरपि नासत्प्रतियोगिकाभावविषयिणी, किन्तु शशे विषाणसम्बन्धाभावावलम्बनैवेत्यनुरोधेनाप्यसत्ख्यातिर्न सिद्धिपथमुपगच्छतीत्याशयेनाह,-शशविषाणादेरिति, आदिपदाद्गगनकुसुमादीनां परिग्रहः । वस्त्ववस्थान्तरस्वात, शशोऽपि पुद्गलपरिमाणत्वाद्वस्त्ववस्थान्तररूप एवं विषाणमपि । ततश्चोपलब्धिविषयत्वम्, विपरीतख्यातिविषयत्वम् । मौण्ड्यमित्यस्यैव विवरणम्-समतलमस्तकस्वरूपोपलब्धिरिति, उपलब्धिरिति प्रमाणोपन्यासाय, तथा चोपलभ्यमानसमतलशशमस्तकखरूपमेव शशविषाणाभावः, नात्यन्ताभावः, न तु तुच्छरूपोऽसावभावः। अयं याभावोऽन्योन्याभावखरूप इत्यावेदयितुमाह-विषाणसद्धावादन्यत्रेति । नन्वन्योन्याभावस्थले प्रतियोग्यनुयोगिवाचकपदयोस्समानविभक्तिकत्वं तन्त्रमतो नोक्तस्यान्योन्याभावविषयकत्वमत आह-समवायेति, समवायश्चात्र कथञ्चित्तादात्म्यलक्षणाविश्वम्भावः, तथा च शशे तादृशसम्बन्धेन विषाणस्याभावो विषाणे वा शशस्य ताशसम्बन्धस्याभावो वा विषयो नैतावता तुच्छरूपात्यन्ताभावविषयत्वं, किन्तु अधिकरणस्वरूपात्यन्ताभावविषयत्वमेवेति भावः । तस्य, समवायसम्बन्धस्य । एवं वन्ध्यापुत्रोऽपि नात्यन्तमसन्नुपलब्धिगोचर इत्युपपादनायाह-नामकर्मेति, काचित्स्त्री नाम्ना वन्ध्याऽपि स्यात्पुत्रवत्यपि स्यात्तस्याः पुत्र एव
SR No.022537
Book TitleTattvartha Trisutri Prakashika
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year1945
Total Pages150
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy