________________
तत्त्वार्थत्रिसूत्री
सत्त्वलक्षणं तस्य च द्रव्यपर्यायनयगर्भता सूत्रम्-] उत्पादव्ययध्रौव्ययुक्तं सत् ॥५-२९ ॥ - [भाष्यम्-] उत्पादव्ययाभ्यां ध्रौव्येण च युक्तं सतो लक्षणम् ; यदुत्पद्यते, यद् व्येति, यच्च ध्रुवं तत् सत्; अतोऽन्यदसदिति ॥ २९॥
- उत्पादव्ययाभ्यामित्यादि । समासतश्चायं सूत्रार्थः-स्थित्युत्पत्तिविनाशस्वभावं सद् , अवश्यन्तयैव स्थित्युत्पादविनाशाः समुदिता एव सत्त्वं गमयन्ति । स्थित्यादयो हि सत एव भवन्ति, न जातुचिन्निरुपाख्यस्य, केनचिदप्याकारणानुपाख्यायमानत्वादिति । यत् कथंचिन्न ध्रुवं न चोत्पद्यते न व्येति तन्न सदिति । इदं च सूत्रं द्रव्यपर्यायनयद्वयगर्भम् , यतो द्रव्यास्तिकपर्यायास्तिकावुत्सर्गापवादुस्वभावौ मूलं सङ्ग्रहादिप्रपञ्चस्य, तन्निरूप्यं च सर्व वस्तु, ते च सङ्ग्रहादयः प्रथमाध्याये विध्यपवादस्वरूपतया निरूपिताः, विशेषविवक्षया तु किञ्चिदुच्यते-उत्सर्गो विधिर्व्यापित्वमप्रतिषेधः, न ह्यसौ द्रव्यनयो विशेषमिच्छति, विशेषो ह्यन्यप्रतिषेधेनात्मानं प्रतिपादयति भावान्तरत्वात् , न - उत्पादव्ययध्रौव्ययुक्तं सत् ॥ ५। २९ ॥ द्वन्द्वान्ते श्रूयमाणस्य प्रत्येकमभिसम्बन्धादुत्पादादित्रयाणां कृतद्वन्द्वानां युक्तपदेनान्वयाद्योऽर्थो निष्पद्यते तं भाष्यकृदाह-उत्पादव्ययाभ्यामित्यादि.द्वयोरुत्पादव्यययोरेकपर्यायार्थिकनयाभिप्रेतत्वमभिसन्धाय ध्रौव्याद्रव्यार्थिकनयाभिप्रेतात्पृथक्कृत्य निर्देशः, सतो लक्षणमित्युक्त्या उत्पादव्ययध्रौव्ययुक्तमिति लक्षणांशः सदिति लक्ष्यांशो निर्दिष्टः सूत्रे इति ख्यापितम्। उप्पेइ वेत्यादित्रिपद्यां वाकारो न विकल्पार्थः किन्तु समुच्चयार्थक एवेति द्योतनायाह-यदुत्पद्यते इत्यादि । अर्थापत्तिगम्यमर्थ स्पष्टमावेदयति-अत इति, सदसत्कार्यवादाविर्भावनाय टीकायां स्थित्युत्पत्तीत्येवं निर्देशः, तेन स्थितेः सर्वकालावच्छेद्यत्वमभिप्रेति । सूत्रभाष्ययोर्युक्तमितिशब्दो न सम्बन्धान्तरेण सम्बन्धित्वख्यापनपरः, किन्तु कथश्चित्तादात्म्यलक्षणाविश्वम्भावसम्बन्धेनैवेत्यवगतये स्थित्युत्पत्तिविनाशखभावमित्यत्र स्वभावपदम् , स्वभावस्वभाववतोश्च तादात्म्यं सुप्रतीतम् . तेन चोत्पादादित्रयाणामपि परस्परं कथञ्चिदभेदो लभ्यते तदभिन्नाभिन्नस्य तदभिन्नत्वमिति न्यायात् । एवञ्च न भिन्नप्रवृत्तिनिमित्तकत्वेन सच्छब्दस्य नानार्थत्वं हर्यादिपदवत्, किन्तु त्रयाणां कथञ्चिदेकत्वेन तत्प्रवृत्तिनिमित्तकत्वादेकार्थकत्वमेवेति, कथञ्चिद्भेदेऽपि च त्रितयपर्याप्तकावच्छेदकताकशक्यताकत्वादेकार्थत्वमवसेयम् , अत एव समुदिता एवेत्युपपन्नम् । उत्पादव्ययध्रौव्याणां विभिन्नखभावानामेकस्मिन् वृत्तिन प्रकारभेदमन्तरेण निरुपाख्यस्य च निर्धर्मकतया न प्रकारभेदसम्भावनेति न स्थित्यादिसमुदितलक्षणसम्भव इत्याशयेनोक्तम्-केनचिदप्याकारणेति, आकारश्चासमस्ताखण्डशब्दाभिलप्य एवाभिमतः, तेन शशशृङ्गगगनकुसुमखरविषाणादिशब्दाभिलप्याकारस्य न ग्रहणम् । अतोऽन्यदसदिति भाष्यं गमयति-यत्कथञ्चिन्न ध्वमित्यादि, स्थित्यादीनां त्रयाणां परस्परविरुद्धत्वादेकाश्रयतयोपबन्धनं सूत्रेऽसातमित्याशङ्कापनोदायाह-इदश्च सूत्रमिति, उत्सर्गः सामान्यं तच प्रकृते ध्रौव्यांशः, तस्य पूर्वोत्तरपर्यायानुस्यूततयाऽनुगामित्वात्सामान्यरूपत्वम् , अपवादोऽननुगामी तत्तत्पर्यायनियतैकखभावो विशेषः, स च प्रकृते उत्पादव्ययौ । यथा हि स्थित्यवच्छेदकं सुवर्णद्रव्यं कुण्डलाङ्गदादिपूर्वोत्तरपर्यायानुयायि,न तथा कुण्डलत्वाङ्गदत्वादिकमुत्पादव्ययावच्छेदकम् , अवच्छेदकानुगतत्वाननुगतत्वाभ्यामवच्छेद्यानुगतत्वाननुगतत्वे बोध्ये, विषयधर्मेण विषयिणोऽप्यनुरजनमिति द्रव्यास्तिकपर्यायास्तिकावुत्सर्गापवादखभावावित्युक्तम्। सङ्घहादीत्यत्रादिपदाद्यवहारादीनामुपग्रहः। प्रमा
नयैरधिगम इत्यत्र नयस्याधिगमप्रयोजकत्वमुक्तं तत्स्मारयति-तन्निरूप्यमिति, सङ्ग्रहादिनयनिरूप्यमित्यर्थः। उत्सर्गापवादेत्यत्र यस्यैवोत्सर्गशब्देनाभिधानं तस्यैव विध्यपवादेत्यत्र विधिशब्देनानुरणनमित्येतत्कथयति-उत्सगो विधिरित्यादि, उत्सर्गमात्रप्रतिपादकत्वादुत्सर्गखभावत्वं द्रव्यास्तिकस्येति प्रपञ्चयति-न ह्यसाविति।किंखरूपो विशेषो यं न द्रव्यास्तिकोऽभिधत्ते इत्यपेक्षायामाह-विशेषो हीति, यथाऽदत्वं विशेषोऽङ्गदभिन्नकुण्डलादिप्रतिषेधेनाङ्गदस्वरूपं प्रतिपादयतीति, भावान्तरत्वात्, कुण्डलाद्यवृत्तिधर्मत्वात् । अन्यप्रतिषेधेनेत्युक्तं, तत्र घटत्वादीनामतघ्यावृत्तिरूपतामभ्युपगच्छता सौगतानां मते अन्यप्रतिषेधेन प्रतिपादकत्वं विशेषस्येष्टमेव, परन्तस्याभावरूपतया तुच्छत्वमेव न चैवमत्रेत्याशयेनाह-न चाभावःप्रतिषेधमात्रमिति, तुच्छस्वरूपमित्यर्थः। अथवा प्रागभावादिचतुर्विधस्याभावस्य वैशेषिकमते सर्वथा भावव्यतिरिक्तत्वेन सप्तमपदार्थताऽभ्युपगता तथाऽत्र नेत्यभिप्रायेणाह-नचाभावःप्रतिषेधमात्रमिति, प्रतिषेधमानं भावखरूपतानाक्रान्ताभावखरूपम् ।